सामवेदकृता शिवस्तुतिः

सामवेदकृता शिवस्तुतिः

(शिवरहस्यान्तर्गते ईशाख्ये) सामवेद उवाच । अग्निरूपो महादेवो मामायातु स वीतये । हव्यदातारमीशानं हव्यभोक्तारमीश्वरम् ॥ ३॥ गृभ्णामि वचसा साम्ना मनसैव महेश्वरम् । सवितुर्भासकं तेजो भर्गमेवमुपास्महे ॥ ४॥ स धियो सर्वजन्तूनां यो वः समयक्प्रचोदयात् । भूर्भुवःस्वस्तथा सत्यं स एव परमेश्वरः ॥ ५॥ तद्वो गायामि देवेशं पुरुषं परमेश्वरम् । आवोराजानमेवेशमध्वरस्य महेश्वरम् ॥ ६॥ होतारं सत्यजं देवं रोदस्योरीश्वरं परम् । अग्निमेवं विरूपाक्षं मरणात्पूर्वमीश्वरम् ॥ ७॥ हिरण्यरूपं देवेशं वृणुध्वमवशं सुराः । अर्थपतिर्मित्रपतिः शिवः क्षेत्रपतिः सुराः ॥ ८॥ शिवो धनपतिः शम्भुः सुवः पतिरपीश्वरः । नमस्तस्मै महेशाय नमस्तस्मै कपर्दिने ॥ ९॥ त्र्यम्बकाय नमस्तस्मै क्रव्येभ्यश्च नमो नमः । अन्नाय च नमो नित्यमन्नाधिपतये नमः ॥ १०॥ संवृते विवृते चैव प्रत्यश्राव्ये नमो नमः । क्रव्येभ्यश्च विरीकेभ्यो मृडाय च नमो नमः ॥ ११॥ मयि मन्युं क्षमस्वेश दोहं गायामि शङ्कर । त्वामर्चयामि विश्वेशं परमात्मानमीश्वरम् ॥ १२॥ यदिदं विश्वभूतं च त्वय्येव लयमेष्यति । नमो नमस्ते देवाय नमस्तेऽस्तु सदा मम ॥ १३॥ चन्द्ररूपाय च नमः शुक्ररूपाय ते नमः । मखाय च नमस्तुभ्यं ओजसे ते नमो नमः ॥ १४॥ सहसे ते नमस्तुभ्यं ऋतवे ते नमो नमः । बृहते नमस्तुभ्यं सुखाय च नमो नमः ॥ १५॥ ज्योतिषे ते नमस्तुभ्यं त्वां दधे हृदये सदा । एभिर्नामभिरेवेशं स्तोभैर्गायामि शङ्कर ॥ १६॥ औष्णैरित्वा महादेवं हवामि परमेश्वरम् । ॐ वाग्भा तव देवेश सर्वभासकरी प्रभो ॥ १७॥ सोमोऽयं जनिता देवः पवते शङ्करः स्वयम् । सोमोऽयं जनिता देवो मतीनां परमेश्वरः ॥ १८॥ सोमोऽयं जनिता देवो दिवः शङ्कर ईश्वरः । सोमोऽयं जनिता देवः पृथिव्याः परमेश्वरः ॥ १९॥ सोमोऽयं जनिता देवो अग्नेः साक्षान्महेश्वरः । सोमोऽयं जनिता देवः सूर्यस्य भव ईश्वरः ॥ २०॥ सोमोऽयं जनिता देवो विष्णोश्चापि त्रियम्बकः । एषोऽन्तरा महादेव आदित्ये श्रूयते विभुः ॥ २१॥ हिरण्यश्मश्रुरीशानो हिरण्मयसुकेशवान् । सर्व एव सुवर्णोऽयं शिवो ह्याप्रणखात्सुराः ॥ २२॥ सीमा भूमा महानात्मा विश्वरूपो महेश्वरः । कं खं ब्रह्मेश्वरो ह्येष महादेवः प्रकाशते ॥ २३॥ वैश्वानरात्मा त्रिमधुस्त्रिसुपर्णोह्यतीन्द्रियः । अपावृतं च तद्द्वारं सदा पश्यन्ति सूरयः ॥ २४॥ विराट् स्वराट् तथा संराट् भगवान् रुद्र एव हि । युजोत्वात्यादयो वाचं गायेत्त्वाशतवर्तनम् ॥ २५॥ महेन्द्रात्मा वामदेव्यो ज्येष्ठेराजानहिं कृतः । वैरूप वैश्वरूपात्मा सर्वात्मा परमेश्वरः ॥ २६॥ महावैराज सुप्रीतो वैश्वामित्रस्तुतः शिवः । अष्टदंष्ट्रारवप्रीत एक एव महेश्वरः ॥ २७॥ यजध्वं श्रीमहादेवं लभध्वं मुक्तिमुत्तमाम् । २८.१ ॥ इति शिवरहस्यान्तर्गते सामवेदकृता शिवस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । ईशाख्यः द्वादशमांशः । अध्यायः ४ सामवेदाथर्ववेदकृतस्तुतिः । ३-२८.१ ॥ - .. shrIshivarahasyam . IshAkhyaH dvAdashamAMshaH . adhyAyaH 4 sAmavedAtharvavedakRRitastutiH . 3-28.1 .. Notes: Sāmaveda सामवेद; delivers at the site of DakṣaYajña दक्षयज्ञ, a eulogy in favor of Śiva शिव. Proofread by Ruma Dewan
% Text title            : Samavedakrita Shiva Stuti
% File name             : sAmavedakRRitAshivastutiH.itx
% itxtitle              : shivastutiH (sAmavedakRitA shivarahasyAntargatA)
% engtitle              : sAmavedakRRitA shivastutiH
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | IshAkhyaH dvAdashamAMshaH | adhyAyaH 4 sAmavedAtharvavedakRitastutiH | 3-28.1 ||
% Indexextra            : (Scan)
% Latest update         : December 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org