महानिर्वाणतन्त्रे सदाशिवध्यानं २
ध्यायेत्सदाशिवं शान्तं चन्द्रकोटिसमप्रभम् ॥ १।२॥
व्याघ्रचर्मपरीधानं नागयज्ञोपवीतिनम् ।
विभूतिलिप्तसर्वाङ्गं नागालङ्कारभूषितम् ॥ २॥
धूम्रपीतारुणश्वेतरक्तैः पञ्चभिराननैः ।
युक्तं त्रिनयनं बिभ्रज्जटाजूटधरं विभुम् ॥ ३॥
गङ्गाधरं दशभुजं शशिशोभितमस्तकम् ।
कपालं पावकं पाशं पिनाकं परशुं करैः ॥ ४॥
वामैर्द्दधानं दक्षैश्च शूलं वज्राङ्कुशं शरम् ।
वरञ्च बिभ्रतं सर्व्वैर्द्देवैर्मुनिवरैः स्तुतम् ॥ ५॥
परमानन्दसन्दोहोल्लसत्कुटिललोचनम् ।
हिमकुन्देन्दुसङ्काशं वृषासनविराजितम् ॥ ६॥
परितः सिद्धगन्धर्वैरप्सरोभिरहर्निशम् ।
गीयमानमुमाकान्तमेकान्तशरणप्रियम् ॥ ७॥
॥ इति महानिर्वाणतन्त्रे सदाशिवध्यानं सम्पूर्णम् ॥
- ॥ महानिर्वाणतन्त्रम् । १४। ३२.२-३८ ॥
- .. mahAnirvANatantram . 14. 32.2-38 ..
Encoded and proofread by Ruma Dewan