श्रीसभापतिस्तोत्रम्
ॐ श्रीगणेशाय नमः ।
यत्कारुण्यकटाक्षवीक्षणमहो जन्मादिदुःखापहं
यत्पादाम्बुजसेवनं तनुभृतां स्वात्मावबोधाङ्कुरं
यन्नामस्मरणं कृतान्तपरिहृत् संसारिणां तारकं
तं वन्दे गिरिजासहायममलं श्रीचित्सभानायकम् ॥ १॥
लोकानाहूय सर्वान् डमरुकनिनदैर्घोरसंसारमग्नान्
दत्त्वाभीतिं दयालुः प्रणतभयहरं कुञ्चितं पादपद्मम् ।
उद्धृत्येदं विमुक्तेरयनमिति कराद् दर्शयन् प्रत्ययार्थं
बिभ्रद् वह्निं समायां कलयति नटनं यः स पायाच्छिवो नः ॥ २॥
न परं पुरमस्ति पौण्डरीकाच्छिवगङ्गासदृशी न कापि सिन्धुः ।
अपि हेमसभानिभा न गोष्ठी नटराजादधिको न कोऽपि देवः ॥ ३॥
घिभूतेरणुमात्रेण त्रिकालमनुलेपनम् ।
रोम रोम भवेल्लिङ्गं तच्छरीरं शिवालयम् ॥ ४॥
आर्द्रायामरुणोदयस्य समये चापे च लग्ने युते
पर्वं युक्तमयुक्तमेव नटनं सृष्ट्यादिमष्टोत्तरं (?) ।
........................
देवैर्दानवमानुषाः सहगणाः संसेव्य मुक्तिप्रदम् ॥ ५॥
तेजो रौद्रमिदं शिवेन जगतो रक्षार्थमुत्पादितं
भूतप्रेतपिशाचरोगशमनं कालाग्निरुद्रात् स्वयम् ।
इष्टार्थप्रदमिष्टलोकगतिकृत् सिद्धयष्टकापादनं
भस्मेदं यदि निर्मलं गुरुकृपालब्धं सदा रक्षतु ॥ ६॥
शिवाच्युतभगे ऋक्षे चापमेषयुगे रवौ ।
कन्याकुम्भचतुर्दश्यां सिते स्नानं सभापतेः ॥ ७॥
धन्या केयं स्थिता ते शिरसि शशिकला किं नु नामैतदस्या
नामैवास्यास्तदेतत् परिचितमपि ते विस्मृतं कस्य हेतोः ।
नारीं पृच्छामि नेन्दुं कथयतु विजया न प्रमाणं यदीन्दु-
र्देव्या निह्नोतुमिच्छोरिति सुरसरितं शाठ्यमव्याद् विभोर्वः ॥ ८॥
भगवन् भूतभव्येश न जाने हितमात्मनः ।
त्वमेव सञ्चिन्त्य विभो हितं मे दातुमर्हसि ॥ ९॥
इति श्रीसभापतिस्तोत्रं समाप्तम् ।
This stotra seems to be a collection of stray
verses connected with Shri Nataraja at Chidambaram.
The 8th verse is the nandIshloka of the mudrArAkShasa.
(४७)
Proofread by Sivakumar Thyagarajan Iyer