सदाशिवप्रोक्तं कुम्भघोणक्षेत्रवर्णनम्
(शिवरहस्यान्तर्गते उग्राख्ये)
- शिवपार्वतीसंवादे -
श्रीसदाशिवः
कुम्भघोणाभिधं क्षेत्रमेकमस्ति वरानने ।
तत्क्षेत्रे जन्ममात्रेण मुक्तिर्भवति शाश्वती ॥ १॥
तत्र सन्ति महाशैवाः कोटिशः कमलानने ।
ते सर्वे सर्वभावेन सर्वदा मदुपासकाः ॥ २॥
उद्धूल्य भस्मना ते तु सर्वेऽप्यापादमस्तकम् ।
रुद्राक्षधारणं कृत्वा पूजयन्त्यनिशं च माम् ॥ ३॥
सदाशिवेश शर्वेति शङ्करेति वदन्ति ते ।
मन्नाम्ना चिह्निताः सर्वे सर्वेमद्रूपचिन्तकाः ॥ ४॥
अनन्यशरणास्ते तु मदेकशरणाः शिवे ।
मन्नामजपसंसक्ता मच्चिन्ता मद्गतासवः ॥ ५॥
कुम्भघोणा(कुम्भेश्वरा)भिधं लिङ्गं तत्र तिष्ठति शोभने ।
तत्पूजामतियत्नेन ते कुर्वन्ति मदर्चकाः ॥ ६॥
सार्द्रा पादान्विता भूता यदा भवति शोभने ।
तदा तल्लिङ्गपूजा या सा मुक्तिं सम्प्रयच्छति ॥ ७॥
तदा सम्पूजिते लिङ्गे कुम्भघोणेश्वराभिधे ।
सर्वान्कामानेकदैव प्राप्नुवन्ति शुभानने ॥ ८॥
॥ इति शिवरहस्यान्तर्गते सदाशिवप्रोक्तं कुम्भघोणक्षेत्रवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २६ कुम्भघोणमहिमानुवर्णनम् । १-८॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 26 kumbhaghoNamahimAnuvarNanam . 1-8..
Notes:
Śiva शिव describes to Pārvatī पार्वती about the Kumbhaghoṇaṃ / Kumbheśvara Śivakṣetra कुम्भघोणं / कुम्भेश्वर शिवक्षेत्र, and the merits of worshiping Him there at Kumbhaghoṇeśvara Liṅgam कुम्भघोणेश्वर लिङ्गम्.
Proofread by Ruma Dewan