सूतप्रोक्तं शिवरहस्यकथाश्रवणोपदेशम्
(शिवरहस्यान्तर्गते उग्राख्ये)
सूतः (उवाच)
सकलभुवनदेवं देवतासार्वभौमं
विविधनिगमवेद्यं ब्रह्मविष्ण्वादिवन्द्यम् ।
भजत मुहुरनन्तं शम्भुमाद्यन्तशून्यं
शुभदमनिशमीशं सावधानेन विप्राः ॥ ७८३॥
पिबत शैवरहस्यरसं भृशं (रसोज्ज्वलं)
शिवरहस्यकथारसमुत्तमम् ।
भजत शङ्करमेव सदा मुदा
लभत मुक्तिमुमापतिसेवया ॥ ७८४॥
चन्द्रचूडचरणौ रमणीयौ
मुक्तिबीजकरणौ वरणीयौ ।
भूरिपुण्यगुणवद्गणनीयौ
आदरादहरहः स्मरणीयौ ॥ ७८५॥
॥ इति शिवरहस्यान्तर्गते सूतप्रोक्तं शिवरहस्यकथाश्रवणोपदेशं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २९ शिवगौरीसंवादे काशीप्रभावकथनम् । ७८३-७८५॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 29 shivagaurIsaMvAde kAshIprabhAvakathanam . 783-785..
Notes:
Sūta सूत, gives concluding Upadeśa उपदेश about merits of worshiping Śiva शिव and imbibing the Nectar of ŚivaRahasyam शिवरहस्यरसम्.
Proofread by Ruma Dewan