श्रीसदाशिवेन्द्रस्तोत्रम्
%२७
स्वानन्दरसोन्मत्तः स्वाङ्गं विस्मृत्य यो नरो नर्ति ।
स यतिः सदाशिवेन्द्रो विदेहमुक्तिस्थितौ वरीवर्ती ॥ १॥
सदाशिवाभाषणमन्यवीक्षया सदाशिवाचारमचिन्त्यदीक्षया ।
सदाशिवाभं प्रणमामि सद्गतिं सदाशिवायेन्द्रसरस्वतीयतिम् ॥ २॥
भूत्या छन्नो जातवेदा इवाष्टभूत्या
छन्नो योऽपि चोन्मत्तचेष्टः ।
काष्ठां काश्चित् प्राप्य रेमे स्वतन्त्रः
काष्ठा काचिद्या विमुक्तेरमन्त्रतः ॥ ३॥
मुक्त्याश्लिष्टो भाति बाहूपधानः क्ष्मातल्पोऽसौ दिक्पटः सावधानः ।
धाम्नि स्वीये योगविच्चक्रवर्ती जूर्तिघ्नो दिक्शालिनी यस्य कीर्तिः ॥ ४॥
नग्नं दृष्ट्वा निजदयितया नोदितो म्लेच्छ एतं
शान्तं दान्तं प्रसभमसिनाऽहन् विव्यथे न ।
कृत्तांसोऽपि व्यथितमनसे सैनसे भग्नबाहुं
मन्दाक्रान्तान्वयनगतयेऽदर्शयत् पूर्व आहुः ॥ ५॥
म्लेच्छो विरक्तः शरणं जगाम न्यूनोऽप्यनुग्राह्य उतापि तामसः ।
इत्थं विचार्यावददे परेऽन्त्यज श्रद्धस्व नित्यं हृदयेप्सितं त्यज ॥ ६॥
तथेति कत्राणमपास्य सोऽनमत्तथाचरन् सोऽपि गतिं बतागमत् ।
यदा कुवंशस्थनरोऽप्यगाद्गतिं तदा सुवंशस्थ इयान्न किं गतिम् ॥ ७॥
ईदृक्प्रभावोऽत्र सदाशिवेन्द्रो जागत्र्यतोऽत्रापि शिवोऽप्युपेन्द्रः ।
विशुद्धसत्त्वं ननु भूतिकाम आत्मज्ञमर्चेत्तमु मुक्तिकामः ॥ ८॥
नामादिभिः परतरं भूमानं यो निरन्तरम् ।
अभेदेनाप स ब्रह्म न ब्रह्मज्ञः श्रुतीरणात् ॥ ९॥
चक्रे वदेत्तं किमु वासुदेवः आत्मज्ञमित्यादृत साधुभावः ॥ १०॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीसदाशिवेन्द्रस्तोत्रं सम्पूर्णम् ।