गङ्गासागरसङ्गममहिमवर्णनैवं सूतप्रोक्तं सागरेश्वरशिवस्तुतिः
(शिवगौरीदसंवादे)
ईश्वरः -
श्रीगङ्गासागरं गौरि पुण्यं पापविनाशनम् ।
गङ्गासागरसङ्घट्टभिन्नवार्धितरङ्गकम् ॥ १॥
तां गङ्गां सागरो दृष्ट्वा तरङ्गावलिभासुरः ।
हसन्फेनगणैर्नृत्यन्समाश्लिष्यन्निव प्रियाम् ॥ २॥
तरङ्गहस्तैर्देवेशि गर्जन्कोलाहलारवैः ।
गङ्गाजलाविलतनुस्तदाऽऽसीत्सागरोमऽम्बिके ॥ ३॥
तत्र सस्नुर्देवगणास्तथा मुनिगणाः शिवे ।
ब्रह्मविष्ण्वादयो देवाः परं हर्षमवाप्नुवन् ॥ ४॥
स्नात्वा सन्तर्प्य च पितॄन् भस्मनोद्धूल्य ते तनुम् ।
दत्वा दानानि पुण्यानि गाश्च भूमिं तिलं धनम् ॥ ५॥
मत्प्रीत्यर्थं महादेवि ब्राह्मणेषु तपस्विषु ।
यत्र गङ्गासागरस्य(योः) सङ्गनोऽस्ति महेश्वरि ॥ ६॥
तत्र स्नानं कृतं ह्येतत् फलदं सर्वपापहृत् ।
अन्यत्र विंशत्कृच्छ्राणि पुरभिद्यः प्रकल्पयत् ॥ ७॥
तत्रास्ति मे बिल्ववनं नवारुणदलान्वितम् ।
कदम्बनिम्बप्रसवैः नीपमन्दारसुन्दरम् ॥ ८॥
तमालतिलकोपेतं बकुलोद्दालकेतकम् ।
तमालताल हिन्ताल सालनीलीविराजितम् ॥ ९॥
गङ्गातीरे महानीरभूमितर्पितभूरुहम् ।
नवोरुबिल्वशाखाग्रं फलभारावनामितम् ॥ १०॥
पुष्पसौरभ्यमधुरं गन्धामारुतवीजितम् ।
वसन्तमुकुलोत्फुल्लमल्लीवल्ली विराजितम् ॥ ११॥
केतकोद्दामरजसा गन्धीकृतदिगन्तरम् ।
वेणुवेत्रगणच्छ्रन्नं नानाशकुनिनादितम् ॥ १२॥
गङ्गासागरतीरस्थं वनमेकमभून्मम ।
तीरसंस्थमहालिङ्गं मम सर्वार्थदायकम् ॥ १३॥
तत्र शैववराः सन्ति गङ्गासागरवासिनः ।
भस्मरुद्राक्षसम्पन्नाः पञ्चाक्षरपरायणाः ॥ १४॥
रुद्रलिङ्गार्चनपरा रुद्राध्यायजपादराः ।
तद्बिल्ववनजापारबिल्वपत्रैः सदाम्बिके ॥ १५॥
सागरेशं महालिङ्गं दृष्ट्वा नत्वा च भक्तितः ।
बिल्वपत्रैः समभ्यर्च्य वसन्ति नियता हि ते ॥ १६॥
गङ्गासागरमासाद्म क्षेत्रमत्यन्तपुण्यदम् ।
सागरे चाथ गङ्गायाः स्नात्वा पुण्यप्रदेऽम्बिके ॥ १७॥
सोऽश्वमेधमवाप्नोति दृष्ट्वा मां सागरेश्वरम् ।
बिल्वपत्रैः समभ्यर्च्य स्नाप्य सङ्गमवारिभिः ॥ १८॥
कृतकृत्यो नरो भूयान्नरः सुगतिभाग्भवेत् ।
यो गोशतं कुरुक्षेत्रे दद्याद्वेदविदि द्विजे ॥ १९॥
तस्माच्छतगुणं पुण्यं गङ्गासागरमज्जने ।
तत्र सन्तर्प्य च पितॄन् श्राद्धं दद्याच्च यो नरः ॥ २०॥
तस्य वर्षशतं तृप्ताः पितरः सपितामहाः ।
एकं कोटिगुणं भोज्यं ब्राह्मणेन महेश्वरि ॥ २१॥
दत्वैकां गो दरिद्राय शतगोदानपुण्यभाक् ।
यो लिङ्गं स्नापयेन्नीरैर्गङ्गासागरसम्भवैः ॥ २२॥
क्षीरकुम्भशतैः स्नाप्य यत्फलं तच्छताधिकम् ।
तरङ्गमालाकलितगङ्गासागरसङ्गमे ॥ २३॥
तत्तरङ्गोत्थवातेन पापभङ्गः प्रजायते ।
तत्र स्नात्वा तु मुनयो ग्रहणे चन्द्रसूर्ययोः ॥ २४॥
पापसङ्घैर्विमुच्यन्ते सत्यमेव महेश्वरि ।
व्यतीपाते वैधृतौ च अयने सङ्क्रमे तथा ॥ २५॥
पर्वकालेषु सर्वेषु पक्षे चैवाथ पर्वणि ।
कृष्णाङ्गारचतुर्दश्यां गङ्गासागरसङ्गमे ॥ २६॥
महादधौ नरः स्नात्वा सर्वपापैः प्रमुच्यते ।
पञ्चभिः पातकैर्घोरैस्तत्र स्नात्वा महेश्वरि ॥ २७॥
ग्रहणे भक्तिमान्स्नात्वा दत्वा च तिलपर्वतम् ।
मल्लिङ्गं सम्प्रपूज्यैव सागरेशं विमुच्यते ॥ २८॥
महादानानि तत्रैव नृपैः पूर्वं कृतानि हि ।
इक्ष्वाकुकुक्षिनाभागमान्धातृसागरादिभिः ॥ २९॥
ययातिनहुषाद्यैश्च देवि श्रद्धापुरःसरम् ।
सागरेशस्य देवस्य बद्धस्तैः स शिवालयः ॥ ३०॥
पूजितः सागरेशोऽपि नानाविभवतः सुरैः ॥
तत्र स्नात्वा सागरेशं प्रणम्य नियतो नरः ।
स्तोत्रमेतत्पठन्भक्त्या सर्वपापैः प्रमुच्यते ॥ ३१॥
---
सूतः -
भगघ्नं पुरघ्नं मखघ्नं यमघ्नं भजाम्यन्तकघ्नं गजघ्नं स्मरघ्नम् ।
उपेन्द्रादिवन्द्यं महाशैवहृद्यं महागद्यपद्यैः स्तुतं तत्वमाद्यम् ॥ ३२॥
सुमौलौ पिशङ्गं दयास्राव्यपाङ्गं भजे लिङ्गसङ्गं पदारक्षभङ्गम् ।
क्षपद्वीरमीशं महाज्ञानकोशं महेशं प्रकाशं कराब्जे हुताशम् ॥ ३३॥
भजाभ्येकमीशं गले नीलनीलं महाशैवशीलं जगत्कृत्यलीलम् ।
भजे कालकालं भजे लिङ्गसङ्गं पदारक्षभङ्गं हृदब्जान्तरङ्गम् ॥ ३४॥
---
स्तोत्रवर्येण मां भक्त्या स्तुवन्सागरमीश्वरम् ।
सर्वान्कामानवाप्नोति पापेभ्यश्च प्रमुच्यते ॥ ३५॥
॥ इति शिवरहस्यान्तर्गते शिवगौरीदसंवादे गङ्गासागरसङ्गममहिमवर्णनैवं सूतप्रोक्तं सागरेश्वरशिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः ३१॥ -
- .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 31.. -
Notes:
Shiva delineates to Gauri about how the quality of Ganga's flow changes at Ganga-Sagar-Sangamam - the site where River Ganga meets the sea; and what are the merits of worshipping Sagareshwara Linga situated at this Shiva Kshetra amidst the Bilva forest, with a Stuti that Suta thus narrates. Shiva outlines the special time periods for worshipping at Ganga-Sagar-Sangamam viz., Solar and Lunar Eclipses, Vyatipata and Vaidhriti Yoga-s, Ayana and Sankranti-s, all festivals during both paksha-s, Krishnangara Chaturdashi.
The shloka numbers have been maintained per the source text.
Proofread by Ruma Dewan