श्रीसाम्बाष्टकम्

श्रीसाम्बाष्टकम्

सन्तः पुत्राः सुहृद उत वा सत्कलत्रं सुगेहं वित्ताधीशप्रतिमवसुमान् बोभवीतु प्रकामम् । कीर्तिच्छटा वा आशास्वास्ताममृतकिरणस्पर्धि सर्वं व्यर्थं मरणसमये साम्ब एकः सहायः ॥ १॥ वादे सर्वानपि विजयतां सत्सभायां नृपाग्रे भोगान्सत्त्वाननुभवतु वा दैवतैरप्यलभ्यान् । भूमौ नीरे वियति चरितुं वर्ततां योगशक्तिः सर्वं व्यर्थं मरणसमये साम्ब एकः सहायः ॥ २॥ रूपं वाऽऽस्तां कुसुमविशिखाखर्वगर्वापहारि शौर्यं वास्ताममरपतिसङ्क्षोभदक्षं नितान्तम् । पृथ्वीपालप्रवरमकुटाघट्टनं स्यात्पदे वा सर्वं व्यर्थं मरणसमये साम्ब एकः सहायः ॥ ३॥ गेहे सन्तु प्रवरभिषजः सर्वरोगापनोदाः देशे देशे बहुधनयुता बन्धवः सन्तु कामम् । सर्वे लोका अपि वचनतो दासवत्कर्म कुर्युः सर्वं व्यर्थं मरणसमये साम्ब एकः सहायः ॥ ४॥ अध्यास्तां वा सुमणिखचितं दिव्यपारीण पीठं (दिव्यपारीन्द्र) हस्त्यश्वाद्यैरपि परिवृतो द्वारदेशोऽस्तु कामम् । भूष्यन्तां वाऽऽभरणनिवहैरङ्गकान्यर्घशून्यैः सर्वं व्यर्थं मरणसमये साम्ब एकः सहायः ॥ ५॥ धत्तां मूर्ध्नि प्रवरमणिभिर्जुष्टदीव्यत्किरीटं वस्तां देहं विविधवसनैर्हेमसूत्रावबद्धैः । आरुह्यासौ विचरतु भुवं तिर्यगान्दोलिकां वा सर्वं व्यर्थं मरणसमये साम्ब एकः सहायः ॥ ६॥ सर्वशान्तप्रकटितरवैर्बन्दिभिः स्तूयतां वा भेरीढक्काप्रमुखबिरुदं दिक्षु दंध्वन्यतां वा । पृथ्वीं सर्वामवतु रिपुभिः क्रान्तपादाग्रपीठः सर्वं व्यर्थं मरणसमये साम्ब एकः सहायः ॥ ७॥ हृद्यां पद्यावलिमपि करोत्वर्थचित्रं सुकव्यं षट्छास्त्रेष्वप्यमितधिषणो ग्रन्थसन्दोहकर्ता । सर्वेषां स्यादमितहृदयानन्ददो वाङ्मुखैर्वा सर्वं व्यर्थं मरणसमये साम्ब एकः सहायः ॥ ८॥ इति श्रीसाम्बाष्टकं सम्पूर्णम् । Proofread by Mohan Chettoor
% Text title            : Shri Samba Ashtakam
% File name             : sAmbAShTakam.itx
% itxtitle              : sAmbAShTakam
% engtitle              : sAmbAShTakam
% Category              : shiva, aShTaka
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mohan Chettoor
% Latest update         : October 8, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org