श्रीसदाशिवस्तवनम्
शिवं शङ्करं ध्यानगम्यं महेशं
चलत्कुण्डलं शेषनागाङ्कितं तम् ।
जटाजूटमध्ये लसत्वारिगाङ्गं
ललाटेऽर्धचन्द्रं दधानं नमामि ॥ १॥
त्रिनेत्रं सुवक्त्रं गले मुण्डमालं
त्रिपुण्ड्रं च भाले सुरेखाङ्किताहि ।
चतुर्दिक प्रकाशं रविकोटिभासं
भयं हारिणन्तं नमामि महेशम् ॥ २॥
जगज्जालसंहारकं तं सुवेषं
प्रचण्डाट्टहासं प्रकुर्वन्सुनृत्यन् ।
सुढक्कां नन्दतं जटा विस्फुरन्तं
विभुमेकशेषं महेशं नमामि ॥ ३॥
गले नीलवर्ण कपाले सुगङ्गां
तरङ्गावली शोभितां शुक्लवर्णाम् ।
दधानैकदेवं भुवनैकबन्धुं
नटानां सुराजान्नमामि महेशम् ॥ ४॥
सुमुद्रादधानं समाधौ सुध्यानं
सुधासिन्धुमध्येनिमग्नं सदात्वम् ।
सदानिर्विकल्पं चिदानन्दरूपं
महेशं महादेव देवं नमामि ॥ ५॥
शिवं शङ्करं शूलपाणिं वरेण्यं
मृडं धूर्जटिं सर्वदुःखापहारिम् ।
जगत्पूजनीयं प्रशान्तं प्रसन्नं
नमोऽस्तु महेशं सुमुक्ति प्रदन्तम् ॥ ६॥
महेशं सुरेशं वृषेशं परेशं
गणेशेश देवं फणीन्द्रैकमीशम् ।
गजेन्द्रस्य चर्माम्बरं शोभिताङ्गं
भवानीपतिन्त्वां भजेशान्तमूर्तिम् ॥ ७॥
शिवं शान्तिदं ज्ञानराशिं महेशं
जटाजूटकं शैलदेशेवसन्तम् ।
फणीन्द्रैर्सदास्वाङ्गकं लाञ्छितं तं
करे शूलढक्कां सुसेविं नमामि ॥ ८॥
स्वधामेवसन्तमखण्डैकरूपं
त्रिनेत्रैर्क दिव्यंसुगाम्भीर्यसिन्धुम् ।
ललाटं सुभव्यं त्रिपुण्ड्रं पवित्रं
प्रशान्तं समुद्रं निधानं सुज्ञानम् ॥ ९॥
विभुं विश्ववन्द्यं शिवं शम्भुमेकं
सुशान्तं सुधानन्ददं लोकपूज्यम् ।
महेशं वरेण्यं शरण्यं च लोकं
सदा शान्तिदन्तं नमामीशमीड्यम् ॥ १०॥
सदात्वं सुपूज्यं प्रशान्तं स्वरूपं
समाधौ सदात्वं सुलग्नं प्रसन्नम् ।
पराम्बा भवानी सुसेवा परावा
भजन्तं सदात्वां कृतार्थाभवित्री ॥ ११॥
त्रिनेत्रैर्लसन्तं जटा विद्धूनन्तं
सुनग्नं शरीरेविभूतिः लसन्तम् ।
सुभालं लसन्तं चतुर्दिक्भ्रमन्तं
प्रचण्डाट्टहासं हसन्तं वसन्तम् ॥ १२॥
नमामि महेशं शिवं विश्ववन्द्यम् ॥
शिवं शूलपाणिं विभुं चन्द्रमौलिं
महादेवदेवं प्रभुं शान्तमूर्तिम् ।
प्रसन्नाननं शुभ्रवर्णं वरेण्यं
नमामि महेशं सदा शान्तमूर्तिम् ॥ १३॥
गिरीशं महेशं विभुमम्बिकेशं
गणेशैकमीशं शिवं कार्तिकेशम् ।
वृषस्यैकमीशमहीन्द्रैकमीशं
महेशं सुपूज्यं नमामि सदात्वम् ॥ १४॥
शशीखण्डमौलिः शशीभासभालं
शशीकोटिवक्त्रं शशीकाशदेहम् ।
स्वयं गौरदेहं सुगौरीश शम्भुं
सुगौरंवृषन्तं सुरूढं नमामि ॥ १५॥
गले नीलीमाभं शिवं शुक्लवर्णं
सदात्वामुदासीन वृतिप्रियोडसि ।
विभूतिं सदात्वं निजाङ्गे दधासि
परिधानमेकं सुव्याघ्राम्बरञ्च ॥ १६॥
सदानिर्विकल्पो समाधिस्थदेहो
सुमाङ्गल्यध्यानं सुमुद्रादधासि ।
सदाज्ञानराशिं सदानन्दराशिं
नमामि महेशं सदा काशीवासीम् ॥ १७॥
विश्वेश्वरो माधव ढुण्ढिराजः
काशीगुहां जाह्नवीभैरवश्च ।
सदण्डपाणिं मणिकर्णिकायै
वन्दे सदाशङ्करमम्बिकाञ्च ॥ १८॥
इति श्री स्वामी उमेश्वरानन्दतीर्थविरचितं श्रीशिवस्तोत्रं सम्पूर्णम् ।
Proofread by Paresh Panditrao