गङ्गासागरसङ्गममहिमवर्णनैवं सूतप्रोक्तं सागरेश्वरशिवस्तुतिः

गङ्गासागरसङ्गममहिमवर्णनैवं सूतप्रोक्तं सागरेश्वरशिवस्तुतिः

(शिवगौरीदसंवादे) ईश्वरः - श्रीगङ्गासागरं गौरि पुण्यं पापविनाशनम् । गङ्गासागरसङ्घट्टभिन्नवार्धितरङ्गकम् ॥ १॥ तां गङ्गां सागरो दृष्ट्वा तरङ्गावलिभासुरः । हसन्फेनगणैर्नृत्यन्समाश्लिष्यन्निव प्रियाम् ॥ २॥ तरङ्गहस्तैर्देवेशि गर्जन्कोलाहलारवैः । गङ्गाजलाविलतनुस्तदाऽऽसीत्सागरोमऽम्बिके ॥ ३॥ तत्र सस्नुर्देवगणास्तथा मुनिगणाः शिवे । ब्रह्मविष्ण्वादयो देवाः परं हर्षमवाप्नुवन् ॥ ४॥ स्नात्वा सन्तर्प्य च पितॄन् भस्मनोद्धूल्य ते तनुम् । दत्वा दानानि पुण्यानि गाश्च भूमिं तिलं धनम् ॥ ५॥ मत्प्रीत्यर्थं महादेवि ब्राह्मणेषु तपस्विषु । यत्र गङ्गासागरस्य(योः) सङ्गनोऽस्ति महेश्वरि ॥ ६॥ तत्र स्नानं कृतं ह्येतत् फलदं सर्वपापहृत् । अन्यत्र विंशत्कृच्छ्राणि पुरभिद्यः प्रकल्पयत् ॥ ७॥ तत्रास्ति मे बिल्ववनं नवारुणदलान्वितम् । कदम्बनिम्बप्रसवैः नीपमन्दारसुन्दरम् ॥ ८॥ तमालतिलकोपेतं बकुलोद्दालकेतकम् । तमालताल हिन्ताल सालनीलीविराजितम् ॥ ९॥ गङ्गातीरे महानीरभूमितर्पितभूरुहम् । नवोरुबिल्वशाखाग्रं फलभारावनामितम् ॥ १०॥ पुष्पसौरभ्यमधुरं गन्धामारुतवीजितम् । वसन्तमुकुलोत्फुल्लमल्लीवल्ली विराजितम् ॥ ११॥ केतकोद्दामरजसा गन्धीकृतदिगन्तरम् । वेणुवेत्रगणच्छ्रन्नं नानाशकुनिनादितम् ॥ १२॥ गङ्गासागरतीरस्थं वनमेकमभून्मम । तीरसंस्थमहालिङ्गं मम सर्वार्थदायकम् ॥ १३॥ तत्र शैववराः सन्ति गङ्गासागरवासिनः । भस्मरुद्राक्षसम्पन्नाः पञ्चाक्षरपरायणाः ॥ १४॥ रुद्रलिङ्गार्चनपरा रुद्राध्यायजपादराः । तद्बिल्ववनजापारबिल्वपत्रैः सदाम्बिके ॥ १५॥ सागरेशं महालिङ्गं दृष्ट्वा नत्वा च भक्तितः । बिल्वपत्रैः समभ्यर्च्य वसन्ति नियता हि ते ॥ १६॥ गङ्गासागरमासाद्म क्षेत्रमत्यन्तपुण्यदम् । सागरे चाथ गङ्गायाः स्नात्वा पुण्यप्रदेऽम्बिके ॥ १७॥ सोऽश्वमेधमवाप्नोति दृष्ट्वा मां सागरेश्वरम् । बिल्वपत्रैः समभ्यर्च्य स्नाप्य सङ्गमवारिभिः ॥ १८॥ कृतकृत्यो नरो भूयान्नरः सुगतिभाग्भवेत् । यो गोशतं कुरुक्षेत्रे दद्याद्वेदविदि द्विजे ॥ १९॥ तस्माच्छतगुणं पुण्यं गङ्गासागरमज्जने । तत्र सन्तर्प्य च पितॄन् श्राद्धं दद्याच्च यो नरः ॥ २०॥ तस्य वर्षशतं तृप्ताः पितरः सपितामहाः । एकं कोटिगुणं भोज्यं ब्राह्मणेन महेश्वरि ॥ २१॥ दत्वैकां गो दरिद्राय शतगोदानपुण्यभाक् । यो लिङ्गं स्नापयेन्नीरैर्गङ्गासागरसम्भवैः ॥ २२॥ क्षीरकुम्भशतैः स्नाप्य यत्फलं तच्छताधिकम् । तरङ्गमालाकलितगङ्गासागरसङ्गमे ॥ २३॥ तत्तरङ्गोत्थवातेन पापभङ्गः प्रजायते । तत्र स्नात्वा तु मुनयो ग्रहणे चन्द्रसूर्ययोः ॥ २४॥ पापसङ्घैर्विमुच्यन्ते सत्यमेव महेश्वरि । व्यतीपाते वैधृतौ च अयने सङ्क्रमे तथा ॥ २५॥ पर्वकालेषु सर्वेषु पक्षे चैवाथ पर्वणि । कृष्णाङ्गारचतुर्दश्यां गङ्गासागरसङ्गमे ॥ २६॥ महादधौ नरः स्नात्वा सर्वपापैः प्रमुच्यते । पञ्चभिः पातकैर्घोरैस्तत्र स्नात्वा महेश्वरि ॥ २७॥ ग्रहणे भक्तिमान्स्नात्वा दत्वा च तिलपर्वतम् । मल्लिङ्गं सम्प्रपूज्यैव सागरेशं विमुच्यते ॥ २८॥ महादानानि तत्रैव नृपैः पूर्वं कृतानि हि । इक्ष्वाकुकुक्षिनाभागमान्धातृसागरादिभिः ॥ २९॥ ययातिनहुषाद्यैश्च देवि श्रद्धापुरःसरम् । सागरेशस्य देवस्य बद्धस्तैः स शिवालयः ॥ ३०॥ पूजितः सागरेशोऽपि नानाविभवतः सुरैः ॥ तत्र स्नात्वा सागरेशं प्रणम्य नियतो नरः । स्तोत्रमेतत्पठन्भक्त्या सर्वपापैः प्रमुच्यते ॥ ३१॥ --- सूतः - भगघ्नं पुरघ्नं मखघ्नं यमघ्नं भजाम्यन्तकघ्नं गजघ्नं स्मरघ्नम् । उपेन्द्रादिवन्द्यं महाशैवहृद्यं महागद्यपद्यैः स्तुतं तत्वमाद्यम् ॥ ३२॥ सुमौलौ पिशङ्गं दयास्राव्यपाङ्गं भजे लिङ्गसङ्गं पदारक्षभङ्गम् । क्षपद्वीरमीशं महाज्ञानकोशं महेशं प्रकाशं कराब्जे हुताशम् ॥ ३३॥ भजाभ्येकमीशं गले नीलनीलं महाशैवशीलं जगत्कृत्यलीलम् । भजे कालकालं भजे लिङ्गसङ्गं पदारक्षभङ्गं हृदब्जान्तरङ्गम् ॥ ३४॥ --- स्तोत्रवर्येण मां भक्त्या स्तुवन्सागरमीश्वरम् । सर्वान्कामानवाप्नोति पापेभ्यश्च प्रमुच्यते ॥ ३५॥ ॥ इति शिवरहस्यान्तर्गते शिवगौरीदसंवादे गङ्गासागरसङ्गममहिमवर्णनैवं सूतप्रोक्तं सागरेश्वरशिवस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः ३१॥ - - .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 31.. - Notes: Shiva delineates to Gauri about how the quality of Ganga's flow changes at Ganga-Sagar-Sangamam - the site where River Ganga meets the sea; and what are the merits of worshipping Sagareshwara Linga situated at this Shiva Kshetra amidst the Bilva forest, with a Stuti that Suta thus narrates. Shiva outlines the special time periods for worshipping at Ganga-Sagar-Sangamam viz., Solar and Lunar Eclipses, Vyatipata and Vaidhriti Yoga-s, Ayana and Sankranti-s, all festivals during both paksha-s, Krishnangara Chaturdashi. The shloka numbers have been maintained per the source text. Proofread by Ruma Dewan
% Text title            : Gangasagarasangama Mahima Varnanam and Sagareshvara Shiva Stuti by Suta
% File name             : sAgareshvarashivastutiHgangAsAgarasangamamahimavarNanaivaMsUtaproktam.itx
% itxtitle              : sAgareshvarashivastutiH evaM gaNgAsAgarasaNgamamahimavarNanaM sUtaproktam (shivarahasyAntargatA)
% engtitle              : sAgareshvarashivastutiH evaM gangAsAgarasangamamahimavarNanaM sUtaproktam
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhargAkhyaH panchamAMshaH | adhyAyaH 31|| -
% Indexextra            : (Scan)
% Latest update         : June 18, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org