सागरेश्वरलिङ्गशिवक्षेत्रे भिल्लेन वनसंरक्षणवर्णनम्

सागरेश्वरलिङ्गशिवक्षेत्रे भिल्लेन वनसंरक्षणवर्णनम्

(शिवगौरीसंवादे) ईश्वरः - अत्रेतिहासं वक्ष्यामि सावधानमनाः श्रृणु । तत्र बिल्ववने कश्चिदासीद् भिल्लो धनुर्धरः ॥ ३६॥ स बिल्वभूरुहाणां च पालकोऽ‍भूच्छुचिस्मिते । तस्यापारैः पुण्यबलैर्भिल्लस्याप्यभवन्मतिः ॥ ३७॥ वनदन्तिभयार्थं च तेन कण्टकपङ्क्तिभिः । वनस्यावरणं चक्रे प्रबलैः काष्ठसंयमैः ॥ ३८॥ वराहमहिषाणां च गजशुण्डारदैस्तदा । वृक्षमूलानि भज्यन्ते मृगाणां च भयात् तदा ॥ ३९॥ मत्ताः करटिनो घोराः स्वशुण्डावलयैर्धृताम् । नवारुणां बिल्वशाखां भङ्क्त्वा भुक्त्वा प्रयान्ति च ॥ ४०॥ स प्रातर्बिल्वशाखां तां दृष्ट्वा हस्तिविमर्दिताम् । दुःखितः स तदा गौरि तस्मिन्नेवाकरोद्वने ॥ ४१॥ स्वकुटीं पर्णकैः शाखिशाखाव्रजमनोहराम् । पुत्रैश्च बालकैः सार्धं पत्न्या तत्रावसच्छिवे ॥ ४२॥ कुद्दालपिटकोद्दामहस्तो नित्यं धनुर्धरः । हस्तियूथांश्च महिषान् वराहांस्ताडयत्यपि ॥ ४३॥ स शरैस्तीक्षणभालैश्च दन्तिकुम्भेषु शाङ्करि । श्रृङ्गान्तरेषु महिषान् दंष्ट्रासन्धिषु सूकरान् ॥ ४४॥ तद्भयान्नोपसर्पन्ति तद्बिल्ववनमञ्जसा । कन्दमूलफलैरेव जीवन् स कणयाचकः ॥ ४५॥ सकुटुम्बस्तदा तस्थौ तस्मिन् बिल्वौघकानने । सूक्ष्ममार्गः कृतस्तेन गमनागमने तदा ॥ ४६॥ तमामन्त्र्यैव मुनयो गृह्णन्ति न्वपल्लवान् । बिल्वमूलेषु लिङ्गानि स्थापयित्वार्चयन्ति च ॥ ४७॥ कोमलैर्बिल्वपत्रैश्च त्रिकालं भुवनेश्वरि । त्रियम्बकमहामन्त्रैः शैवाः सम्पूज्ययन्त्युमे ॥ ४८॥ तान् दृष्ट्वा सततं भिल्लस्तुष्टिमाप्नोति नित्यशः । ते भिल्लं पूजयन्त्येव वाग्भिश्च कणदानतः ॥ ४९॥ स भिल्लः शैवसङ्गत्या बिल्वानां पालनेन च । मम प्रियतरो नित्यमभूच्च गिरिकन्येके ॥ ५०॥ बिल्वमूलानि सर्वाणि कुद्दालैर्बालकैः सह । खात्वा तन्मूलदेशेषु कृमिदष्टांश्च पल्लवान् ॥ ५१॥ धर्मकालेषु तत्पत्नी जलमादाय भूरिशः । घटैस्तदा महादेवि करोति वनपालनम् ॥ ५२॥ करोति जलदानं सा बालबिलवप्ररोहणे । कृमिदष्टानि पत्राणि लूतातन्तुवृत्तान्यपि ॥ ५३॥ छित्वा छित्वा पातयति बिल्वभूरुहपालिका । तन्मूलेषु महाशैवाः शिवमन्त्रजपोत्सुकाः ॥ ५४॥ वसन्ति नियताहाराः शिवलिङ्गार्चकाः शिवे । बिल्वपत्रैश्च कुसुमैः रुद्राध्यायभिषेचनैः ॥ ५५॥ पूजयन्त्येव गौरीशं तन्मूलेषु महेश्वरि । रुद्राध्यायजलैः शीतैस्तन्मूलं शीतयन्ति ते ॥ ५६॥ सायं ते दीपयन्त्येव शिवलिङ्गं निरीक्षितुम् । शिवलिङ्गानि तुङ्गानि बिल्वयुक्तानि शङ्करि ॥ ५७॥ द्रष्टुमभ्युद्यताः सर्वे दीपदीप्तिविराजितम् । तत्र ब्रह्मादयो देवा नारदाद्या महर्षयः ॥ ५८॥ द्रष्टुं गच्छन्ति नियताः बिल्वमूले शिवार्चनम् । शिवलिङ्गेषु तुङ्गेषु महाशैवकृतं तदा ॥ ५९॥ स्तुवन्ति नृत्यन्ति हसन्ति दृष्ट्वा भुञ्जन्ति पश्यन्ति महेशलिङ्गम् । जिघ्रन्ति नैवेद्यमपारपुण्यदं शिवाङ्घ्रिपुष्पाणि सुरा मुनीश्वराः ॥ ६०॥ दृष्ट्वा त्रिपुण्ड्रोज्ज्वलमस्तकानि सुगन्धलिप्तानि मनोहराणि । सुबिल्वमूलेषु च संस्थितानि सम्पूज्य जन्मानि कृतार्थयन्ति ॥ ६१॥ तान् दृष्ट्वा प्रमथाधिनाथ गणपान् ब्रह्मादिकास्ते सुराः धन्या मान्याक्षिभृङ्गा । । । सुतरां पुण्यपुञ्जे निमग्नाः । दृष्ट्वा लिङ्गानुमेशप्रियवरजनितापारपापैर्विहीनाः प्राप्ताः प्राणात्ययेऽपि प्रियममरवरैः भिल्लमूलेषु संस्थाः ॥ ६२॥ सूतः - इत्येवं स्तुतिभिः स्तुवन्ति सततं तद्विल्वमूलार्चकान् लिङ्गे तुङ्गे महेशं जनिमृतिजमहादुःखनाशाय शैवाः ॥ ६३॥ स शैवपूजितापार लिङ्गानि वनपालकः । प्रणम्य दारतनयैः संस्तौति परमार्थतः ॥ ६४॥ --- भिल्लः - पाहि बिल्ववनमीश्वर शम्भो हस्तिहस्तमृदितं नवशाखम् । दन्तिकृत्तिवस मामव शम्भो बन्धुरालक दयस्व मय्यपि ॥ ६५॥ हर हर मुरभित्प्रपूजिताङ्घ्रे स्मरहर कुरु मय्यकिञ्चने दयाम् । हर हर गुरुतापभारं गरधर शङ्कर चन्द्रशेखर ॥ ६६॥ --- ईश्वरः - इत्थं शैवजनान्वितं स विपिने भिल्लोऽपि बिल्वीवने ध्यात्वा मत्पदपङ्कजं विधिनुतं बिल्वादिसन्मौलिभिः । गङ्गासागरसङ्गमे विपिनवन्मल्लिङ्गसम्पूजको बिल्वाद्यैर्गणनायकः स सुतरां मुक्तो भवत्यद्रिजे ॥ ६७॥ यो बिल्वच्छदपूतलग्नवसनैः संश्लिष्टगात्रान् द्विजान् तन्मूले सुखशीतले पितृगणान् सम्भोजयेत् षड्रसैः । तस्यान्नं शतवर्षतृप्तिजनकं भूयात् पितॄणां मुदे तच्छर्वार्पिततर्पितान्नपितरस्तुष्यति हृष्यन्ति च ॥ ६८॥ ॥ इति शिवरहस्यान्तर्गते शिवगौरीदसंवादे सागरेश्वरलिङ्गशिवक्षेत्रे भिल्लेन वनसंरक्षणवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः ३१॥ - - .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 31.. - Notes: Shiva outlines the merits of worshipping at Sagareshwara Linga situated at the Ganga-Sagar-Sangama Shiva Kshetra, amidst the Bilva forest that was protected by a local Bhilla from rampaging elephants. The shloka numbers have been maintained per the source text. Proofread by Ruma Dewan
% Text title            : Sagareshvaralingashivakshetre Bhillena Vanasamrakshana Varnanam
% File name             : sAgareshvaralingashivakShetrebhillenavanasaMrakShaNavarNanam.itx
% itxtitle              : bhillenavanasaMrakShaNavarNanam sAgareshvaraliNgashivakShetre (shivarahasyAntargatam)
% engtitle              : bhillenavanasaMrakShaNavarNanam sAgareshvaraliNgashivakShetre 
% Category              : shiva, shivarahasya, raksha
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhargAkhyaH panchamAMshaH | adhyAyaH 31|| -
% Indexextra            : (Scan)
% Latest update         : June 18, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org