ऋषि अगस्त्यप्रोक्तं संसारतरणोपायार्थ शिवार्चनोपदेशम्
(शिवरहस्यान्तर्गते उग्राख्ये)
अगस्त्यः (उवाच)
संसारतरणोपायः पार्वतीवल्लभः प्रभुः ।
तत्र यो नियतस्तेन तीर्णः संसारसागरः ॥ ११९॥
शिवार्चनं विना नान्यद्घोरसंसारतारकम् ।
तस्माच्छिवार्चनं कार्य घोरसंसारनाशकम् ॥ १२०॥
उमाकान्तार्चनं विप्राः संसारविषभेजम् ।
तद्भेषजं न यस्यास्ति स संसारविषाप्लुतः ॥ १२१॥
शिवाऽनाराधनाज्जाताः सर्वे संसारिणो द्विजाः ।
तिष्ठन्त्यपि भविष्यन्ति बहवः प्रतिजन्मनि ॥ १२२॥
शिवाराधनमात्रेण घोरः संसारसागरः ।
शुष्को भवति विप्रेन्द्राः सत्यं सत्यं न संशयः ॥ १२३॥
यथा सर्पविषग्रस्ता म्रियन्ते भेषजं विना ।
संसारसागरो नाम दुःखसागर उच्यते ॥ १२४॥
तदब्धौ च पतन्त्येव सन्त्यक्तशिवपूजनाः । १२४.१
॥ इति शिवरहस्यान्तर्गते ऋषि अगस्त्यप्रोक्तं संसारतरणोपायार्थ शिवार्चनोपदेशं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २५। ११९-१२४.१॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 25 . 119-124.1..
Proofread by Ruma Dewan