सप्तस्थान चूर्णिका
ॐ श्रीगणेशाय नमः ।
अस्ति खलु सप्तसागरसप्तकुलाचलसप्तद्वीपपरिमण्डिते भूमण्डले
पञ्चाशत्कोटियोजनविस्तीर्णे जम्बूद्वीपो रत्नद्वीपः ।
तत्रात्युत्तमाः षट्पञ्चाशद् देशाः ।
तेष्वपि अनेककोटिसुरालयभूसुरालयमण्डितश्चोलदेशः ।
तस्मिन्नपि अपरिमितहरिहरालयविबुधकोटिसङ्कीर्णसह्यजातीरस्थलानि सर्वोत्तमानि ।
तेष्वपि एतावत्त्वरहितवैभवं साक्षाद्दाक्षायणीपतिनिवासभूतं सहस्रवदनेनापि सहस्रकोटियुगैरपि वर्णितुमशक्यमवाङ्मनसगोचरमत्यद्भुतवैभवमनाद्यं किञ्चिदस्ति स्थलम् ।
तस्मिन् वृन्दारकपतिनन्दनवनशोभिमन्दारमुखवृन्दारकतरुसन्दोहसन्देहकरमाकन्दकुन्दतिन्दुकचन्दनचम्पकचाम्पेयपनसपाटलप्रियालहिन्तालतालतमालकृतमालनक्तमालतक्कोलरसालवकुलसरलतिलकामलकजम्बुजम्बीरखर्जूरनालिकेरदाडिमद्राक्षानारङ्गबदरीबि ल्वकपित्थकदलीपटलजटिलघटविटपुटतटकुटजलिकुचपलाशचिलपुन्नागनागकिंशुक बन्धूकच्छायकजीवकाशोकहिन्दूककेतकरसपूर्णगन्धपूर्णिमुचुकुन्दरसगन्धघनबृन्दपुलिन्दवकुलवञ्जुलकरलकोमलस्फूर्जविस्फूर्जविदारकोविदारकूर्मारमन्दारतुम्बीरार्जुन
तर्जनविकर्जनकदम्बकादम्बहेरम्बविलम्बतुम्बकुरुम्बाश्वकर्णगोवर्णगोकर्णगोचूर्णघनसविघसवरुणतरुणतरङ्गविचुलिङ्गविबधवनयक्षफलयक्षधवसूधवमाधवमरुधवपुरीधव सिन्धूपनिक्षीपदीपनीपप्रदीपभूपगोपोपकूपवित्पलतित्पलमरुत्पलवीरवीरवसुवीरफलपूरबीजपूरकन्दसारतिन्त्रणघन्त्रणयन्त्रणबोधसम्बोधन्यग्रोधहिम्बुमल्लीमतल्लीबल्लीवीरवल्लीवसन्तीवासन्तीजीवन्तीजवन्तीजातीहेमजतीविदूतीविशालीवेशालीतुलसीकुमुदोत्पलनीलोत्पलमालतीमाधवीमधुकरपङ्कजपारिजातप्रमुखनिखिलभूरुहलतामण्डलनिरन्तरदलकुसुमफलभरितविटपावृतोद्यानसुशोभिते,
कृतपातकपामरजनपावनकरणनिपुणकावेरीशीतलजलस्पृष्टमन्दमलयमारुतसम्पर्कविकसितकेतकीचम्पकमल्लिकादिकुसुमघुमुवुमितवासनानन्तभरितविबुधनिकरे, अखिलप्रपञ्चस्थलसञ्चारापूरणमनोरथचन्द्रशेखरचरणारविन्दमकरन्दनिश्चञ्चलचञ्चरीकायमानविरिञ्चतनयादिमुनिसञ्चयतपःसञ्चयसिद्धिप्रदे मुक्तिप्रदे, नित्योत्सवपक्षोत्सवमासोत्सवसंवत्सरोत्सवरथोत्सवडोलोत्सववसन्तोत्सवपुप्योत्सवपुष्पोत्सवप्रजो?(प्लवे)त्सवविजयोत्सवमहोत्सवमहावैभवे,
चैत्रोत्सवपञ्चमदिनकृतात्मपूजानन्दभरितमहेश्वरवृषभवाहनमहरथोत्सवसन्दर्शनागतसप्तस्थलदेवतागणसुरगणमुनिगणनिबिडीभूतनृत्तगीतवाद्यसङ्गीतसङ्घोषसन्तोषितचतुर्वर्णजनकोटिसंसेविन्ते प्रपञ्चसंरक्षण दीक्षिते शकृतपञ्चाक्षरतारकमन्त्रोपदेशपञ्चशरारिशरीरदायके पञ्चनदस्थले यो देवः सकलकोटिदेवेषु महादेव इति सकलकोटिविबुधैः सततं सम्पूज्यते स भगवान् धर्मसंवर्धनीशः जगदीशः,
चन्द्रामृतसूर्यपुष्करणीजलजटामण्डलस्थगङ्गातोयगिरिजापयोधरक्षीरवृषभफेनपञ्चनदीपतिः पशुपतिः विशिष्टमहामुनिवरिष्ठवसिष्ठभगिनीविवाहमहोत्सवसन्तोषितनन्दिकेश्वरसमेतः गिरिजासमेतः सप्तस्थलप्रदक्षिणागमनस (द) हृदयः सदयः सुरथमहीपतिमनोरथपूरणसन्दर्शितदक्षिणोत्तरकैलास (भण्ड) भर्मनिर्मितप्राकारगोपुरविमानगर्भगृहार्धमण्टपमहामण्टपस्नपनमण्टपपुजामण्टपपुण्यमण्टपनृत्तमण्टपनाट्यमण्ट्पसोपानप्रदक्षिणमण्टपपाश्चमेधप्रदक्षिणमण्टपजपतपः
सिद्धिकरजप्येश्वरमण्टपशान्तमण्टपदान्तमण्टपवसन्तमण्टपोद्यानमण्टपश्रीविलासमण्टपश्रीचूर्णमण्टपकृष्णगन्धमण्टपपारार्तिकमण्टपकौतुकभूकृत(मत) मण्टपवेदशास्त्रसर्वपुरणव्यवहारमण्टपहरिब्रह्मेन्द्रादिसमूहमण्टपाष्टादशवाद्यघोषमण्टपरत्नमण्टपपुष्पसुगन्धपरिमलविलासमण्टपधर्मसंवर्धनीसकलभोगभोभ्यमण्टपविचित्रचित्राङ्कितमण्टपोपमण्टपमहामण्टपचतुःस्तम्भमण्टपषोडशस्तम्भमण्टपशतस्तम्भमण्टपसहस्रस्तम्भमण्टपानेकस्तम्भमण्टपादिमण्टपविराजितमहालयविनिर्गतः,
अतिधवलितवुमुबुमायमाननवकोटिमल्लिकाहारमुक्ताहारमुकुरवरनिकरसिंहमुखशरभमुखकनकदण्डमण्डितनवरत्नमणिखचिततप्तकाञ्चनशिबिकासुस्थितः मुनिहृदि स्थितः, अपहसितचन्द्रमण्डलश्वेतच्छत्रोभयचामरवालव्यजनपताकादिसकलबिरुदादिविराजमानः सकलविबुधसंस्तूयमानः भेरीमृदङ्गमद्दलतालकाहलदुन्दुभितूर्यतुम्बुरुवीणावेणुनू पुरमड्डुकडिण्डिमडमरुकजर्झरधवलशङ्खपणवपटहाष्टादशवाद्यघोषसमेतशब्दायमानसकलदिगन्तरः
नानाविधवर्णसुवर्णपुष्पस्तबककोटिन्देदीप्यमानमलयचन्दनागरुगुग्गुलुगोघृतघनसारधूपवर्तिदिव्यपरिमलवासनादिघुमुघुमायमानसकललोकः संरक्षितसकललोकः हाटककटककेयूरनूपुरहारविराजितकलेबरः कटितटसुघटितहेमाम्बरः चण्डकिरणमण्डलरुचिषण्डकखण्डकमणिखचितमुकुटमण्डितशशिखण्डः रत्नकुण्डलशोभितगण्डः ताराधिपसेवारतमुक्ताहारायिततारालिविराजितः मारायुतकोटिसुकुमाराकृतिः मारारातिः शरणागतशतकोटिजनशतकोटिपापगिरिशतकोटिः धूर्जटिः
सप्तस्थलप्रदक्षिणविचक्षणपदक्रमश्रुतिस्मृतिसुलक्षणलक्षकोटिब्राह्मणोत्तमकृतवेदपारायणश्रवणपरमानन्दभरितः गानविशारदनारदसन्निभपरमभागवतोत्तमकृतदिव्यनामसङ्कीर्तनश्रवणहर्षपुलकाङ्कितदेहः धर्मसंवर्धनीविलसदर्धदेहः भक्तापदन्धतमःसप्ताश्वबृहदम्बासहित-आपत्सहायेश्वराभ्यागमनसम्मानसम्पूजितः श्रीप्रयाणस्थलनिकटघटितपटहभेरीवाद्यडमडमध्वनिश्रवणससम्भ्रमसन्दर्शनाय समुस्थितदिवाकरः
करुणाकरः अनेककोटिभूसुरवरान्नदाननिपुण-असदृशनायकीसहितओदनेश्वर प्रत्युत्थान बहुमानसम्पूजितः चतुर्वेदोद्धारण निपुण मङ्गलनायकीसहितवेदपुरीश्वरसपर्यासम्मोदितमानसः मुनिजननिहितमानसः अखिलभूसुरवराद्यनेककोटिभक्तजनसूर्यातपपरिश्रमापनोदनकामो भक्तपराधीनः चराचरप्रपञ्चनिर्माणचतुरचतुराननशिरःखण्डनपण्डित मङ्गलनायकीसहितखण्डीश्वरालयस्थः
एलोशीरलवङ्गसंवासितबहुशीतलस्वच्छजलशुण्ठीरामठसैन्धवजम्बीरफलसारबहुरुचिरतक्रशर्करामिश्रितगोघृतसंसिक्तपृथुकपानकपादुकाव्यजनच्छत्रमुद्गखण्ड चणकखण्डखण्डशर्करापनसचूतकपित्थकदलीफलपटलीप्रदानसुगन्धचन्दनालेपमल्लिकाहारपुष्पपरिशोभितकण्ठ परमसन्तुष्टब्राह्मणकोटिसमीरितवेदघोषायमाणखण्डीश्वरालयः करुणालयः सुरवरमुनिवरभूसुरवरदायकत्रिपुरसंहारविशारद
सौन्दर्यनायकीसहित पुष्पवनेश्वरपुष्यमण्टपस्थः उभयकावेरीमध्यप्रदेशानन्दकरमन्दगमनसन्दर्शनागतब्रह्मऋषिदेवऋषियक्षगन्धर्वकिन्नरकिम्पुरुषसिद्धसाध्योरगभक्तजनसुरकोटिभूसुरवरकोटिभासुरमुनिकोटिघृतस्थानेशनिकटकावेरीमध्यप्रदेशः गौरीशः मरतकमणिखचिन्तकनकशिबिकामकुटकुण्डलकटकभासापहृतसकलतेजोजातपरिभवासहमानकोपारुणवर्णपश्चिमसागरपतत्पतङ्गः कोमलाङ्गः
अर्धास्तमनसमयकृतसन्ध्यावन्दनोपस्थानजपहोमवेदपारायणबहुनिपुणभूसुरपरिश्रमापनोदनाय फालाक्षानलदग्धमदनबालाम्बिकासहितघृतस्थानेश्वरसुखस्थलालयस्थः समकालसमुद्यत्कोटिसूर्यसमानसहस्रकोटिदीपपङ्क्तिदीपवृक्षदीपरत्नदीपरथदीपनानाविधवह्नियन्त्रकोटिदेदीप्यमानमहामार्गप्रदेशमन्दगमनमन्दहासभरितः सकलवाद्यसङ्गीतसङ्घोषसन्तोषित चतुर्वर्णजनकोटिसंसेवितः
अम्भोजसम्भवसुरसम्भ्रमकाङ्क्षितशातकुम्भकुम्भकुचकुम्भसम्भासितरम्भादिसुरतरुणिकृतरमणीयनाट्यविराजितचतुर्वीथीमार्गः भक्तसन्दर्शितसन्मार्गः निटिलतटलसितसितविभूतिजटिलघटतनयमुखमुनिपटलपटुतरसुरयोगिबृन्दवन्दितदिव्यश्रीचरणारविन्दः सुन्दरसोमास्कन्दमूर्तिः प्रणतार्तिहरविख्यातकीर्तिः करुणामूर्तिः श्रीसाम्बमूर्तिः पञ्चमहापातकेभपञ्चाननपञ्चनदस्थलालयान्तः प्रविष्टः कर्पूरनीराजनविराजमानकर्पूरगौरशरीरसन्दर्शनायातसकलकोटि भक्तजनाभीष्टः सकलदेववरिष्ठः सकलजगदीशः धर्मसंवर्धनीशः मम हृदन्तरे निरन्तरं निवसन् पातु मां पातु मां पञ्चनदीशः ।
इति श्रीसप्तस्थानचर्णिका समाप्ता ।
This chUrNikA is an eulogy on Shri pa~nchApagesha at tiruvaiyyAru on the occasion of the saptasthAna festival. The names of the sapta-sthAna-s
(seven shrines within a mile from each), the deities and their consorts referred to in the text are
(१) तिरुवय्यारु (श्री-पञ्चनाद) - प्रनतार्तिहर - ढर्मसंवर्धनि ॥
(२) तिरुप्पयनम्(श्री-प्रयाण) - आपत्सहायेश्वर-बृहदम्बा ।
(३) तिरुशोर्रुत्तुरै(श्री-ओदनेश्वर) - ओदनेश्वर- आसद्र्शनायकी ।
(४) तिरुवेदकुद्(ट्)ई(श्री-वेदकुटी)-वेदपुरीश्वर- मंगळनायकी ।
(५) तिरुक्कन्दियूर् (श्री-खन्दीश्वर) -(ब्रह्मशिरह्-) खन्दीश्वर-मंगळाम्बिका ओर् मंगळनायकी ॥
(६) तिरुप्पून्तुरुत्ति (श्री-पुष्पवन) - पुष्पवनेश्वर- सौन्दरनायकी
(७) तिरुनैत्तानं (श्री-घृतस्थान) - घृतस्थानेश्वर - बालाम्बिका।
(४६)
Proofread by Sivakumar Thyagarajan Iyer