सत्यव्रतप्रोक्तं शिवलीलावर्णनम्
- सत्यव्रतशुकवाणीसंवादे -
सत्यव्रतः -
शृणु सत्यमिदं वाक्यं सावधानं वरानने ।
देवदेवस्य महिमा मनोवाग्विषयोऽपि न ॥ १७२॥
शङ्करः करुणासिन्धुर्यत् कार्य कर्तुमिच्छति ।
तत्र नायासलेशोऽपि महादेवस्य शूलिनः ॥ १७३॥
तदिच्छया परं कार्यं भवत्येव सहस्रधा ।
इच्छामात्रेण सिद्धार्थस्तत एव शिवः प्रभुः ॥ १७४॥
अन्येन कल्पपर्यन्तं कृते यत्नेऽपि सर्वथा ।
कार्यलेशोऽपि सहसा न सुरेण प्रजायते ॥ १७५॥
अभ्रङ्कषादिनिर्माणं क्षणेनैव महात्मना ।
स्वेच्छालेशेन तेनैव गौरीकान्तेन लीलया ॥ १७६॥
घृतसागरनिर्माणं शङ्करेणेच्छ्या कृतम् ।
इक्षुसागरनिर्माणं शङ्करेण कृतं खलु ॥ १७७॥
अन्येषां सागराणां च निर्माणं लीलया कृतम् ।
भूनिर्माणं च तेनैव लीलया खलु तत् कृतम् ॥ १७८॥
भूधारणार्थाः शैलाश्च निर्मितास्तेन लीलया ।
भूमञ्चकस्तम्भरूपास्ते शैलाः सप्त सुन्दरि ॥ १७९॥
पातालरूपो लोकोऽपि सृष्टस्तेन स्वलीलया ।
लोकः करण्डकाकारः काकोदरवराश्रयः ॥ १८०॥
तस्मिन् लोके शिवस्थानमेकमस्ति वरानने ।
तल्लिङ्गं काञ्चनाकारं शेषभूषणनामकम् ॥ १८१॥
तत्रापि निर्मितं रम्यं मन्दिरं रत्नसुन्दरम् ।
रत्नप्रासादशृङ्गाग्रकोटीकोटिविराजितम् ॥ १८२॥
तस्य शृङ्गस्य रत्नानि विविधान्यपि कोटिशः ।
तत्प्रभाभिः स लोकोऽपि भासुरः सर्वथा खलु ॥ १८३॥
तत्र शेषादयो नागाः पूजयन्ति महेश्वरम् ।
तदुद्यानवनोत्पन्नप्रसूनस्रग्भिरादरात् ॥ १८४॥
अखण्डबिल्वपत्राणि सुवर्णकमलान्यपि ।
तत्रामितानि तैः पूजां कुर्वन्ति मुनिपुङ्गवाः ॥ १८५॥
तत्र शेषोऽपि रत्नौघैरपारैर्गिरिजापतिम् ।
पूजयन्ननिशं शम्भुं बिल्वैश्च कनकाम्बुजैः ॥ १८६॥
तत्व केतकपुष्पैश्च मन्दारैरतिशोभनैः ।
सुवर्णचम्पकाकारप्रसूनैः पूजयन्ति तम् ॥ १८७॥
नागकन्यासहस्राणि पूजयित्वा महेश्वरम् ।
नृत्यं कुर्वन्ति यत्नेन तस्मिन् शङ्करमन्दिरे ॥ १८८॥
सकुटुम्बः फणिपतिः सपुत्रोऽपि महेश्वरम् ।
पूजयित्वा प्रसूनाद्यैः कालं नयति सादरम् ॥ १८९॥
कोटिशस्तत्कुटुम्बानि तत्पुत्रा अपि कोटिशः ।
पूजयन्ति महादेवमतियत्नेन सन्ततम् ॥ १९०॥
तेषां शिवार्चनं कायं नास्ति कार्यान्तरं तथा ।
विद्यमानानि कार्याणि सन्त्यक्तान्येव सर्वदा ॥ १९१॥
शिवपूजनमस्माकं परमं कार्यमित्यपि ।
तिष्ठन्ति नागलोकस्थाः सर्वे काकोदरा अपि ॥ १९२॥
शिवपूजाविनिर्मुक्तः कोऽपि काकोदरोऽपि न ।
अन्येषां तत्र का वार्ता तेषां कार्यं शिवार्चनम् ॥ १९३॥
तेषां तथाविधा भक्तिः शिवेनोत्पादिता ततः ।
तथैव तेऽपि कुर्वन्ति लीलया शिवपूजनम् ॥ १९४॥
लीलामात्रकृतामिताखिलजगज्जालाय तस्मै नमः
तस्मै कारणकारणाय करुणापूर्णार्णवायासकृत् ।
तस्मै सृष्टिलयस्थितिक्षयपरव्यापारलीलारस-
व्याप्तायापि नमो नमः पुनरिदं साम्बाय तस्मै नमः ॥ १९५॥
॥ इति शिवरहस्यान्तर्गते सत्यव्रतप्रोक्तं शिवलीलावर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः ३९। १७२-१९५ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 39. 172-195 ..
Proofread by Ruma Dewan