रुद्रपञ्चकम्
रुद्रमन्त्रकसूक्तं प्रथमम्
ॐ नमः शिवाय ।
प्रणतोऽस्मि महादेव प्रपन्नोऽस्मि सदाशिव ।
निवारय महामृत्युं मृत्युञ्जय नमोऽस्तु ते ॥
देवं सुधाकलशसोमकरं त्रिनेत्रं
पद्मासनं च वरदाऽभयदं सुशुभ्रम् ।
शङ्खाऽभयाब्जवरभूषितया च देव्या
वामेऽङ्कितं शमनभङ्गहरं नमामि ॥
शुद्धस्फटिकसङ्काशं त्रिनेत्रं पञ्चवक्त्रकम् ।
गङ्गाधरं दशभुजं सर्वाभरणभूषितम् ॥ १॥
नीलग्रीवं शशाङ्काङ्कं नागयज्ञोपवीतिनम् ।
व्याघ्रचर्मोत्तरीयं च वरेण्यमभयप्रदम् ॥ २॥
कमण्डल्वक्षसूत्राभ्यामन्वितं शूलपाणिकम् ।
ज्वलन्तं पिङ्गलजटाशिखमुद्योतकारिणम् ॥ ३॥
अमृतेनाप्लुतं हृष्टमुमादेहार्धधारिणम् ।
दिव्यसिंहासनासीनं दिव्यभोगसमन्वितम् ॥ ४॥
दिग्देवतासमायुक्तं सुरासुरनमस्कृतम् ।
नित्यं च शाश्वतं शुद्धं ध्रुवमक्षरमऽव्ययम् ॥ ५॥
सर्वव्यापिनमीशानं रुद्रं वै विश्वरूपिणम् ।
एवं ध्यात्वा द्विजः सम्यक्ततो यजनमारभेत् ॥ ६॥
मृत्युञ्जय महादेव पाहि मां शरणागतम् ।
जन्ममृत्युजरारोगैः पीडितं भवबन्धनात् ॥ ७॥
आराधितो मनुष्यैस्त्वं सिद्धैर्देवैर्महर्षिभिः ।
आवाहयामि भक्त्या त्वां गृहाणार्चां महेश्वर ॥ ८॥
हर शम्भो महादेव विश्वेशामरवल्लभ ।
शिव शङ्कर सर्वात्मन् नीलकण्ठ नमोऽस्तु ते ॥ ९॥
इति विज्ञाप्य देवेशं जपेन्मन्त्रं च त्र्यम्बकम् ॥ १०॥
ॐ त्र्यम्बकं यजामहे सुगन्धिं रयिपोषणम् ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात् ॥
ॐ आत्वा वहन्तु हरयः सचेतसः श्वेतैरश्वैरिह केतुमद्भिर्वाताजवेन
बलमद्भिर्मनोजवा यान्तु शीघ्रं मम रुद्राय हव्यन्देवानां च ऋषीणां
चासुराणां च पूर्वजं सहस्राक्षं विरूपाक्षं विश्वरूपं
महादेव शिवमावाहयाम्यहम् ॥
आवाहयाम्यहं देवमीश्वरं पार्वतीपतिम् ।
वृषभासनमारूढं नागाभरणभूषितम् ॥
प्रीयतां यजमानस्य तुष्टो भूयाज्जगत्पतिः ।
शुक्लवर्णो महातेजाः शुक्लस्रग्दामभूषितः ।
बलिः पुण्यं चरुश्चैव धूपोऽयं प्रतिगृह्यताम् ॥
ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि ।
तन्नो रुद्रः प्रचोदयात् ॥ ३॥
ॐ शतरुद्रियन्देवानां रुद्रशमनं भवाय शर्वीयश्च
प्रत्युत्क्रान्तानुवाकौ देवर्षी रुद्रदैवत्यस्त्रिष्टुप्च्छन्दश्चयने
विनियोगः,
नमस्ते देवा रौद्रमानुष्टुभमाद्या गायत्री पञ्चमषष्ठ्यौ
पांक्त्यन्ता महापङ्क्तिर्मा भैरेकपदा जगत्यनुष्टुप त्रिष्टुप् महाबृहती
यवमध्या रुद्रो देवता चरुमेष्टिका, अस्य रुद्रस्य प्रश्नस्य
अनुष्टुपच्छन्दः अघोर ऋषि सङ्कर्षणमूर्तिः सुरूपो योऽसावादित्यः
परःपुरुषः सएव देवता, अग्निः क्रतुचरुमायामिष्टिकायां
शतरुद्रे विनियोगः, सकलस्य रुद्राध्यायस्य श्रीमहारुद्रो
देवता एका गायत्री छन्दस्तिस्रोऽनुष्टुभस्तिस्रः पङ्क्त्यः
सप्ताऽनुष्टुभौ द्वे जगत्यौ परमेष्ठी ऋषिः । आत्मनो
वाङ्मनः कायोपार्जितपापनिवारणार्थममुककामनासिद्ध्यर्थे
रुद्रमन्त्रपाठे होमे स्नाने पुष्पार्चने वा विनियोगः ॥
ॐ कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम् ।
सदा रमन्तं हृदयारविन्दे भवं भवानीसहितं नमामि ॥
ॐ नमस्ते रुद्र मन्यवे बाहुभ्यामुत ते नम उत त इषवे नमः।
या ते रुद्र शिवा तनूरऽघोरा पापकाशिनी ।
तया नस्तन्वाशन्तमया गिरिशन्ताऽभिचाकशीहि ।
यामिषुङ्गिरिशन्त! हस्ते बिभर्ष्यऽस्तवे ।
शिवां गिरित्र ताङ्कुरु माहिंसीः पुरुषं जगत् ।
शिवेन वचसा त्वा गिरिशाच्छा वदामसि ।
यथा नः सर्वमिज्जगदऽयक्ष्मं सुमना असत् ।
अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक् ।
अहींश्च सर्वाञ्जम्भय सर्वांश्च यातुधान्योऽधराचीः परात्सुवः ।
असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः ।
ये चेमे रुद्रा अभितो दिक्षु श्रिताः सहस्रशो वैषां हेड ईमहे ।
असौ योऽवसर्पति नीलग्रीवो विलोहितः ।
उतैनं गोपा अदृश्यन्नुतैनमुदहार्यः ।
उतैनं विश्वा भूतानि स दृष्टो मृडयाति नः ।
नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे ।
अथो य अस्य सत्त्वानोऽहन्तेभ्योऽकरं नमः ।
प्रमुञ्च धन्वनस्तमुभयोरर्त्त्योर्ज्याम् ।
याश्च ते हस्त इषवः परस्ता भगवो वप ।
विज्यं धनुः कपर्दिनो विशल्यो बाणवानुत ॥ १॥
अनेशन्नस्येषव आभूरस्य निषङ्गथिः ।
या ते हेतिर्मीढुष्टम हस्ते बभूव ते धनुः ।
तयाऽस्मान्विश्वतस्त्वमयक्ष्मेण परिभुज ।
परि ते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः ।
अथो य इषुधिस्तवारे अस्मन्निधीहि तम् ।
नमांसि त आयुधायाऽनातताय धृष्णवे ।
उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने ।
अवतत्य धनुष्ट्वं सहस्राक्ष शतेषुधे ।
निशीर्य शल्यानां मुखं शिवो नः सुमना भव ।
या त इषुः शिवतमा शिवं बभूव ते धनुः ।
शिवा शरव्या या तव तया नो मृड जीवसे ॥ २॥
ॐ नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो,
नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो,
नमः शिष्पिञ्जराय त्विषीमते पथीनाम्पतये नमो,
नमो बभ्लुषाय व्याधिनेऽन्नानाम्पतये नमो,
नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो,
नमो भवस्य हेत्यै जगतस्पतये नमो,
नमो रुद्रायाऽततायिने क्षेत्राणाम्पतये नमो,
नमः सूतायाऽहन्त्याय वनानां पतये नमो,
नमो रोहिताय स्थपतये वृक्षाणां पतये नमो,
नमो मन्त्रिणे वाणिज्याय कक्ष्याणां पतये नमो,
नमो भुवन्तये वारिवस्कृतायौषधीनां पतये नमः ॥
नम आक्रन्दाय त उच्चैर्घोषाय सत्त्वानां पतये नमो,
नमः कृत्संवीताय धावते पत्तीनां पतये नमो,
नमः सहमानाय निव्याधिन आव्याधिनीनां पतये नमो,
नमो निषङ्गिणे ककुभाय स्तेनानां पतये नमो,
नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो,
नमो निचराय परिचरायाऽरण्यानां पतये नमो,
नमो निषङ्गिण इषुधिमते तस्कराणां पतये नमो,
नमः सृकायिभ्यो जिघांसद्भ्यो मुष्णतां पतये नमो,
नमोऽसिमद्भ्यो नक्तञ्चरद्भ्यः प्रकृन्तानां पतये नमो,
नम उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो ॥
नम इषुकृद्भ्यो धन्वकृद्भ्यश्चवो नमो,
नम इषुमद्भ्यो धन्वायिद्भ्यश्च वो नमो,
नम आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो,
नम आयच्छद्भ्योऽस्यद्भ्यश्च वो नमो,
नमो विसृजद्भ्यो विध्यद्भ्यश्च वो नमो,
नमः स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो,
नमः शयानेभ्य आसीनेभ्यश्च वो नमो,
नमस्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो,
नमः सभाभ्यः सभापतिभ्यश्च वो नमो,
नमोऽश्वेभ्योऽश्वपतिभ्यश्च वो नमो,
नम आव्याधिनीभ्यो विविध्यद्भ्यश्च वो नमो,
नम उगणाभ्यस्तृंहतीभ्यश्च वो नमो,
नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो,
नमो गणेभ्यो गणपतिभ्यश्च वो नमो,
नमः कृच्छ्रेभ्यः कृच्छ्रपतिभ्यश्च वो नभो,
नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो,
नमः सेनाभ्यः सेनानीभ्यश्च वो नमो,
नमो रथेभ्यो वरूथिभ्यश्च वो नमो,
नमो महद्भ्योऽर्भकेभ्यश्च नमो,
नमो युवभ्य आशिनेभ्यश्च वो नमो,
नमः क्षतृद्भ्यः सङ्गृहीतृभ्यश्च वो नमो,
नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो,
नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो,
नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो,
नमः श्वनिभ्यो मृगयुभ्यश्च वो नमो,
नमः श्वभ्यः श्वपतिभ्यश्च वो नमः ॥
नमो भवाय च रुद्राय च,
नमः शर्वाय च पशुपतये च,
नमो नीलग्रीवाय च शितिकण्ठाय च,
नमो व्युप्तकेशाय च कपर्दिने च,
नमः सहस्राक्षाय च शतधन्वने च ॥
नमो गिरिशाय च शिपिविष्टाय च,
नमो मीढुष्टमाय चेषुमते च,
नमो ह्रस्वाय च वामनाय च,
नमो बृहते च वर्षीयसे च,
नमो वृद्धाय च संवृध्वने च,
नमोऽग्र्याय च प्रथमाय च,
नम आशवे चाऽजिराय च,
नमः शीभ्याय च शीघ्र्याय च,
नम ऊर्म्याय चाऽवस्वन्याय च,
नमो नाद्याय च द्वीप्याय च ॥
नमो ज्येष्ठाय च कनिष्ठाय च,
नमः पूर्वजाय चापरजाय च,
नमो मध्यमाय चाऽप्रगल्भाय च,
नमो बुघ्न्याय च जघन्याय च,
नमः सोभ्याय च प्रतिसर्याय च,
नम आशुषेणाय चाशुरथाय च ॥
नमो बिल्मिने च कवचिने च,
नमो वर्मिणे च वरूथिने च,
नमः शूराय चावभेदिने च,
नमः श्रुताय च श्रुतसेनाय च,
नमो याम्याय च क्षेम्याय च,
नम उर्वर्याय च खल्याय च,
नमः श्लोक्याय चावसान्याय च,
नमः श्रवाय च प्रतिश्रवाय च,
नमो वन्याय च कक्ष्याय च,
नमो दुन्दुभ्याय चाऽहनन्याय च,
नमो धृष्णवे च प्रमृशाय च,
नमो निषङ्गिणे चेषुधिमते च,
नमस्तीक्ष्णेषवे चायुधिने च,
नमः सायुधायच सुधन्वनेच ॥
नमः सृत्याय च पथ्याय च,
नमः काट्याय च नीप्याय च,
नमो नाद्याय च वैशन्ताय च,
नमः कुल्याय च सरस्याय च,
नमः कूट्याय चावट्याय च,
नमो वर्ष्याय चाऽवर्ष्याय च,
नमो मेध्याय च विद्युत्याय च,
नमो वीघ्र्याय चातप्याय च,
नमो वात्याय च रेष्म्याय च,
नमो वास्तव्याय च वास्तुपाय च ॥
नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च,
नमः शङ्गवे च पशुपतये च,
नम उग्राय च भीमाय च,
नमो हन्त्रे च हनीयसे च,
नमोऽग्रेवधाय च दूरेवधाय च,
नमो वृक्षेभ्यो हरिकेशेभ्यो, नमस्ताराय,
नमः शम्भवे च मयोभवे च, नमः शङ्कराय च, मयस्कराय च ॥
नमः शिवाय च शिवतराय च, नमः किंशल्याय च क्षयणाय च ॥
नम इरिण्याय च प्रपथ्याय च, नमः पुलस्तिने च कपर्दिने च,
नमो गोष्ठ्याय च गृह्याय च, नमस्तल्प्याय च गेह्याय च, नमः
पर्यायचावर्याय च, नमः प्रतरणाय चोत्तरणाय च, नमस्तीर्थ्याय
च कुल्याय च, नमः फेन्याय च शष्प्याय च, नमः सिकत्याय च
प्रवाह्याय च , नमो हृदय्याय च निवेष्प्याय च, नमः काट्याय च
गह्वरेष्ठ्याय च, नमः शुष्क्याय च हरित्याय च, नमो लोप्याय
चोलप्याय च, नमः पांसव्याय च रजस्याय च नमः सूर्म्याय चोर्म्याय
च, नमः पर्ण्याय च पर्णशादाय च, नम आखिदते च प्रखिदते च,
नमोऽभिघ्नते चापगुरमाणाय च, नम आखिदाय च विखिदाय च नमो
वः किरिकेभ्यो देवानां हृदयेभ्यो, नमो विचिनुत्केभ्यो, नमो विक्षीणकेभ्यो
नम आनिर्हतेभ्यः ॥
द्रापे अन्धसस्पते दरिद्र नीललोहित, आसां प्रजानामेषां पुरुषाणामेषां
पशूनां माभैर्मा रुङ्मा नः किञ्चनाऽममत् । इमा रुद्राय तवसे
कपर्दिने क्षयद्वीराय प्रभरामहे मतीः । यथा नः शमऽसद्द्विपदे
चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम् । या ते रुद्र शिवा तनूः
शिवा विश्वाह भेषजीः, शिवारुद्रस्य भेषजी तया नो मृड जीवसे ।
परि णो रुद्रस्य हेतिर्वृणक्तु परित्वेषस्य दुर्मतेरघायोः, अवस्थिरा
मघवद्भ्यस्तनुषु मीढुस्तोकाय तनयाय मृड । मीढुष्टम शिवतम शिवो
नः सुमना भव, परमे वृक्ष आयुधन्निधाय कृत्तिं वसान आचर
पिनाकम् । बिभ्रदुच्चर विकिरिल विलोहित नमस्ते अस्तु भगवः, यास्ते
सहस्रं हेतयोऽन्येऽस्मिन्निव पान्तु ताः ॥
सहस्रधा सहस्राणि हेतयस्तव बाह्वोः ।
तासामीशानो भगवः पराचीना मुखाकुरु ॥
असङ्ख्याताः सहस्राणि ये रुद्रा अधिभूम्याम् ।
तेषां सहस्रयोजनेऽव धन्वानि तन्मसि ॥ १॥
येऽस्मिन्महत्यऽर्णवेऽन्ततरिक्षे भवा अधि ।
तेषां सहस्रयोजनेऽव धन्वानि तन्मसि ॥ २॥
ये नीलग्रीवाः शितिकण्ठा दिवं रुद्रा उपाश्रिताः ।
तेषां सहस्रयोजनेऽव धन्वानि तन्मसि ॥ ३॥
ये नीलग्रीवाः शितिकण्ठाः शर्वा अधःक्षमाचराः ।
तेषां सहस्रयोजनेऽव धन्वानि तन्मसि ॥ ४॥
ये वनेषु शिष्पिञ्जरा नीलग्रीवा विलोहिताः ।
तेषां सहस्रयोजनेऽव धन्वानि तन्मसि ॥ ५॥
येऽन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् ।
तेषां सहस्रयोजनेऽव धन्वानि तन्मसि ॥ ६॥
ये भूतानामधिपतयो विशिखासः कपर्दिनः ।
तेषां सहस्रयोजनेऽव धन्वानि तन्मसि ॥ ७॥
ये पथीनां पथि रक्षय ऐड मृदाय व्युधः ।
तेषां सहस्रयोजनेऽव धन्वानि तन्मसि ॥ ८॥
ये तीर्थानि प्रचरन्ति सृकावन्तो निषङ्गिणः ।
तेषां सहस्रयोजनेऽव धन्वानि तन्मसि ॥ ९॥
य एतावन्तो वा भूयांसो वा दिशो रुद्रा वितिष्ठिरे ।
तेषां सहस्रयोजनेऽव धन्वानि तन्मसि ॥ १०॥
ॐ नमो अस्तु रुद्रेभ्यो ये दिवि, येषां वर्षमिपवस्तेभ्यो दश
प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो नमो
अस्तु, ते नो मृडयन्तु, ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां
जम्भे दध्मः ॥ १॥
ॐ नमो अस्तु रुद्रेभ्यो ये अन्तरिक्षे, येषां वातमिषवस्तेभ्यो दश
प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो नमो
अस्तु, ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे
दध्मः ॥ २॥
ॐ नमो अस्तु रुद्रेभ्यो ये पृथिव्यां येषामऽन्नमिषवस्तेभ्यो, दश
प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो नमो
अस्तु ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे
दध्मः ॥ ३॥
इति रुद्रमन्त्रसूक्तं प्रथमम् ।
शताध्यायमन्त्रसूक्तं द्वितीयम्
ॐ देवं तामरसाननं शशिकलालङ्कारमङ्कारमच्छ-
ङ्खाम्भोजलसद्वराभयमहालक्ष्मीसमुद्भासितम् ।
सव्यासव्यकदोर्वराभयसुधाकुम्भेन्दुमिन्द्रल्लसत्-
सौम्यास्यं च चतुर्भुजं च भगवन्नेत्रं त्रिनेत्रं स्तुमः ॥ १॥
चन्द्रार्काग्निविलोचनं स्मितमुखं पद्मद्वयान्तःस्थितं
मुद्रापाशसुधाक्षसूत्रविलसत्पाणिं हिमांशुप्रभम् ।
कोटीरेन्दुगलत्सुधाप्लुततनुं हारादिभूषोज्ज्वलं
कान्त्या विश्वविमोहनं पशुपतिं मृत्युञ्जयं भावये ॥ २॥
``इमा रुद्रैकादश वासिष्ठैकादश देवता भूर्भुवः ।
स्वश्चक्षुषा रूपाणि वयमित्याङ्गिरसस्यैशानाः'' ॥
ॐ इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतीः ।
यथा नः शमसद्द्विपदे चतुष्पदे विश्वं
पुष्टं ग्रामे अस्मिन्ननातुरम् ॥ १॥
मृडा नो रुद्रो तनो मयस्कृधि क्षयद्वीराय नमसा विधेम ते ।
यच्छञ्चयोश्च मनुरायेजे पिता तदश्याम तव रुद्र प्रणीतिषु ॥ २॥
अश्याम ते सुमतिं देवयज्यया क्षयद्वीरस्य तव रुद्र मीढ्वः ।
सुम्नायन्निद्विषो अस्माकमाऽचरारिष्टिवीरा जुहुवाम ते हविः ॥ ३॥
त्वेषं वयं रुद्रं यज्ञं साधनमऽङ्कङ्कविमवसे निह्वयामहे ।
आरे अस्मद्दैव्यं हेडो अस्यतु सुमतिमिद्वयमऽस्या वृणीमहे ॥ ४॥
दिवो वराहमरुषं कपर्दिनं त्वेषं रूपं नमसा निह्वयामहे ।
हस्ते विभ्रद्भेषजा वार्याणि शर्म वर्मच्छुर्दिरस्मभ्यं वियंसत् ॥ ५॥
इदं पित्रे मरुतामुच्यते वचः स्वादोः स्वादीयो रुद्राय वर्धनम् ।
रास्वाच नो अमृतमर्त्यभोजनं त्मने तोकाय तनयाय मृड ॥ ६॥
मृल त्वमस्मभ्यं रुद्रैतदऽस्तु हुतं तव ।
पशुनस्माकं माहिंसीरेतदऽस्मा असद्धुतम् ॥ ७॥
मानो महान्तमुत मानो अर्भकं मान उक्षन्तमुत मान उक्षितम् ।
मानो वधीः पितरं मोत मातरं मानः प्रियास्तन्वो रुद्र रीरिषः ॥ ८॥
मा नस्तोके तनये मा न आयौ मानो गोषु मा न अश्वेषु रीरिषः ।
वीरान्मानो रुद्र भामितो वधीर्हविष्मन्तो नमसा विधेम ते ॥ ९॥
उप ते स्तोमन्पशुपा इवाकरं रास्वा पितर्मरुतां सुम्नमस्मे ।
भद्रा हि ते सुमतिमृडयत्तमाथा वयमव इत्ते वृणीमहे ॥ १०॥
आरे ते गोघ्नमुत पुरुषघ्नं क्षयद्वीर सुम्नमस्मे ते अस्तु ।
मृडा चनो अधि च ब्रूहि देवाधा च नः शर्म यम्मेछ द्विबर्हाः ॥ ११॥
अवोचाम नमो अस्मा अवस्यवः शृण्वन्तु नो हव्यं रुद्रो मरुत्वान् ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवीरुत द्यौः ॥ १२॥
त्वमग्ने रुद्रो असुरो महो दिवस्त्वं शर्धो मरुतं प्रख्या यशसे ।
त्वं वातैरारुणैर्यस्ते शङ्गयस्त्वं पूषा विदत्ता पासि नुत्मना ॥
देवा देवेषु श्रयन्तां, प्रथमा द्वितीयेषु श्रयन्तां,
द्वितीयास्तृतीयेषु श्रयन्तां, तृतीयाश्चतुर्थेषु श्रयन्तां,
चतुर्थाः पञ्चमेषु श्रयन्तां, पञ्चमाः षष्ठेषु श्रयन्तां ,
पष्ठाः सप्तमेषु श्रयन्तां, सप्तमा अष्टमेषु श्रयन्तां, अष्टमा
नवमेषु श्रयन्तां, नवमा दशमेषु श्रयन्तां, दशमा एकादशेषु
श्रयन्तां, देवास्त्रिरेकादशास्त्रयस्त्रिंशाः, उत्तरे भवथोत्तरे
सत्त्वानो उत्तरवर्त्मान उत्तरलक्ष्माणो यङ्कामयेदं जुहोमि स मे कामः
समृद्ध्यतां वयं स्याम पतयो रयीणाम् ॥
ॐ भूर्भुवः स्वः क्षुच्च शुक्चोष्णा चोग्रा च भीमा च राष्ट्रा च
बीभत्सा च वैशन्ता च शार्दूराका चानिराका चामीवाचा नाहुतिश्च
निरृतिरेतास्ते अग्निवर्तिमतिस्तन्वस्ताभिस्तं गच्छ योऽस्मान्द्वेष्टि
यञ्च वयं द्विष्मस्तमर्पय ॥
भवा शर्वा मृडतमा वियातं पशुपती भूतपती नमो वाम् ।
प्रतिहितामयतामाविसृष्टं मानो हिंसिष्टं द्विपदो मा चतुष्पदः ।
शुने क्रोष्ट्रे मा शरीराणि कर्तमारिक्रवेभ्यो गृद्धेभ्यो ये च कृष्णा
अवस्यवः । मक्षिकाः पशुपते वयांसि विघसे मा विदन्ते । क्रन्दाय ते
प्राणाय ते याश्च ते भव हेतयः । नमस्ते उग्रकर्म सहस्राक्ष मर्त्य
पुरस्तात्ते नमः । कूर्मोधरागुत्तरादनु, अमी वर्गाद्दिवस्पर्यन्तरिक्षाय
ते नमः, मुखानि ते पशुपते यानि चक्षूंषि ते नमः, त्वचे रूपाय
सन्दृशे प्रतीचीनाय ते नमः, अङ्गेभ्यस्त उदराय जिह्वायै दद्भ्यो
गन्धाय घ्राणाय ते नमः । अहोरात्राणि विदधत्प्रतीचीनाय ते नमः ।
अस्त्रानीलकपर्दिने सहस्राक्षेण वाजिना, शर्वेणाऽध्वगगातिना तेन मा
समरामसि । भवा ईश द्विपदो भव ईश चतुष्पदः, भवो विश्वस्य
भुवनस्य राजति भवाय गाव ओषधीरजीगुर्भवाय द्यावापृथिवी नमेते ।
मानो रुद्रा परि णो वृणोक्तु हेत्याप इवाग्निः परिणो वृणक्तु, मानोभिमांस्त
नमो अस्त्वस्मे, चतुर्नमोष्टकृत्वो भवाय दशकृत्वा पशुपते नमस्ते ।
योऽभियातो निलयते त्वं रुद्र निचकीर्षति, यो नः पश्चादति प्रयुङ्क्ते
तं विद्ध्यस्व पदवीरिव । नमः सायं नमः प्रातर्नमो रात्र्या नमो दिवः,
भवाय च शर्वाय चोभाभ्यामकरं नमः ॥
``अथ वायोरेकादश पुरुषस्यैकादशस्त्रीकस्य'' ॥
प्रभ्राजमानानां रुद्राणां स्थाने स्वतेजसा भानि । १।
व्यवजातानां रुद्राणां स्थाने स्वतेजसा भानि । २।
वासुकिवैद्युतानां रुद्राणां स्थाने स्वतेजसा भानि । ३।
रजतानां रुद्राणां स्थाने स्वतेजसा भानि । ४।
पुरुषाणां रुद्राणां स्थाने स्वतेजसा भानि । ५।
श्यामानां रुद्राणां स्थाने स्वतेजसा भानि । ६।
कपिलानां रुद्राणां स्थाने स्वतेजसा भानि । ७।
अतिलोहितानां रुद्राणां स्थाने स्वतेजसा भानि । ८।
ऊर्ध्वानां रुद्राणां स्थाने स्वतेजसा भानि । ९।
अवपतन्तानां रुद्राणां स्थाने स्वतेजसा भानि । १०।
वैद्युताना रुद्राणां स्थाने स्वतेजसा भानि । ११।
ॐ भूर्भुवःस्वःरूपाणि वो मिथुनं मा वो मिथुनं रीढ्वम्'' ॥
ॐ प्रभ्राजमानानां रुद्राणीनां स्थाने स्वतेजसा भानि । १।
व्यवजातानां रुद्राणीनां स्थाने स्वतेजसा भानि । २।
वासुकिवैद्युतीनां रुद्राणीनां स्थाने स्वतेजसा भानि । ३।
रजतानां रुद्राणीनां स्थाने स्वतेजसा भानि । ४।
पुरुषाणां रुद्राणीनां स्थाने स्वतेजसा भानि । ५।
श्यामानां रुद्राणीनां स्थाने स्वतेजसा भानि । ६।
कपिलानां रुद्राणीनां स्थाने स्वतेजसा भानि । ७।
अतिलोहितानां रुद्राणीनां स्थाने स्वतेजसा भानि । ८।
ऊर्ध्वानां रुद्राणीनां स्थाने स्वतेजसा भानि । ९।
अवपतन्तीनां रुद्राणीनां स्थाने स्वतेजसा भानि । १०।
वैद्युतीनां रुद्राणीनां स्थाने स्वतेजसा भानि । ११।
``ॐ भूर्भुवःस्वः स्त्रियो वो मिथुनं मा वो मिथुनं रीढ्वम्'' ॥
वयमग्ने धनवन्तःस्यामालं यज्ञायोत दक्षिणायै ग्रावा वदेदभि
सोमस्यांशुमिन्द्रं सिक्षिमिन्दुना सुतेन ॥ १३॥
रायस्पोषं नो देहि जातवेद ऊर्जो भागं मधुमत्स्यां धृतावत् ।
दधान यज्ञं सुनवाम सोमं यज्ञेन त्वामुप शिक्षेम शक्त ॥ १४॥
ईशानन्त्वा शुश्रुमा वयं धनानां धनपते गोमदऽग्ने ।
अश्ववद्भूरि पुष्टं हिरण्यवद्धनवद्धेहि मह्यम् ॥ १५॥
दुहान्ते द्यौः पृथिवी पयोऽजगरस्त्वा सोदको विसर्पतु ।
प्रजापतिनाऽत्मानमाप्रीणेऽरिक्तो म आत्मा ॥ १६॥
``तेजोऽसि'' ।
यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो वनस्पतिषु ।
यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु देवाः ।
मध्यं पीत्वा गुरुदारांश्च०॥
इति शताध्यायमन्त्रसूक्तं द्वितीयम् ।
चमषट्कमन्त्रसूक्तं तृतीयम्
ॐ गात्रं भस्मसितं सितं च हसितं हस्ते कपालं सितं
खट्वाङ्गं च सितं सितं च वृषभं कर्णे सिते कुण्डले ।
गङ्गाफेनसितो जटाजलसितश्चन्द्रः सितो मूर्धनि
सोऽयं सर्वसितो दधातु विभवं पापक्षयं शङ्करः ॥
``आशुः शिशान इति शुक्रज्योतिष्मानंशुः प्रजननं सर्वाः प्रजाः
कश्यपस्य वाजस्य प्रसवोऽग्नेः'' ॥
ॐ आशुः शिशानो वृषभो न युध्मो घनाघनः क्षोभणश्चर्षणीनाम् ।
सङ्क्रन्दनोऽनिमिष एकवीरः शतं सेना अजयत्साकमिन्द्रः ॥
सङ्क्रन्दनेनाऽनिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना ।
तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा ।
स इषुहस्तैः स निषिङ्गिभिर्वशी संसृष्टा सयुध इन्द्रो गणेन ।
संसृष्टजित्सोमपा बाहूशर्ध्यूर्ध्वधन्वा प्रतिहिताभिरस्ता ॥
बृहस्पते परिदीया रथेन रक्षोहा मित्राँ अपबाधमानः ।
प्रभञ्जन्सेनाः प्रमृधो युधा जयन्नऽस्माकमेध्यविता रथानाम् ॥
बलविज्ञायः स्थविरः प्रवीरः सहस्वान्वाजी सहमान उग्रः ।
अभिवीरो अभिषत्वा सहोजिज्जैत्रायनो रथमाऽतिष्ठ गोवित् ॥
गोत्रभिदङ्गोविदं वज्रबाहुं जयन्तमऽज्मा प्रमृणन्तमोजसा ।
इमं स जाता अनुवीरयध्वमिन्द्रसखायमऽनुसंव्ययध्वम् ॥
अभिगोत्राणि सहसा गाहमानोऽदयो वीरः शतमन्युरिन्द्रः ।
दुश्च्यवनः पृतनाषाडऽयुध्योऽस्माकं सेना अवन्तु प्रयत्सु ॥
इन्द्र एषां नेता बृहस्पतिर्दक्षिणो यज्ञः पुर एतु सोमः ।
देवसेनानामभिभञ्जतीनां जयन्तीनां मारुतो यन्तु मध्ये ॥
इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुतां शर्ध उग्रम् ।
महामनसां भुवनस्य वानां घोषो देवानां जयतामुदस्थात् ॥
अस्माकमिन्द्रः समृतेषु ध्वजेष्वऽस्माकं या इषवस्ता जयन्तु ।
अस्माकं वीरा उत्तरे भवन्त्वऽस्मान्नु देवा अवता भरेष्वा ॥
``होम पर खडा होके यह आहुति देना'' ॥
ॐ शुक्रज्योतिश्च चित्रज्योतिश्च सत्यज्योतिश्च
ज्योतिष्मांश्च सत्यश्चर्तपाश्चात्यँहा ईदृङ् चान्यादृङ्च सदृङच
प्रतिसदृङच मितश्च सम्मितश्च सभारा ऋतश्च सत्यश्च
ध्रुवश्च धरणश्च धर्ता च विधर्ता च विधारय ऋतजिच्च
सत्यजिच्च सेनाजिच्च सुषेणश्चान्तिमित्रश्च दूरे अमित्रश्च गण
ईदृशास एतादृक्षास ऊषुणः सदृक्षासः प्रतिसदृक्षास एतानमितासश्च
सम्मितासो नो अद्य सभारसो मरुतो यज्ञे अस्मिन्निन्द्रं दैवीर्विशो मरुतोऽनु
वर्त्मानो यथेन्द्रन्दैवीर्विशो मरुतोऽनु वर्त्मानोऽभवन्नेवमिमं यजमानं
दैवीश्च विशो मानुषीश्चानु वर्त्मानो भवन्तु ॥
वाजश्चमे प्रसवश्चमे प्रयतिश्चमे प्रसृतिश्चमे धीतिश्चमे
क्रतुश्चमे स्वरश्च मे श्लोकश्चमे श्रावश्चमे श्रुतिश्च मे
ज्योतिश्चमे स्वश्चमे प्राणश्चमे व्यानश्चमे अपानश्चमे असुश्चमे
चित्तं चम आधीतञ्चमे वाक्चमे मनश्चमे चक्षुश्चमे श्रोत्रं चमे
दक्षश्चमे बलञ्चम ओजश्चमे सहश्चम आत्माचमे तनूश्चमे शर्म
चमे वर्म चमे अङ्गानि चमे अस्थीनि चमे परुंषि चमे शरीराणिचम
आयुश्चमे जराचमे ॥
ॐ ज्यैष्ठ्यञ्चम आधिपत्यं चमे, मन्युश्चमे भामश्चमे अमश्चमे
अम्भश्चमे जेमाचमे महिमाचमे वरिमाचमे, प्रथिमाचमे, वर्ष्मा
चमे, द्राध्वाचमे, वृद्धञ्चमे, वृद्धिश्चमे, सत्यञ्चमे,
श्रद्धाचमे, जगच्चमे, धनञ्चमे, क्रीडाचमे, मोदश्चमे,
वशश्चमे, त्विपिश्चमे, सूक्तञ्चमे, सुकृतञ्चमे, जातञ्चमे,
जनिष्यमाणं चमे, वित्तञ्चमे, वेद्यञ्चमे, भूतञ्चमे, भविष्यं
चमे, सुगञ्चमे, सुपथं चमे, ऋद्धञ्चम, ऋद्धिश्चमे,
कॢप्तं चमे कॢप्तिश्चमे, मतिश्चमे सुमतिश्चमे ॥
ॐ शञ्चमे, मयश्चमे, प्रियश्चमे, अनुकामश्चमे, कामश्चमे,
सौमनसश्चमे, भगश्चमे, द्रविणं चमे, भद्रञ्चमे,
श्रेयश्चमे, वश्यश्चमे, यशश्चमे, यन्ताचमे, धर्ताचमे,
क्षेमचमे, धृतिश्चमे, संविच्चमे, ज्ञात्रञ्चमे, विश्वञ्चमे,
महश्चमे, सूश्चमे, प्रसूश्चमे, सीरञ्चमे, लयश्चम,
ऋतञ्चमे, अमृतञ्चमे, अयक्ष्मचमे, अनामयञ्चमे,
जीवातुश्चमे, दीर्घायुष्त्वञ्चमे, अनमित्रं च मे, अभयञ्चमे,
सुगञ्चमे, शयनञ्चमे, सूषाचमे, सुदिनं चमे ॥
उर्क्चमे, सूनृताचमे, पयश्चभे, रसश्चमे, घृतं च मे,
मधुचमे, सग्धिश्चमे, सपीतिश्चमे, कृपिश्चमे, वृष्टिश्चमे,
जैत्रञ्चम, औद्भिदचमे, रयिश्चमे, रायश्चमे, पुष्टञ्चमे,
पुष्टिश्चमे, विभुश्चमे, प्रभुश्चमे, पूर्णञ्चमे, पूर्णतरञ्चमे,
कुयवञ्चमे, क्षितिश्चमे, अन्नचम इक्षुश्चमे, व्रीहयश्चमे,
यवाश्चमे, माषाश्चमे, तिलाश्चमे, नीवाराश्चमे, श्यामकाश्चमे,
अणवश्चमे, प्रियङ्गवश्चमे, गोधूमाश्चमे, मसूराश्चमे,
मुद्गाश्चमे, खल्वाश्चमे ॥
अश्मा च मे, मृत्तिका च मे, गिरयश्चमे, पर्वताश्चमे,
सिकताश्चमे, वनस्पतयश्चमे, हिरण्यञ्चमे, अयश्चमे,
सीसञ्चमे, त्रपुश्चमे, श्यामञ्चमे, लोहितायसञ्चमे, अग्निश्चम,
आपश्चमे, वीरुधश्चम, ओषधयश्चमे, कृष्टपच्यञ्चमे,
अकृष्टपच्यञ्चमे, ग्राम्याश्चमे, पशव आरण्याश्चमे,
वित्तञ्चमे, वित्तिश्चमे भूतञ्चमे, भूतिश्चमे, वसुचमे,
वसतिश्चमे, कर्मचमे, शक्तिश्चमे, अर्थश्चम,
एमश्चम, इत्याचमे, गतिश्चभे ॥
अग्निश्चम इन्द्रश्चमे, सोमश्चम इन्द्रश्चमे, सविताचम
इन्द्रश्चमे, सरस्वती चम इन्द्रश्चमे, पुषा चम इन्द्रश्चमे,
बृहस्पतिश्चम इन्द्रश्चमे, मित्रश्चम इन्द्रश्चमे, वरुणश्चम
इन्द्रश्चमे, धाताचम इन्द्रश्चमे, त्वष्टा चम इन्द्रश्चमे,
मरुतश्चम इन्द्रश्चमे, विश्वेदावाश्चम इन्द्रश्चमे पृथिवीश्चम
इन्द्रश्चमे, अन्तरिक्षं चम इन्द्रश्चमे, द्यौश्चम इन्द्रश्चमे,
समाश्चम इन्द्रश्चमे, नक्षत्राणि चम इन्द्रश्चमे, दिशश्चम
इन्द्रश्चमे ॥
अंशुश्चमे, रश्मिश्चमे, दाभ्यश्चमे, अधिपतिश्चम,
उपांशुश्चमे, अन्तर्यामश्चम, ऐन्द्रवायवश्चमे,
मैत्रावरुणश्चम, आश्विनश्चमे, प्रतिप्रस्थानश्चमे शुक्रश्चमे,
मन्थीचम, आग्रायणश्चमे, क्षुल्लकवैश्वदेवश्चमे, ध्रुवश्चमे,
वैश्वानरश्चम, ऐन्द्राग्नश्चमे, वैश्वदेवश्चमे,
मरुत्वतीयश्चमे, महेन्द्रीयश्चमे, सावित्रश्चमे,
सारस्वतश्चमे, पत्नीवतश्चमे, हारियोजनश्चमे ॥
इध्मा च मे, स्रुचश्चमे, चमसश्चमे,वायच्यानि च मे,
द्रोणकलशश्चमे, पूतभृच्चम, अपूतभृच्चमे ग्रावाणश्चमे,
अधिषवणश्चमे, अवभृथश्चमे, स्वगाकारश्चमे ॥
अग्निश्चमे, घर्मश्चमे, अर्कश्चमे, सूर्यश्चमे, प्राणश्चमे,
अस्वमेघश्चमे, पृथिवीचमे, दितिश्चमे, अदितिश्चमे, द्यौश्चमे,
शक्वरीरङ्गुलयो, दिशश्चमे, यज्ञेन कल्पतां, व्रतं चर्तुश्च
संवत्सरश्च, तपश्चाहोरात्र, ऊर्वष्ठीवे बृहद्रथन्तरश्चमे,
यज्ञेन कल्पताम् ॥ गर्भाचमे, वत्साचमे, त्रयविच्चमे, त्रयवी
चमे, दित्यवाट् चमे, दित्यौहीचमे, पञ्चाविच्चमे, पञ्चावीचमे,
त्रिवत्साश्चमे, त्रिवत्सश्चमे, तुर्यावाट्चमे, तुर्यौहीचमे,
पष्ठवाट्चमे, पष्ठौहीचमे, उक्षाचमे, वशाचमे, अनड्वांश्चमे,
धेनुश्चमे, ऋषभश्चमे, वेहच्चमे ॥
एकाचमे, तिस्रश्चमे, तिसॄश्चमे, त्रयस्त्रिंशच्चमे,
चतस्रश्चमे, अष्टौचमे, अष्टचमे, अष्टाचत्वारिंशच्चमे,
वाजश्च, प्रसवश्चाऽपिजश्च क्रतुश्च वाक्पतिश्च वसुश्च
स्वर्मौर्धो मूर्ध्वा वैयशनो व्यश्वाँन आन्त्योऽन्त्यो भौवनो भुवनस्य
पतिः प्रजापतिरधिपतिरियन्ते राण्मित्रो यन्तासि यमन ऊर्जेत्वा वृष्ट्यै त्वा
प्रजानां त्वाऽधिपत्याय, आयुर्यज्ञेन कल्पतां, मनो यज्ञेन कल्पतां,
प्राणो यज्ञेन कल्पतां, चक्षुर्यज्ञेन कल्पतां, श्रोत्रं यज्ञेन
कल्पतां, वाग्यज्ञेन कल्पतामाऽऽत्मा यज्ञेन कल्पतां ब्रह्मा यज्ञेन
कल्पतां, पृष्ठं यज्ञेन कल्पतां, यज्ञो यज्ञेन कल्पताम् ॥
ऋक्च सामश्च स्तोमश्च यजुश्च बृहद्रथन्तरश्च स्वर्देवा अगन्म
प्रजापतेः प्रजा अभूवन्नऽमृता अभूम वेट्स्वाहा ॥
``वाजस्य नु प्रसवा इति षट्'' ॥
ॐ विश्वे अद्य मरुतो विश्व ऊतीर्विश्वे भवन्त्वऽग्नयः समिद्धाः ।
विश्वे मादेवा अवसा गमन्निह विश्वमस्तु द्रविणं वाजे अस्मिन् ।
आ (१) मा वाजस्य वाजस्यनु (२) वाजो मा सप्त प्रदिशश्चतस्रो वा परावतः ।
(१ आधुनिकैः कतिभिरन्विष्टः पाठोयम् - आ मा वाजस्य प्रसवो
जगम्यादाऽमा द्यावापृथिवी विश्वरूपे । आ मा गन्तां पितरा मातरा चा
मा सोमो अमृतत्वेन गम्यात् ॥ २ ॥ वाजस्य नु प्रसवे मातरं महीमदितिं
नाम वचसा करामहे । यस्यामिदं विश्वं भुवनमाविवेश तस्यां नो देवः
सविता धर्मसाविषत्.)
वाजो मा विश्वैर्देवैर्धनसाता इहावतु, वाजो मे अद्य प्रसुवातिदानं
वाजो देवान्हविषा वर्धयाति, वाजस्य हि
प्रसवेनान्नमिति विश्वा आशा वाजपतिर्जयेयम्,
वाजः पुरस्तादुत मध्यतो नो वाजो देवानृतुभिः कल्पयाति, वाजस्य हि
प्रसवेनान्नमेति सर्वा आशा वाजपतिर्भवेयम् ॥
सं मा सृजामि पयसः पृथिव्याः सं मा सृजाम्यद्भिरौषधीभिः
सोऽहं वाजस्य नौम्यग्नेः ॥ ``तेजोऽसि'' ॥
पयः पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे पयोधाः ।
पयस्वतीः प्रदिशः सन्तु मह्यम् ॥ तर्पणम् ॥
मद्यं पीत्वा गुरुदारांश्च गत्वा स्तेयं कृत्वा ब्रह्महत्यां विधाय ।
भस्मच्छन्नो भस्मशय्यां शयानो रुद्राध्यायी मुच्यते सर्वपापैः ॥
नित्यं दण्डी नित्ययज्ञोपवीती नित्यं ध्यात्वा भस्मना कर्मबन्धी ।
रुद्रं दृष्ट्वा देवमीशानमुग्रं याति स्थानं तेन साकं तदीयम् ॥
अनेन मन्त्रपाठेनात्मनो वाङ्मनःकायोपार्जितपापनिवारणार्थममुक-
कामनासिद्ध्यर्थं, भगवान्, भवो देवः ८ शतरुद्रेश्वरः,
मृत्युञ्जयभट्टारकः पार्वतीसहितः परमेश्वरः प्रीयतां प्रीतोऽस्तु ॥
इति चमपटकमन्त्रसूक्तं तृतीयम् ।
सौमारुद्रमन्त्रसूक्तं चतुर्थम्
ॐ वन्दे रुद्रमुमापतिं सुरगुरुं वन्दे जगत्कारणं
वन्दे पन्नगभूषणं शशिधरं वन्दे पशूनां पतिम् ।
वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं
वन्दे शैलसुतामनोहरतरं वन्दे शिवं शङ्करम् ॥
(ॐ सौमारुद्रमिति ईश्वरो भ्रातृव्यः, ब्राह्मणानि सुमन्तोः
कश्यपस्य ब्रह्मणश्च) ॥
ॐ सौमारुद्रं चरुं निर्वपेच्छुक्लानां व्रीहीणाम् श्वेतायाः
श्वेतवत्साया आज्यं मथितं स्यात्तस्मिन्ब्रह्मवर्चसकामः,
स्वर्भानुर्वा आसुरः सूर्यन्तमसाऽविध्यत्स न
विरोचत, तस्मै देवाः प्रायश्चित्तिमैच्छंस्तमेतयेष्ट्या
याजयंस्तया।स्मात्तमोऽपाघ्नंस्तमसैव प्रावृतो योऽलं ब्रह्मवर्चसाय
तत्र ब्रह्मवर्चस्वीभवति, तम एवास्मादऽपहन्ति ब्रह्मवर्चसेनैनं
संसृजति, श्वेतायाः श्वेतवत्साया आज्यं भवति शुक्ला व्रीहय एवमिव
वै ब्रह्मवर्चसं ब्रह्मवर्चसमेव सन्ददाति ॥
घृतेन प्रोक्षन्ति घृतेन मार्जयन्ति शान्त्यै शान्तिर्ह्यापोऽप्यस्य
तां रात्रीमाऽपो गृहान्नावहरेयुः परिश्रिते यजेत ब्रह्मवर्चसस्य
परिगृहीत्यै प्रादेशमात्रश्चरुरूर्ध्वो भवत्येवं तिर्यङेतावान्वै पुरुषो
यावदस्य प्राणां अभि यावानेवास्यात्मा तस्मात्तमोऽपहन्ति, साकं रश्मिभिः
प्रचरन्त्यसा एवास्मादादित्य उद्यंस्तमोऽपहन्ति तिष्यापौर्णमासे यजेत,
तिष्यो वै रुद्रश्चन्द्रमाः सोमः सौमीरतः प्राचीनमोषधयो रौद्रीः
प्रातीचीनमोषधयो रात्रीः प्रतीचीनं पुष्यन्ति प्राचीनं शुष्यति
प्रतीचीन प्रत्यक्षमेवैना ऋध्नोतीश्वरो दुश्चर्मा भवतोर्य एतया
यजेतेऽतीव स्वस्मादपहन्ति, मनोरृचः सामिधीनीष्वऽप्यनुब्रू यान्मनुर्वा
यत्किञ्चाऽवदत्तद्भेषजमासीद्भेषजमेवास्मै करोत्यपक्षरन्ति सिन्धवे,
मयोभुव इति नराशंस्या परिददाति शान्त्यै षट्पदा भवन्ति षड्वा
ऋतव ऋतुष्वेव परितिष्ठति ॥
ईश्वरस्तु तदतिदुर्चर्मैव भवतोस्तेजांसि ह्येष प्रत्यारोहन्निति
सौमापौष्णञ्चरुं पशुकामोऽनुनिर्वपेत्सोमो वै ब्राह्मणस्य स्वा
देवताः पशवः पूषा स्वामेव देवतां पशुभिर्बंहयते त्वचमेव
कुरुते सौमारुद्रञ्चरुं निर्वपेत् कृष्णानां व्रीहीनामभिचरन्सोमो
वा आसां प्रजानामधिपती रुद्रोऽग्निरधिपतिर्वध्यस्य चावध्यस्य
चेशेऽधिपतिमेवैनं निर्याश्य रुद्रायापिदधाति कृष्णानां व्रीहीणां
भवति, कृष्णमिव वै तमस्तमे मृत्युर्मृत्युनैवैनं ग्राहयति
शरमयं बर्हिः शीत्यै वैभीतया इध्मो विभित्यै सौमारुद्रं चरुं
निर्वपेत् ॥
भ्रातृव्यतायैवाऽद्वितीयतायै वा तस्यार्धमर्धं सर्वं स्यादऽर्धं
शुक्लानां ब्रीहीणां स्यादऽर्धं कृष्णानामर्धं शरमयं बर्हिषोऽर्धं
दर्भेमयमर्धण् वैभीतकमिध्मस्यार्धमन्यस्य वृक्षस्य सोमो वै
ब्राह्मणस्य स्वा देवता स्वायामेवास्मै देवतायां द्वितीयं जनयति यदर्धमर्धं,
द्वितीयत्वायैव तत्सौमारुद्रं चरुं निर्वपेत् पयस्यामयाविनः सौम्यो
वै जीवन्नाग्नेयः प्रमीतो नैव जीवो न मृतो य आमयावी तयोरेवैनं
भागधेयेन निष्क्रीणाति ॥
पयसि भवति पयो व पयः पयः पुरुषः पय एतस्यामयति यस्यामयति
पयसैवास्य पयः स्पृणोति प्रसितं वा एष एतं सौमारुद्रयोर्निष्वदति
यो होता भवति स ईश्वरः प्रमीतो अनुड्वाहं तस्मै दद्यात्तं
हन्यात्तस्याश्नीयात्सैव तत्र प्रायश्चित्तिः सौमारुद्रञ्चरुं निर्वपेत् प्रजाकामो
वा पशुकामो वा सोमो वै रेतोधा रुद्रोऽग्निः स प्रजनयिता सोम एवास्मै रेतो
दधात्यग्निः प्रजनयति विन्दते प्रजां वा पशून्वा यतरस्मै
कामाय निर्वयति ॥
``सौमारुद्रचतुष्कं भारद्वाजः सौमारुद्रस्त्रिष्टुप्'' ॐ सौमारुद्रा
धारयेथामसूर्यं प्रवामिष्टयोरमश्नुवन्तु, दमे दमे सप्तरत्ना दधाना
शं नो भूतं द्विपदे शं चतुष्पदे ॥ १॥
सौमारुद्रा विवृहतं विषूचीममीवा या नो गयमाविवेश ।
आरे बाधेथां निरृतिं पराचैरस्मे भद्रा सौश्रवसानि सन्तु ॥ २॥
सौमारुद्रा युवमेतान्यस्मै विश्वा तनूषु भेषजानि धत्तम् ।
अवस्यतं मुञ्चतं यन्नो अस्ति तनूषु बद्धं कृतमेनो अस्मात् ॥ ३॥
``तेजोऽसि''।
तिग्मायुधौ तिग्महेती सुशेवौ सौमारुद्राविव सुमृडतं नः ।
प्रनो मुञ्चतं वरुणस्य शाद्गोपायतं नः सुमनस्यमानाः ॥
इति सौमारुद्रमन्त्रसूक्तं चतुर्थम् ।
दीक्षामन्त्रसूक्तं पञ्चमम्
ॐ शान्तं पद्मासनस्थं शशधरमुकुटं पञ्चवक्त्रं त्रिनेत्रं
शूलं वज्रं च खड्गं परशुमऽभयदं दक्षभागे वहन्तम् ।
नागं पाशं च घण्टां डमरुकसहितं साङ्कुशं वामभागे
नानालङ्कारयुक्तं स्फटिकमणिनिभं नौमि दक्षं महेशम् ॥
``दीक्षया त्वा परिमित्येति पञ्चैते प्राजापत्यस्य येन देवा
ज्योतिष्येति, संवर्तस्याऽङ्गिरसस्य यावद्ब्रह्मणः'' ॥
ॐ दीक्षया विराडाप्तव्यस्तिस्त्रो रात्रीर्दीक्षितः स्यात्त्रिपदा विराड्विराजमेवाप्नोति,
षड्रात्रीर्दीक्षितः स्यात् षड्वाऋतवः संवत्सरः संवत्सरो
विराड्विराजमेवाप्नोति, दशरात्रीर्दीक्षितः स्याद्दशाक्षरा
विराड्विराजमेवाप्नोति, द्वादशरात्रीर्दीक्षित स्याद्वादशमासाः संवत्सरः
संवत्सरो विराड्विराजमेवाप्नोति, त्रयोदशरात्रीर्दीक्षितः स्यात्त्रयोदश मासाः
संवत्सरः संवत्सरो विराड्विराजमेवाप्नोति, पञ्चदशरात्रीर्दीक्षितः
स्यात्पञ्चदशार्धमासस्य रात्रयोऽर्धमासशः संवत्सर आप्यते संवत्सरो
विराड्विराजमेवाप्नोति, सप्तदशरात्रीर्दीक्षितः स्याद्द्वादश मासाः पञ्चर्तवः
संवत्सरः संवत्सरो विराड्विराजमेवाप्नोति, चतुर्विंशतिरात्रीर्दीक्षितः
स्याच्चतुर्विंशतिः संवत्सरस्यार्धमासा रात्रयोऽर्धमासशः संवत्सर
आप्यते संवत्सरो विराड्विराजमेवाप्नोति, त्रिंशतं रात्रीर्दीक्षितः
स्यात्त्रिंशदक्षरा विराड्विराजमेवाप्नोति ॥
मासन्दिक्षितः स्याद्यो वै मासः संवत्सरः संवत्सरो विराड्विराजमेवाप्नोति,
चतुरो मासो दीक्षितः स्याच्चतुरो वा एतं मासो वसवोऽबिभरुस्ते
पृथिवीमाजयग्गायत्रीं च्छन्दोष्टौ रुद्रास्तेऽन्तरिक्षमाजयंस्त्रिष्टुभं
च्छन्दो द्वादशादित्यास्ते दिवमाजयञ्जगतीच्छन्दस्ततो
वै ते व्यावृतमागच्छज्छ्रैष्ठ्यन्देवानां
तस्माद्द्वादशमासो भूत्वाग्निञ्चिन्वीत द्वादशमासाः संवत्सरः
संवत्सरोग्निर्वैश्वानरस्तस्याहोरात्राणीष्टक-आप्तेष्टकमेवैञ्चिनुत ऋध्नोति
व्यावृतमेव गच्छति श्रैष्ठ्यं समानानां गायत्रं पुरस्ताद्गायति,
शिरो वै देवानां गायत्रं गायत्रोग्निस्तस्माद्गायत्रं पुरस्ताद्गायति ॥
आग्निपावमान्यामयं वा वयः पवते स प्राणो मुखन्देवानामग्निर्मुखत एव
प्राणन्दधाति, तस्मान्मुखतः प्राणो रथन्तरमुत्तराद्गायति बृहद्दक्षिणतः
पक्ष एवास्योपदधातीयं वै रथन्तरमसौ बृहदाभ्यामेवैनं
परिगृह्णाति यज्ञायज्ञीयं पुच्छे गायति, श्रोण्यां वामदेव्यमात्मा
वै यज्ञायज्ञीयन्तनूर्वामदेव्यमात्मानमेवैनं सतनूञ्चिनुते हृदयमपि
कक्षे तस्मादपि कक्षे हृदयमनृचं भवति तस्मादानस्थकं
हृदयमर्थ्यै परिगायत्यर्को वा अग्निरर्कमेवार्थ्यैः परिगायति शान्त्यै ॥
संवत्सरो वा अन्तरतमः स्वर्गं लोकं ज्योतिष्मतीरेताः साह स्रीरिष्टका
यद्धिरण्यशुल्कैः प्रोक्षति ज्योतिष्यैवास्मै संवत्सरं विवासयति
सहस्रस्य प्रमासि सहस्रस्य प्रतिमासीति सहस्रसम्मिता हीमे लोका
घ्नन्ति वा एतदग्नेर्यदस्यात्र न क्रियते यन्न चीयतेऽमृतं हिरण्यं
यद्धिरण्यशुल्कैः प्रोक्षत्यमृतेनैवास्य तन्वं पृणन्ती सा मे अग्न
इष्टका धेनवः सन्त्विति धेनूरेवैनाः कुरुते ता एनं कामदुघा अमुष्मिंल्लोके
उपतिष्ठन्ते रुद्रं वै देवा यज्ञान्निरभजन् स देवानायतयाभिपर्यावर्तत
ते देवा एतच्छतरुद्रियमपश्यंस्तेनैनमशमयन् यच्छतरुद्रियञ्जुहोति
तेनैवैनं शमयति ॥
जानुदघ्नेऽग्ने जुहोत्यस्या एव रुद्रमवजयतेऽथ नाभिदघ्नेन्तरिक्षादेव
रुद्रमवयजतेऽथ पुरुषमात्रेमुष्या एव रुद्रमवयजत, इत एवोर्ध्वं
रुद्रमवयजतेऽथ पुरुषमात्रेथ नाभिदघ्नेथ जानुदघ्नेऽमुतएवार्वञ्चं
रुद्रमवयजते तत्षट् सम्पद्यते षड्भ्याऋतुभ्य एव रुद्रन्निरवयजते
गवीधुकासक्तुभिर्वाजर्तिलैर्वा मृगक्षीरेण वा जुहोति यद्ग्राम्येन
जुहुयाद्ग्राम्यावचारिणं रुद्रं कुर्यादारण्येनैवारण्यमभिरुद्रं निरवयजते
॥
अर्कपर्णेन जुहोत्यर्को वाग्निरर्केगैवैनमर्कादधि निरवयजत उत्तरस्य
पक्षस्य या चरमेष्टका तस्यां जुहोत्येषा वै रुद्रस्य दिक्, स्वायामेव
दिशि रुद्रं प्रतिगृह्यावयजते पशुर्वा अग्निरेतर्हि वा एष जायते यर्हि
चीयते यथा वत्सो जातः स्तनं प्रेप्सति एवं वा एष एतर्हि भागधेयं
प्रेप्सति स यजमानं चैवाधुर्युं च ध्यायति, यच्छतरुद्रियं जुहोति
भागधेयेनैवैनं शमयति ॥
अङ्गिरसो वै स्वर्गंलोकं यन्तस्ते जायां धर्मं प्रासिञ्चन्सा शोचन्ती
पर्णं परामृशत्सोभवत्तदर्कस्यार्कत्वं यदर्कपर्णेन जुहोति
स योनित्वाय यन्द्विष्यात्तस्य सञ्चरे पशूनां न्यसेद्यः प्रथमः
पशुराक्रमति त आर्तिमार्च्छन्ति या उत्तमास्तां यजमानं वाचयेदेता
वै देवताः स्वर्ग्यास्ताभिरेव स्वर्गलोकमित्येता वै देवता अभिचरणेया
यन्द्विष्यात्तं ब्रूयादमुं वो जम्भे दधामि ``तेजोऽसि'' इत्येताभ्य एवैनं
देवताभ्य आवृश्चति तादृक् प्रप्रधन्वति ॥
मद्यं पीत्वेति तर्पणम् ॥
इति दीक्षामन्त्रसूक्तं पञ्चमम् ।
इति रुद्रपञ्चकं सम्पूर्णम् ।
Proofread by Sneha Sudha snehasudha13 at gmail.com, NA