संवर्तप्रोक्तं शिवस्तोत्रम्
तस्मै भगवते कृत्वा नमः शर्वाय वेधसे ।
रुद्राय शितिकण्ठाय सुरूपाय सुवर्चसे ॥ १२॥
कपर्दिने करालाय हर्यक्ष्णे वरदाय च ।
त्र्यक्ष्णे पूष्णो दन्तभिदे वामनाय शिवाय च ॥ १३॥
याम्यायाव्यक्तकेशाय सद्वृत्ते शङ्कराय च ।
क्षेम्याय हरिनेत्राय स्थाणवे पुरुषाय च ॥ १४॥
हरिकेशाय मुण्डाय कृशायोत्तारणाय च ।
भास्कराय सुतीर्थाय देवदेवाय रंहसे ॥ १५॥
उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे ।
गिरिशाय प्रशान्ताय यतये चीरवाससे ॥ १६॥
बिल्वदण्डाय सिद्धाय सर्वदण्डधराय च ।
मृगव्याधाय महते धन्विनेऽथ भवाय च ॥ १७॥
वराय सौम्यवक्त्राय पशुहस्ताय वर्षिणे ।
हिरण्यबाहवे राजन्नुग्राय पतये दिशाम् ॥ १८॥
पशूनां पतये चैव भूतानां पतये तथा ।
वृषाय मातृभक्ताय सेनान्ये मध्यमाय च ॥ १९॥
स्रुवहस्ताय पतये धन्विने भार्गवाय च ।
अजाय कृष्णनेत्राय विरूपाक्षाय चैव ह ॥ २०॥
तीक्ष्णदंष्ट्राय तीक्ष्णाय वैश्वानरमुखाय च ।
महाद्युतयेऽनङ्गाय सर्वाङ्गाय प्रजावते ॥ २१॥
तथा शुक्राधिपतये पृथवे कृत्तिवाससे ।
कपालमालिने नित्यं सुवर्णमुकुटाय च ॥ २२॥
महादेवाय कृष्णाय त्र्यम्बकायानघाय च ।
क्रोधनाय नृशंसाय मृदवे बाहुशालिने ॥ २३॥
दण्डिने तप्ततपसे तथैव क्रूरकर्मणे ।
सहस्रशिरसे चैव सहस्रचरणाय च ॥ २४॥
नमः स्वधास्वरूपाय बहुरूपाय दंष्ट्रिणे ॥ २४॥
पिनाकिनं महादेवं महायोगिनमव्ययम् ।
त्रिशूलपाणिं वरदं त्र्यम्बकं भुवनेश्वरम् ॥ २५॥
त्रिपुरघ्नं त्रिनयनं त्रिलोकेशं महौजसम् ।
प्रभवं सर्वभूतानां धारणं धरणीधरम् ॥ २६॥
ईशानं शङ्करं सर्वं शिवं विश्वेश्वरं भवम् ।
उमापतिं पशुपतिं विश्वरूपं महेश्वरम् ॥ २७॥
विरूपाक्षं दशभुजं तिष्यगोवृषभध्वजम् ।
उग्रं स्थाणुं शिवं घोरं शर्वं गौरीशमीश्वरम् ॥ २८॥
शितिकण्ठमजं शुक्रं पृथुं पृथुहरं हरम् ।
विश्वरूपं विरूपाक्षं बहुरूपमुमापतिम् ॥ २९॥
प्रणम्य शिरसा देवमनङ्गाङ्गहरं हरम् ।
शरण्यं शरणं याहि महादेवं चतुर्मुखम् ॥ ३०॥
एवं कृत्वा नमस्तस्मै महादेवाय रंहसे ।
महात्मने क्षितिपते तत्सुवर्णमवाप्स्यसि ॥ ३१॥
सुवर्णमाहरिष्यन्तस्तत्र गच्छन्तु ते नराः ॥ ३१॥
इति महाभारते आश्वमेधिकपर्वणि ८ अध्यायान्तर्गतं
संवर्तप्रोक्तं शिवस्तोत्रं
महाभारत । आश्वपर्व । अध्याय ८/१२-३०॥
mahAbhArata . Ashvaparva . adhyAya 8/12-30..
Proofread by PSA Easwaran