सतीकृतं रुद्रस्तवः

सतीकृतं रुद्रस्तवः

(शिवरहस्यान्तर्गते ईशाख्ये) मेघस्य पतिरीशानो राजा चाप्यध्वरस्य सः । तस्मादौपसदं भागं विश्वेशे दातुमर्हसि ॥ ३०॥ स्विष्टं करोति सर्वत्र सुरभागेषु शङ्करः । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ३१॥ एक एव महारुद्रो वेदेषु प्रतिपाद्यते । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ३२॥ पतित्वं शतरुद्रस्य वेदैश्च प्रतिपाद्यते । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ३३॥ इन्द्रमित्रादिकानां च एक एव महेश्वरः । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ३४॥ ब्रह्मविष्ण्वादिजनकः सूर्यसोमादिवह्निनाम् । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ३५॥ एष विश्वं विश्वपतिः स हि विश्वादिकः शिवः । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ३६॥ प्रणवात्मा प्रकाशात्मा महात्मा सर्वतोमुखः । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ३७॥ यो विभासयते सर्वं जगत्स्थावरमानुषम् । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ३८॥ यस्याज्ञया जगत्सृष्टिं करोत्येष प्रजापतिः । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ३९॥ यस्याज्ञया जगत्सर्वं हरिः पालयतेऽखिलम् । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ४०॥ यस्याज्ञया जगत्सर्वं रुद्रः संहरते स्वयम् । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ४१॥ यद्भासा भासयत्येष भास्करो नात्र संशयः । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ४२॥ यद्भासैव सदा सोमः पुष्णात्योषधिमण्डलम् । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ४३॥ यद्भासा हव्यकव्यानि दहत्येषोऽनलो महान् । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ४४॥ यद्भयाच्च सदा वायुः पवते लोकमाविशन् । स एव भगवान् रुद्रः सर्व देवपतिः शिवः ॥ ४५॥ यस्याज्ञया सुरान्पाति वज्रहस्तस्त्रिविष्टपम् । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ४६॥ यद्भयात्सागरान् सप्त यान्ति नद्यः समुद्रगाः । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ४७॥ ग्रहर्क्षाणि विभान्त्येव यस्य देवस्य शासनात् । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ४८॥ यमोऽपि यद्भयान्नित्यं समवर्तित्वमास्थितः । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ४९॥ निरृतिर्यद्भयात्सर्वान् लोकान् रक्षत्यतन्द्रितः । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ५०॥ कुबेरोऽपि धनं पाति यस्य देवस्य शासनात् । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ५१॥ वेदा यस्यास्य निःश्वासाः प्रणवस्तत्तनुर्महान् । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ५२॥ छन्दांसि यस्य लोमानि पुराणादीनि सर्वशः । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ५३॥ भूमिर्यदाज्ञया धत्ते सागरान् द्वीपमण्डलम् । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ५४॥ शेषोऽप्यशेषलोकांश्च धत्ते यस्याज्ञया विभोः । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ५५॥ यदाज्ञयैव तिष्ठन्ति कूर्मदिग्दन्तिनस्तथा । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ५६॥ पितरो मरुतः साध्या यदाज्ञावशवर्तिनः । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ५७॥ यदाज्ञया प्रवर्तन्ते विश्वेदेवास्तथाश्विनौ । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ५८॥ अधीयते च वेदांश्च मुनयो यस्य शासनात् । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ५९॥ प्रवर्तन्ते क्रियाः सर्वाः स्मरशासनशासनात् । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ६०॥ सर्वलोकालयाश्चैव यदाज्ञाधारिणः सदा । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ६१॥ यो वै रुद्रेति मन्त्रेण यः शिवः संस्तुतः सदा । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ६२॥ सर्वशर्वमयो लोको यो वेदादौ प्रतिष्ठितः । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ६३॥ यं विनिद्रा जितश्वासाः सदा ध्यायन्ति योगिनः । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ६४॥ एषभूतपतिः सेतुविधारण इति श्रुतः । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ६५॥ स एव परमानन्दो शिवोऽद्वैतश्च केवलः । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ६६॥ यत्स्वरूपपरिज्ञानं वैदैरपि न शक्यते । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ६७॥ यो महांश्च महादेवः अणीयांश्चास्त्यणोरपि । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ६८॥ नैव स्त्री न पुमान्नैव महादेवो नपुंसकः । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ६९॥ यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ७०॥ आनन्दः शङ्करो विद्वान्नबिभेति कुतश्चन । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ७१॥ सद्योजातो महादेवो वामदेवो महेश्वरः । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ७२॥ अघोरो विश्वनाथात्मा तत्सूर्यः सर्वदृक् शिवः । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ७३॥ स ईशानः स हि विराट् स्वराट् संराट् प्रजापतिः । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ७४॥ स निर्गुणो विरूपाक्षः स आत्मा विश्वतोमुखः । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ७५॥ विश्वतश्चक्षुरीशानः स भवो विश्वभावुकः । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ७६॥ ऋतं सत्यं परं ब्रह्म पुरुषः कृष्णपिङ्गलः । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ७७॥ ऊर्ध्वरेता विरूपाक्षों विश्वरूपो गुणातिगः । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ७८॥ आनन्दैकघनः शान्तो विशेषेण विवर्जितः । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ७९॥ सर्वदृक् सर्वभूतात्मा सर्वेन्द्रियविवर्जितः । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ८०॥ अपाणिपादो वरदो जवनोऽप्यग्रहीतृकः । स एवं भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ८१॥ स पश्यतीदं विश्वात्मा चराचरमिदं जगत् । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ८२॥ न तं विदन्ति विद्वांसो यतन्तोऽपि यतीश्वराः । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ८३॥ जाग्रत्स्वप्नसुषुप्त्याद्यावस्थाभिश्चाप्यतीतकः । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ८४॥ यो मायया मोहयति जगदाब्रह्मकीटकम् । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ८५॥ स मायी परमेशानः स परः शिव ईश्वरः । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ८६॥ सर्वान्तरः सर्वसाक्षी चेता नेता च निर्गुणः । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ८७॥ स सुधन्वा स्विषुर्देवो विभुः शङ्कर ईश्वरः । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ८८॥ सदाशिवः पशुपतिर्यज्ञो यज्ञेश्वरश्च सः । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ८९॥ सोऽन्तरा सर्वभूताना स बाह्येऽपि च संस्थितः । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ९०॥ यो यज्ञैरीज्यते साम्बो यज्वभिर्वेदपारगैः । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ९१॥ यत्स्वरूपाऽपरिज्ञान्नमुक्तिं लभते नरः । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ९२॥ यो बाह्याभ्यन्तरे पूर्णः शिव एकः शिवङ्करः । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ९३॥ यतो ब्रह्मेशविष्ण्विन्द्राः सहभूतैः प्रजज्ञिरे । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ९४॥ स ध्येयः परमेशानो मुमुक्षुभिरहर्निशम् । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ९५॥ देवा अपि महादेवं सहसा यं च नो विदुः । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ९६॥ स एव कर्ता जगतां भर्ता हर्ता महेश्वरः । स एव भगवान् रुद्रः सर्वदेवपतिः शिवः ॥ ९७॥ यदा चर्मवदाकाशं वेष्टयिष्यति मानवः । तदा शिवमविज्ञाय दुःखं तेषां भविष्यति ॥ ९८॥ स एव भगवान् रुद्रः सर्वदेवमयः शिवः । यस्य लिङ्गार्चनेनैव मुक्तिर्भक्तैश्च लभ्यते ॥ ९९॥ स एव भगवान् रुद्रः सर्वदेवमयः शिवः । यद्भस्मधृक्भवोद्भूतं दुःखं सर्वं प्रहास्यति ॥ १००॥ स एव भगवान् रुद्रः सर्वदेवमयः शिवः । यत्पुण्ड्रं भालफलके बिभ्रन्मुक्तिमवाप्नुयात् ॥ १०१॥ स एव भगवान् रुद्रः सर्वदेवमयः शिवः । यन्नेत्राश्रुभवं दिव्यं बिभ्रन्नादभ्रदुःखभाक् ॥ १०२॥ स एव भगवान् रुद्रः सर्वदेवमयः शिवः । यस्य पञ्चाक्षरजपात् पञ्चपापं न किञ्चन ॥ १०३॥ यस्य क्षेत्रेषु वसतां मुक्तिरेकेन जन्मना । यो वेदादौ स्वरः प्रोक्तो वेदान्तेषु प्रतिष्ठितः ॥ १०४॥ तस्य प्रकृतिसंलीना भवन्तो मोहमास्थिताः । स एव भगवान् रुद्रः सर्वदेवमयः शिवः ॥ १०५॥ यजध्वं साम्बमीशानं लभध्वं मुक्तिमुत्तमाम् । सत्यं सत्यं वचो मेऽथ सत्यमेको महेश्वरः ॥ १०६॥ ॥ इति शिवरहस्यान्तर्गते सतीकृतं रुद्रस्तवः सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । ईशाख्यः द्वादशमांशः । अध्यायः २ सतीवाक्यम् । ३०-१०६॥ - .. shrIshivarahasyam . IshAkhyaH dvAdashamAMshaH . adhyAyaH 2 satIvAkyam . 30-106.. Notes: Satī सती delivers to Dakṣa दक्ष; at the venue of DakṣaYajña दक्षयज्ञ, a eulogy in favor of Rudra रुद्र - who indeed is the Sarvadevapatiḥ सर्वदेवपतिः (The Lord of all Deva-s देवाः and Sarvadevamayaḥसर्वदेवमयः (the One who embodies all Deva-s देवाः) Śiva शिव. Proofread by Ruma Dewan
% Text title            : Satikritam Rudra Stava
% File name             : satIkRRitaMrudrastavaH.itx
% itxtitle              : rudrastavaH (satIkRitaH shivarahasyAntargataH)
% engtitle              : satIkRRitaM rudrastavaH
% Category              : shiva, shivarahasya, stava
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | IshAkhyaH dvAdashamAMshaH | adhyAyaH 2 satIvAkyam | 30-106||
% Indexextra            : (Scan)
% Latest update         : December 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org