श्रीसभानाथ पञ्चरत्नस्तोत्रम्
वन्दे चन्द्रकलाधरं मृगधरं वन्दे जगत्पालकं
वन्दे कुञ्चितपादमीशमनिशं वन्दे पुरद्वेषिणम् ।
वन्दे हेमसभापतिं नटपतिं वन्दे कृपाम्भोनिधिं
वन्देऽहं शिवकामिनीसहचरं वन्दे सभानायकम् ॥ १॥
वन्दे चन्द्रदिनेशवह्निनयनं वन्देऽतिसौम्याकृतिं
वन्दे निर्मलमप्रमेयमतुलं वन्दे शिवं शूलिनम् ।
वन्दे पर्वतपुत्रिकार्द्धवपुषं वन्दे सुमन्दस्मितं
वन्देऽहं शिवकामिनीसहचरं वन्दे सभानायकम् ॥ २॥
वन्दे भस्मविभूषितं भयहरं वन्देऽहमानन्ददं
वन्दे शैवसुमन्त्रराजनिलयं वन्दे गुरूणां गुरुम् ।
वन्दे षण्मुखविघ्नराजजनकं वन्दे परं व्योमगं
वन्देऽहं शिवकामिनीसहचरं वन्दे सभानायकम् ॥ ३॥
वन्दे भूतगणाधिपं शशिनिभं वन्दे पशूनां पतिं
वन्दे भक्तसुरद्रुमं च वरदं वन्दे मुरारीडितम् ।
वन्दे तिल्लवनेश्वरं शिवकरं वन्दे भवोत्तारकं
वन्देऽहं शिवकामिनीसहचरं वन्दे सभानायकम् ॥ ४॥
वन्दे पाशविमोचकं स्मरहरं वन्दे यमस्यान्तकं
वन्दे दिव्यमहोक्षगं गुणनिधिं वन्दे मखाधीश्वरम् ।
वन्दे तं निगमागमैरभिनुतं वन्दे मृडं शङ्करम्
वन्देऽहं शिवकामिनीसहचरं वन्दे सभानायकम् ॥ ५॥
इति श्रीसभानाथ पञ्चरत्नस्तोत्रं सम्पूर्णम् ।
Composed, encoded, and proofread by
(Copyright) Raghava Deekshithar N sivathmika.puliyur at gmail.com