सूतप्रोक्ता शिवस्तुतिः
श्रीसूतः ।
शिव एव सदा ध्येयः सर्वदेवोत्तमः प्रभुः ।
शिव एव सदा पूज्यो मुक्तिकामैर्न संशयः ॥ २४९॥
महेशान्नाधिको देवः स एव सुरसत्तमः ।
स एव सर्ववेदान्तवेद्यो नात्रास्ति संशयः ॥ २५०॥
अनन्यशरणो नित्यं शङ्करार्चनतत्परः ।
स एव धन्यः पुण्यात्मा सत्यमेवोच्यते मया ॥ २५१॥
जन्मान्तरसहस्रेषु यदि तप्तं तपस्तदा ।
तस्य श्रद्धा महादेवि भक्तिश्च भवति ध्रुवम् ॥ २५२॥
मुक्तिदाता महादेवः तदन्यो नास्ति सर्वथा ।
सत्यमेतत्पुनः सत्यं सत्यमेतन्न संशयः ॥ २५३॥
सुभगा जननी तस्य तस्यैव कुलमुन्नतम् ।
तस्यैव जन्म सफलं यस्य भक्तिः सदाशिवे ॥ २५४॥
ये शम्भुं सुरसत्तमं सुरगणैराराध्यमीशं शिवं
शैलाधीशसुतासमेतममलं सम्पूजयन्त्यादरात् ।
ते धन्याः शिवपादपूजनपरा ह्यन्यो न धन्यो जनः ।
सत्यं सत्यमिहोच्यते मुनिवराः सत्यं पुनः सर्वथा ॥ २५५॥
॥ इति शिवरहस्यान्तर्गते सूतप्रोक्ता शिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः १ । २४९-२५५॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 1 . 249-255..
Proofread by Ruma Dewan