श्रीशिवधर्माख्योक्त शान्तिकाध्यायः
श्रीगणेशाय नमः ।
श्रीभैरवाय नमः ।
श्रीनन्दीशाय नमः ।
श्रीउमामहेश्वराभ्यां नमः ।
अथ श्रीशिवधर्माख्योक्त शान्तिकाध्यायः प्रारभ्यते ।
श्री नन्दिकेश्वर उवाच -
अतः परमिदं गुह्यं रुद्रोद्गीतं महोदयम् ।
महाविघ्नप्रशमनं महाशान्तिकरं शुभम् ॥ १॥
अकालमृत्युशमनं सर्वव्याधिनिवारणम् ।
परचक्रप्रमथनं सदा विजयवर्धनम् ॥ २॥
सर्वदेवग्रहानीकं समभीष्टफलप्रदम् ।
सर्वशान्ताधिकाराख्यं धर्मं वक्ष्यामि शाश्वतम् ॥ ३॥
शशाङ्कार्द्धधरस्त्र्यक्षो नागयज्ञोपवीतकः ।
चतुर्मुखश्चतुर्बाहुः सितभस्माऽवगुण्ठितः ॥ ४॥
वरो वरेण्यो वरदो देवदेवो महेश्वरः ।
त्रैलोक्यनमितः श्रीमाञ्छान्तिमाशु करोतु मे ॥ ५॥
सर्वावयवपूर्णेन गात्रेण तनुमध्यमा ।
पीतश्यामातिसौम्येन स्निग्धवर्णेन शोभना ॥ ६॥
ललाटे तिलकोपेता चन्द्ररेखार्धधारिणी ।
चित्राम्बरधरा देवी सर्वाऽऽभरणभूषिता ॥ ७॥
वरस्त्रीमयरूपेण शोभागुणमहास्पदा ।
भावनामात्रसन्तुष्टा उमादेवी वरप्रदा ॥ ८॥
साक्षादागत्य रूपेण शान्तेनाऽमिततेजसा ।
शान्तिं करोतु मे प्रीता भक्तानां भक्तवत्सला ॥ ९॥
पद्मरागद्युतिः सौम्यो रक्तमाल्याऽनुलेपनः ।
अबालो बालरूपेण षड्वक्त्रः शिखिवाहनः ॥ १०॥
पूर्णेन्दुवदनः सौम्यस्त्रिशिखः शक्तिसंयुतः ।
कृत्तिकोमाग्निरुद्रांशसमुद्भूतः सुरार्चितः ॥ ११॥
कार्तिकेयो महातेजा वरदानैकतत्परः ।
शान्तिं करोतु मे नित्यं वरं सौख्यं च मे सदा ॥ १२॥
श्वेतवस्त्रपरीधानस्त्र्यक्षः कनकसुप्रभः ।
रुद्रश्चैको महायोगी रुद्रैको हितमानसः ॥ १३॥
शूलपाणिर्महाप्राज्ञो नन्दीशः शिवभावितः ।
शिवार्चनपरो नित्यः शिवध्यानैकतत्परः ॥ १४॥
शान्तिं करोतु मे शान्तो धर्मं च मतिमुत्तमाम् ।
महादेव महाकायः स्निग्धाञ्जनचयच्छविः ॥ १५॥
एकदंष्ट्रोत्कटो देवो गजवक्त्रो महाबलः ।
नागयज्ञोपवीती च नागाऽऽभरणभूषितः ॥ १६॥
सर्वार्थसम्पदाधारो गणाध्यक्षो वरप्रदः ।
रुद्रस्य तनयो देवो नायकोऽथ विनायकः ॥ १७॥
करोतु मे महाशान्तिं कर्मसिद्धिं च सर्वदा ।
इन्द्रनीलनिभस्त्र्यक्षो दीप्तशूलाऽऽयुधोद्यतः ॥ १८॥
रक्ताम्बरधरः श्रीमान् कृष्णाङ्गो नागभूषणः ।
पापाऽपनोदमतुलमलक्ष्मीमलनाशनः ॥ १९॥
करोतु मे महाशान्तिं महाकालो महाबलः ।
पीतवस्त्रपरीधाना कन्यारूपा स्वलङ्कृता ॥ २०॥
गणमाताऽम्बिका त्र्यक्षा पुण्या शान्ता सुरेश्वरी ।
सर्वसिद्धिकरी देवी प्रसादपरमा परा ॥ २१॥
शान्तिं करोतु मे माता सिद्धिं चाऽनुप्रयच्छतु ।
स्निग्धश्यामेन वर्णेन महामहिषमर्दिनी ॥ २२॥
धनुश्चक्रप्रहरणा खड्गपट्टिशधारिणी ।
आतर्जन्युद्यतकरा सर्वोपद्रवनाशिनी ॥ २३॥
सर्वमङ्गलदात्री मे शिवमाचरतु ध्रुवम् ।
निर्मांसेन शरीरेण स्नाय्वस्थिषु निबन्धनः ॥ २४॥
अतिसूक्ष्मोऽतिविक्रान्तस्त्र्यक्षो भृङ्गिरिटिर्महान् ।
रुद्रात्मको महावीरो रुद्रेकाहितमानसः ॥ २५॥
सोऽपि मे शान्तिभावेन शान्तिमाशु प्रयच्छतु ।
प्रचण्डगणसैन्येशो महाटङ्काक्षधारकः ॥ २६॥
अक्षमालार्पितकरस्त्र्यक्षश्चण्डेश्वरो वरः ।
चण्डपापापहरणो ब्रह्महत्यादिशोधकः ॥ २७॥ (चण्डस्तापापहरणो)
करोतु मे महायोगी कल्याणानां परम्पराम् ।
शङ्खकुन्देन्दुतुल्याभः कण्ठे मरकतप्रभः ॥ २८॥
अक्षमाली शिखाग्रस्थः स्वयं ज्ञानव्यवस्थितः ।
चतुर्मुखश्चतुष्पादत्रिनेत्रः सर्वदोज्ज्वलः ॥ २९॥
क्षितेः पतिर्वृषो देवो धर्मो धर्मतमो मतः ।
ईशं वहति पृष्ठेन तस्माद्धर्मों जगत्प्रभुः ॥ ३०॥
वृषो वृषवरः श्रीमान् करोतु मम शान्तिकम् ।
पद्मासनः पद्मनिभश्चतुर्वदनपङ्कजः ॥ ३१॥
कमण्डलुधरः श्रीमान् देवगन्धर्वपूजितः ।
शिवध्यानैकपरमः शिवसद्भावभावितः ॥ ३२॥
ब्रह्मशब्देन दिव्येन ब्रह्मा शान्तिं करोतु मे ।
तार्क्ष्यासनश्चतुर्बाहुः शङ्खचक्रगदाधरः ॥ ३३॥
श्यामः पीताम्बरधरो महाबलपराक्रमः ।
यज्ञदेवोत्तमो देवो माधवो मधुसूदनः ॥ ३४॥
शिवप्रसादसम्पन्नः शिवध्यानपरायणः ।
सर्वपापप्रमथनः सर्वाऽसुरनिकृन्तनः ॥ ३५॥
सर्वदा शान्तभावेन विष्णुः शान्तिं करोतु मे ।
अर्हन्तः शान्तरूपी च पिच्छिस्कन्धैकपाणिकः ॥ ३६॥
दिग्वासा मत्तपङ्कश्च सौम्यचित्तः समाहितः ।
संवृत्तलोचनः शान्तः शिवज्ञानैकचिन्तकः ॥ ३७॥
शान्तिं करोतु मे शान्तः शिवयोगेन भावितः ।
जितेन्द्रियः समाधिस्थः पात्रचीवरभूषितः ॥ ३८॥
वरदाभयपाणिश्च ज्ञानध्यानरतः सदा ।
योगवृष्टिसमायुक्तः शिवभानेन भावितः ॥ ३९॥
शान्तिं करोतु मे देवः सर्वसत्त्वहिते रतः ।
पीतवर्णेन देहेन हारेण सुविचित्रितः ॥ ४०॥
सर्वाङ्गसुन्दरी देवी विजया जयकारिणी ।
शिवाऽर्चनरता नित्यं शिवजाप्यपरायणा ॥ ४१॥
धरित्री लोकमाता च नित्यं रक्षां करोतु मे ।
नन्दा भद्रा च सुरभिः सुशीला सुमनास्तथा ॥ ४२॥
क्षीरोदादुत्थिता गावो लोकानां हितकाम्यया ।
प्रीणयन्ति सदा देवान् विप्राँश्चैवाऽविशेषतः ॥ ४३॥ (विप्रां)
नित्यं च देवतात्मानः कुर्वन्तु मम शान्तिकम् ।
पद्मरागप्रभा देवी चतुर्वदनपङ्कजा ॥ ४४॥
अक्षमालार्पितकरा कमण्डलुधरा शुभा ।
ब्रह्माणी सौम्यवदना शिवपूजापरायणा ॥ ४५॥
शान्तिं करोतु मे प्रीता ब्रह्मशब्देन सर्वदा ।
हिमशैलनिभा देवी महावृषभवाहिनी ॥ ४६॥
त्रिशूलहस्ता वरदा नानाऽऽभरणभूषिता ।
चतुर्भुजा चतुर्वक्त्रा त्रिनेत्रा पापहारिणी ॥ ४७॥
आर्तिं हरतु मे माता रुद्राणी नित्यमुज्ज्वला ।
मयूरवाहना देवी सिन्दूरारुणविग्रहा ॥ ४८॥
शक्तिहस्ता महारूपा सर्वाऽलङ्कारभूषिता ।
रुद्रभक्ता महावीर्या रुद्रार्चनरता सदा ॥ ४९॥
कौमारी वरदा देवी शान्तिमाशु करोतु मे ।
खड्गचक्रगदाहस्ता श्यामा पीताम्बरप्रिया ॥ ५०॥
चतुर्भुजा तार्क्ष्ययाना वैष्णवी सुरपूजिता ।
शिवार्चनपरा नित्यं शिवैकाहितमानसा ॥ ५१॥
शान्तिं करोतु मे नित्यं सर्वाऽसुरविमर्दिनी ।
ऐरावतगजारूढा वज्रहस्ता महाबला ॥ ५२॥
नेत्राणां तु सहस्रेण भूषिता कनकप्रभा ।
सिद्धगन्धर्वनमिता सर्वालङ्कारभूषिता ॥ ५३॥
ऐन्द्री देवी सदाकालं शान्तिमाशु करोतु मे ।
वाराहघोरा विकटा वराहवरवाहना ॥ ५४॥
श्यामावदाता विपुला शङ्खचक्रगदायुधा ।
तर्जयन्ती सदा विघ्नान्नर्चयन्ती सदाशिवम् ॥ ५५॥
वाराही वरदा देवी क्षेमारोग्यं ददातु मे ।
ऊर्ध्वकेशा कोटराक्षी निर्मांसा स्नायुबन्धना ॥ ५६॥
करालवदना घोरा खड्गकट्टारकोद्यता ।
कपालमालिनी क्रुद्धा खट्वाङ्गवरधारिणी ॥ ५७॥
आरक्तपिङ्गनयना गजचर्माऽवगुण्ठिता ।
नानानागोपवीताङ्गी प्रेतस्थाननिवासिनी ॥ ५८॥
शिवरूपेण घोरेण शिवरावभयङ्करी ।
चामुण्डा चण्डरूपेण महारक्षां करोतु मे ॥ ५९॥
अपीतेन शरीरेण सर्वाऽऽभरणभूषिता ।
आतर्जयन्ती विघ्नानि ज्वलत्खट्वाङ्गधारिणी ॥ ६०॥
ध्वाङ्क्षासना महावीरा सर्वपापप्रणाशिनी ।
लम्बोष्ठी वरदा देवी शान्तिमाशु करोतु मे ॥ ६१॥
आकाशमातरी दिव्यस्तथाऽन्यालोकमातरः ।
भूतानां मातरः सर्वास्तथाऽन्येषाञ्च मातरः ॥ ६२॥
सर्वमातृमहादेव्यः स्वायुधा व्यग्रपाणयः ।
जगद्व्याप्याऽवतिष्ठन्ते बलिकामा महोदयाः ॥ ६३॥
रुद्रभक्ता महावीर्या रुद्रार्चाऽहितमानसाः ।
शान्तिं कुर्वन्तु मे नित्यं मातरः सुरपूजिताः ॥ ६४॥
ये रुद्रा रौद्रकर्माणो रुद्रस्थाननिवासिनः ।
सौम्याश्चैव तु ये केचित् स्थाणुस्थाननिवासिनः ॥ ६५॥
मातरो रुद्ररूपाश्च गणानामधिपाश्च ये ।
विघ्नभूतास्तथा चाऽन्ये दिवि दिक्षु समाश्रिताः ॥ ६६॥
सर्वे सुप्रीतमनसः प्रतिगृह्णन्तु मे बलिम् ।
सिद्धिमाशु प्रयच्छन्तु भयेभ्यः पान्तु मां सदा ॥ ६७॥
ऐन्द्रयां दिशि गणा ये तु वज्रहस्ता महाबलाः ।
सुश्वेताक्षाः श्वेतनिभास्तथा वै श्वेतलोहिताः ॥ ६८॥
दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः ।
रुद्रार्चनरता हृष्टा शान्तिं कुर्वन्तु मे सदा ॥ ६९॥
आग्नेय्यां ये गणाः सर्वे शक्तिहस्ता निषङ्गिणः ।
आरक्ताक्षा रक्तनिभास्तथा वै रक्तलोहिताः ॥ ७०॥
दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः ।
रुद्रप्रणाममनसः शान्तिं कुर्वन्तु मे सदा ॥ ७१॥
याम्यां दिशि गणा ये तु सततं दण्डपाणयः ।
कृष्णाः कृष्णनिभाः क्रुद्धास्तथा वै कृष्णलोहिताः ॥ ७२॥
दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः ।
रुद्रका हितचेतस्काः शान्तिं कुर्वन्तु मे सदा ॥ ७३॥
नैरृत्यां तु गणाः क्रूरा राक्षसाः मृत्युरूपिणः ।
सुनीलाक्षा नीलनिभास्तथा वै नीललोहिताः ॥ ७४॥
दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः ।
रुद्रध्यानैक निरताः शान्तिं कुर्वन्तु मे सदा ॥ ७५॥
वारुण्यां वै गणा ये तु सततं पाशपाणयः ।
सुमुक्ताक्षाः मुक्तनिभाः वै मुक्तलोहिताः ॥ ७६॥
दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः ।
परमेशार्चनरताः कुर्वन्तु मम शान्तिकम् ॥ ७७॥
वायव्यां वै गणा ये तु सततं ध्वजपाणयः ।
सधूम्राक्षाः धूम्रनिभाः वै धूम्रलोहिताः ॥ ७८॥
दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः ।
शिवभक्तिपराः सर्वे क्षेमं कुर्वन्तु मे सदा ॥ ७९॥
उत्तरस्यां गणा ये तु सततं निधिपाणयः ।
सुपीताक्षाः पीतनिभाः तथा वै पीतलोहिताः ॥ ८०॥
दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः ।
शिवपूजासमुद्युक्ताः क्षेमं कुर्वन्तु सर्वदा ॥ ८१॥
ऐशान्यां वै गणा ये तु प्रशान्ताः शूलपाणयः ।
सुश्वेताक्षाः श्वेतनिभाः तथा वै श्वेतलोहिताः ॥ ८२॥
दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः ।
शिवपूजासमुद्युक्ताः क्षेमं कुर्वन्तु मे सदा ॥ ८३॥
अधोभागे गणा ये तु सततं चक्रपाणयः ।
धूम्रा धूम्रनिभाः सर्वे तथा वै धूम्रलोहिताः ॥ ८४॥
(var सुनीलाक्षाः नीलनिभाः तथा वै नीललोहिताः)
दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः ।
शिवं कुर्वन्तु मे नित्यमलक्ष्मीमलनाशनम् ॥ ८५॥
ऊर्ध्वभागे गणा ये तु महाबलपराक्रमाः । (var तु सततं पाशपाणयः)
सुसूक्ष्माक्षाः सूक्ष्मनिभाः तथा वै सूक्ष्मलोहिताः ॥ ८६॥
दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः ।
शिवपूजासमुद्युक्ता अशुभान्नाशयन्तु मे ॥ ८७॥
एते गणा महात्मानो महाबलपराक्रमाः ।
शिवं सम्पूज्य यत्नेन बलिं तेषां विनिक्षिपेत् ॥ ८८॥
ततः सुप्रीतमनसः शान्तिं कुर्वन्तु सर्वदा ।
अमरावती नाम पुरी पूर्वभागे व्यवस्थिता ॥ ८९॥
विद्याधरसमाकीर्णा सिद्धगन्धर्वसेविता ।
रत्नप्रकाररुचिरा सर्वरत्नोपशोभिता ॥ ९०॥
तत्र देवपतिः श्रीमान् वज्रपाणिर्महाबलः ।
नेत्राणां तु सहस्रेण शोभनेन विराजते ॥ ९१॥
ऐरावतगजारूढो हेमवर्णो महाद्युतिः ।
देवेन्द्रः सततं हृष्टः परमेशार्चने रतः ॥ ९२॥
शिवध्यानेन सम्पन्नः शिवभक्तिसमन्वितः ।
शिवप्रणामपरमः करोतु मम शान्तिकम् ॥ ९३॥
आग्नेये दिग्विभागे तु पुरी तेजोवती शुभा । (var आग्नेय्यां)
नानादेवगणाकीर्णा रत्नज्वालासमुज्ज्वला ॥ ९४॥
तत्र ज्वालापरीताङ्गी दीप्ताङ्गारसमद्युतिः ।
भूतिकृद् देहिनां देवो ज्वलनः पापनाशनः ॥ ९५॥
शिवपूजाजपोद्युक्तः शिवस्मरणभावितः ।
शान्तिङ्करोतु मे देवस्तथा पापपरिक्षयम् ॥ ९६॥
वैवस्वती नाम पुरी दक्षिणे वै व्यवस्थिता ।
लोहप्राकरसंयुक्ता प्रासादैर्गोपुरैः शुभैः ॥ ९७॥
सुरासुरशतानीकपितृरक्षोगणालया ।
तत्रेन्द्रो नीलसङ्काशो रक्तान्तायतलोचनः ॥ ९८॥
महामहिषमारूढः कृष्णस्रग्वस्त्रभूषणः ।
कालान्तकमहाकालः चण्डकोदण्ड संयुतः ॥ ९९॥
श्रीमान्यमो महातेजाः शिवधर्मपरायणः । (var अन्तकोऽथ महातेजाः)
शिवपूजासमुद्युक्तः क्षेमारोग्यं ददातु मे ॥ १००॥
नैरृत्यास्तु दिशो भागे पुरी कृष्णेति विश्रुता । (var पुरी कृष्णावती शुभा)
महारक्षोगणैः कीर्णा पिशाचभूतसङ्कुला ॥ १०१॥
तत्र जीमूतसङ्काशो रक्तस्रग्वस्त्रभूषणः ।
खड्गपाणिर्महातेजाः करालवदनोज्ज्वलः ॥ १०२॥
रक्षोगणेन्द्रो निऋतिः शिवार्चनरतः सदा ।
करोतु मे महाशान्तिं शिवभक्तिसमुत्सुकः ॥ १०३॥
पश्चिमे तु दिशो भागे पुरी शुद्धावती शुभा ।
नानारत्नसमाकीर्णा नानाकिन्नरशोभिता ॥ १०४॥ (var नानागणसमाकीर्णा)
तत्र मौक्तिकसङ्काशः परिपिङ्गललोचनः ।
शुक्लवस्त्रपरीधानः पाशहस्तो महाबलः ॥ १०५॥
वरुणः परया भक्त्या शिवेकाहितमानसः ।
रोगशोकार्तिसन्तापं नित्यं नाशय मे ध्रुवम् ॥ १०६॥
वायव्ये दिग्विभागे तु पुरी गन्धवती शुभा ।
ऋषिसिद्धगणाऽऽकीर्णा हेमप्राकारतोरणा ॥ १०७॥
तत्र ताम्म्रेण देहेन कृष्णपिङ्गललोचनः ।
पटव्याप्तान्तरालीनो ध्वजयष्ट्यायुधोद्यतः ॥ १०८॥(var नभो व्याप्तान्तरालीनः)
पवनः परमो देवः परमेश्वरभावितः ।
क्षेमारोग्यबलं शान्तिं करोतु सततं मम ॥ १०९॥
महोदया नाम पुरी उत्तरेण महोज्ज्वला ।
अनेकयक्षसङ्कीर्णा नानारत्नोपशोभिता ॥ ११०॥
तत्र देवो गदाहस्तः चित्रस्रग्वस्त्रभूषणः । (var शुचिस्रग्वस्त्रभूषणः)
ह्रस्वबाहुर्महातेजाः परिपिङ्गललोचनः ॥ १११॥
कुबेरो वरदः श्रीमान् हरपादार्चने रतः ।
शान्तिं करोतु मे प्रीतः शान्तः शान्तेन तेजसा ॥ ११२॥
यशोवती पुरी रम्या ऐशान्यां दिशि संस्थिता । (var ऐशानीं दिशमाश्रिता)
नानागणसमाकीर्णा नानासुरकृतालया ॥ ११३॥
तेजः प्राकारपर्यन्ता निरौपम्या महोदया ।
तत्र मौक्तिकसङ्काशः शशाङ्ककृतभूषणः ॥ ११४॥
त्रिनेत्रः शान्तरूपात्मा अक्षमालाधरः सदा ।
ईशानः परमो देवः सर्वदेवोत्तमोत्तमः ।
सोऽपि सर्वात्मभावेन शान्तिमाशु प्रयच्छतु ॥ ११५॥
भूर्लोकेऽथ भुवर्लोके स्वर्लोके निवसन्ति ये । (var स्वर्लोके ऽपि च संस्थितः)
देवा दिव्यप्रभायुक्ताः शान्तिं कुर्वन्तु मे सदा ॥ ११६॥
जनलोके महर्लोके तपोलोके स्थिताश्च ये ।
तेऽपि प्रमुदिता देवाः शिवं कुर्वन्तु मे सदा ॥ ११७॥
सत्यलोके च ये देवाः प्रभावोज्ज्वलविग्रहाः ।
शिवभक्ताः सुमनसो भयं निर्णाशयन्तु मे ॥ ११८॥
गिरिकन्दरदुर्गेषु वनेषु निवसन्ति ये ।
रुद्रार्चनपरा देवा रक्षां कुर्वन्तु मे सदा ॥ ११९॥
महातले च ये सन्ति संस्थिताश्च रसातले ।
तलातले च ये सन्ति उत्तमाः सुतले जनाः ॥ १२०॥
वितले संस्थिताः भूता अतले निवसन्ति ये ।
तले च निलयो येषां रक्षां कुर्वन्तु सर्वदा ॥ १२१॥
शरच्चन्द्रांशुगौरेण देहेनाऽमलतेजसा ।
सरस्वती शिवेभक्ता शान्तिमाशु करोतु मे ॥ १२२॥
चारुचामीकरच्छाया सरोजकरपल्लवा ।
शिवभक्ता च श्रीर्देवी श्रीसद्भूतिं ददातु मे ॥ १२३॥
चारुणा मुखचन्द्रेण विचित्रकुसुमोज्ज्वला ।
जया देवी शिवे भक्ता सर्व कामं ददातु मे ॥ १२४॥
हारेण सुविचित्रेण भास्करोज्ज्वलतेजसा । (var भास्वत्कनक मेखला)
अपराजिता शिवेभक्ता करोतु विजयं मम ॥ १२५॥
सिन्दूरारुण रक्ताङ्गः कर्णान्तायत लोचनः ।
सहस्रकिरणः श्रीमान् सप्ताश्वकृतवाहनः ॥ १२६॥
गभस्तिमाली भगवाशिवपूजापरायणः ।
करोतु मे महाशान्तिं ग्रहपीडां व्यपोहतु ॥ १२७॥
जगदाप्यायनकरो ह्यमृताधारशीतलः ।
सोमः सौम्येन भावेन ग्रहपीडां व्यपोहतु ॥ १२८॥
पद्मरागनिभा नेनाऽपि देहेनापिङ्गललोचनः ।
(var पद्मरागनिभाङ्गेन करिपिङ्गललोचनः ।)
अङ्गारकः शिवेभक्तो रुद्रार्चन परायणः ॥ १२९॥
रुद्रसद्भावसम्पन्नो रुद्रध्यानैकमनसः ।
ग्रहपीडा भयं सर्वं विनाशयतु मे सदा ॥ १३०॥
कुंङ्कुमच्छविदेहेन चारुद्युत्करतः सदा ।
शिवभक्तो बुधः श्रीमान् ग्रहपीडां व्यपोहतु ॥ १३१॥
धातु चामीकरच्छायः सर्वज्ञानकृतालयः । (var तप्त चामीकरच्छायः)
बृहस्पतिः सदाकालमीशानार्चनतत्परः ॥ १३२॥
सोऽपि मे शान्तचित्तेन परमेण समाहितः ।
ग्रहपीडां विनिर्जित्य करोतु विजयं सदा ॥ १३३॥
हिमकुन्देन्दुतुल्याभः सुरदैत्येन्द्रपूजितः ।
शुक्रः शिवार्चनरतो ग्रहपीडां व्यपोहतु ॥ १३४॥
भिन्नाञ्जनचयच्छायः सरक्तनयनद्युतिः ।
शनैश्चरः शिवेभक्तो ग्रहपीडां व्यपोहतु ॥ १३५॥
नीलाञ्जननिभः श्रीमान् सैंहिकेयो महाबलः ।
शिवपूजापरो राहुग्रहपीडा व्यपोहतु ॥ १३६॥
धूम्राकारो ग्रहः केतुरैशान्यां दिशि संस्थितः ।
वर्तुलोऽतीव विस्तीर्णलोचनैश्च विभीषणः ॥ १३७॥
पलाशधूम्रसङ्काशो ग्रहपीडाऽपकारकः ।
घोरदंष्ट्राकरालश्च करोतु विजयं मम ॥ १३८॥
खड्गखेटकहस्तश्च वरेण्यो वरदः शुभः ।
शिवभक्तश्चाऽग्रजन्मा ग्रहपीडां व्यपोहतु ॥ १३८॥
एते ग्रहा महात्मानो महेशार्चनभाविताः ।
शान्तिं कुर्वन्तु मे हृष्टाः सदाकालं हितैषिणः ॥ १३९॥
मुखे यस्याः स्थितो मृत्युर्विष्टिर्नाम महाबलः ।
सम्मुखे विघ्नकर्त्री च पुच्छे तु विजयङ्करी ॥ १४०॥
रुद्रप्रणामपरमा शान्तिमाशु करोतु मे ।
तृतीया सप्तमी चैव दशमी च चतुर्दशी ॥ १४१॥
चतुर्थी ह्यष्टमी चैव एकादशी च पूर्णिमा ।
एतेषु विघ्नपातेषु कृष्णशुक्लसमाह्वयाः ॥ १४२॥
नाशयन्तु भयं नित्यं कुर्वन्तु विजयं मम् ।
अमावस्या महापुण्या पितृदेवसमन्विता ॥ १४३॥
शान्ता ह्येषा महापुण्या शिवस्य च महाप्रिया ।
शिवतेजः समायुक्ता करोतु विजयं मम् ॥ १४४॥
प्रतिपद्वह्नि संयुक्ता द्वितीया च विधिदैवता । (var द्वितीयाकोधिदेवता)
तृतीया च महापुण्या धनदेन समन्विता ॥ १४५॥
चतुर्थी च महापुण्या गजवक्त्राधिदैवतम् ।
पञ्चमी श्रीयुत नित्यं षष्ठी च स्कन्दाधिदैवतम् ॥ १४६॥
सप्तमी रवि संयुक्ता ह्यष्टमी रुद्रदैवता ।
तिथिः शूलभृतश्चैव पापहा परमा स्मृता ॥ १४७॥
नवमी तिथिरत्युग्रा दुर्गायाः परिकीर्तिता ।
दशमी यमसंयुक्ता चैन्द्रेणैकादशी युता ॥ १४८॥
द्वादशी विष्णुसंयुक्ता मदनेन त्रयोदशी ।
चतुर्दशी महावीर्या तिथिः शङ्करभाविता ॥ १४९॥
पूर्णिमा परिपूर्णात्मा तिथयः सततोज्ज्वलाः ।
(var चतुर्दशी महेशेन पौर्णमासी हिमांशुना ।)
सततं च शुभात्मानस्तिथयश्च क्रमेण तु ॥ १५०॥
पक्षद्वये सदा ह्येताश्चन्द्रगत्याऽनुगामिनः ।
शान्तिं कुर्वन्तु मे नित्यं शिवज्ञानविधायिनः ॥ १५१॥
विष्कुम्भः प्रीतिरायुष्मान् सौभाग्यः शोभनस्तथा ।
अतिगण्डः सुकर्मा च धृतिः शूलस्तथैव च ॥ १५२॥
गण्डोवृद्धिः ध्रुवश्चैव व्याघातो हर्षणस्तथा ।
वज्रः सिद्धिर्व्यतीपातो वरीयान् परिघः शिवः ॥ १५३॥
सिद्धिः साध्यः शुभः शुक्लो ब्रह्मा ऐन्द्रश्च वैधृतिः ।
चन्द्राभानोश्च ह्युत्पन्ना योगाश्चैते महाबलाः ॥ १५४॥
शिवभक्तिपराः सर्वे शिवज्ञानविधायिनः ।
शान्ति कुर्वन्तु मे नित्यं तथा किल्विषनाशनम् ॥ १५५॥
कृत्तिका परमा देवी रोहिणी रुचिरानना ।
श्रीमान् मृगशिरा भद्रा आर्द्रा च परमोज्ज्वला ॥ १५६॥
पुनर्वसुस्तथा पुष्य आश्लेषाऽथ महाबला ।
नक्षत्रमातरो ह्येताः प्रभामालाविभूषिताः ॥ १५७॥
महादेवाऽर्चने शक्ता महादेवाऽनुभावितः ।
पूर्वभागे स्थिता ह्येताः शान्तिं कुर्वन्तु मे सदा ॥ १५७॥
मघा सर्वगुणोपेता पूर्वा चैव तु फाल्गुनी ।
उत्तरा फाल्गुनी श्रेष्ठा हस्ता चित्रा तथोत्तमा ॥ १५८॥
स्वाती विशाखा वरदा दक्षिणस्थानसंस्थिताः ।
अर्चयन्ति सदाकालं देवं त्रिभुवनेश्वरम् ॥ १५९॥
नक्षत्रमारो ह्येतास्तेजसापरिभूषिताः ।
ममाऽपि शान्तिकं नित्यं कुर्वन्तु शिवचोदिताः ॥ १६०॥
अनुराधा तथा ज्येष्ठा मूलमृद्धिबलान्वितम् । (var मूला ऋद्धिबलान्वितता ।)
पूर्वाषाढा महावीर्या आषाढा चोत्तरा शुभा ॥ १६१॥
अभिजिन्नाम नक्षत्रं श्रवणः परमोज्ज्वलः ।
एताः पश्चिमतो दीप्ता राजन्ते राजमूर्तयः ॥ १६२॥
ईशानं पूजयन्त्येताः सर्वकालं शुभाऽन्विताः ।
मम शान्तिं प्रकुर्वन्तु विभूतिभिः समन्विताः ॥ १६३॥
धनिष्ठा शतभिषा च पूर्वाभाद्रपदा तथा ।
उत्तराभाद्ररेवत्यावश्विनी च महर्धिका ॥ १६४॥
भरणी च महावीर्या नित्यमुत्तरतः स्थिताः ।
शिवार्चनपरा नित्यं शिवध्यानैकमानसाः ॥ १६५॥
शान्तिं कुर्वन्तु मे नित्यं सर्वकालं शुभोदयाः ।
मेषो वृषाऽधिपः सिंहो धनुर्दीप्तिमतां वरः ॥ १६६॥
पूर्व भागे स्थिता येते शिवपूजापरायणाः ।
शान्तिं कुर्वन्तु मे नित्यं हर्पादब्जपूजकाः ॥ १६७॥
वृषश्च कन्या देवी च मकरश्चाऽपि ऋद्धिमान् ।
एते दक्षिणभागे तु पूजयन्ति सदा शिवम् ॥ १६८॥
भक्त्या परमया नित्यं शान्तिं कुर्वन्तु मे सदा ।
मिथुनश्च तुला कुम्भः पश्चिमेन व्यवस्थिताः ॥ १६९॥
शिवपादार्चनरताः क्षेमं कुर्वन्तु मे सदा ।
कर्कटो वृश्चिको मीन एते उत्तरमास्थिताः ॥ १७०॥
पूजयन्ति सदाकालं रुद्रम्भुवननायकम् ।
शान्तिं कुर्वन्तु मे नित्यं शिवाज्ञाऽनुविधायिनः ॥ १७१॥
बवश्च (बबश्च) बालवश्चैव कौलवस्तैतिलस्तथा ।
गरो वणिक् तथा विष्टिश्चतुष्पाच्छकुनिस्तथा ॥ १७२॥
नागः किंस्तुघ्न इत्येव करणाः शिवभाविताः ।
सर्वे सुप्रीतमनसः शान्तिं कुर्वन्तु मे सदा ॥ १७३॥
जन्म सम्पद्विपच्चैव क्षेपप्रत्यरिसाधकाः ।
वधो मैत्रोऽतिमैत्रश्च एते वै तारकागणाः ॥ १७४॥
शिवभक्ताः सुमनसः कुर्वन्तु मम शान्तिकम् ।
ऋषयः सप्तविख्याता ध्रुवान्ताः परमोज्ज्वलाः ॥ १७५॥
शिवप्रसादसम्पन्नाः शान्तिं कुर्वन्तु मे सदा ।
कश्यपो गालवो गार्ग्यो विश्वामित्रो महामुनिः ॥ १७६॥
मुनिर्दक्षोवसिष्ठोऽथ मृकण्डुः पुलहः क्रतुः ।
असितो बालखिल्याश्च दुर्वासाः पिप्पलादयः ॥ १७७॥
ऋचीको भरतोऽगस्त्यः पराशर्यो विभाण्डकः ।
मातङ्गो जैमिनिर्व्यासो देवलो दर्भरोमकः ॥ १७८॥
माण्डव्यश्च दधीचिश्च मार्कण्डेयोऽथ गौतमः ।
नारदो भृगुरात्रेयो भारद्वाजोऽङ्गिरा मुनिः ॥ १७९॥
वाल्मीकिः कौशिकः कण्वः शाकल्योऽथ(जाबाल्योऽथ) पुनर्वसुः ।
शालङ्कायन इत्याद्या ऋषयोऽथ महाव्रताः ॥ १८०॥
शिवध्यानार्चने युक्ताः शान्तिं कुर्वन्तु मे सदा ।
ऋषिपत्न्यो महापुण्यास्तथा ऋषिकुमारिकाः ॥ १८१॥
शिवार्चनपरा नित्यं शान्तिं कुर्वन्तु मे सदा
सिद्धाः संसिद्धतपसो गणा विद्याधरा ग्रहाः ॥ १८२॥
महात्मानो महोत्साहा गरुडाश्च महर्द्धिकाः ।
महेश्वरपरा ह्येते महेशं पादपूजकाः ॥ १८३॥
सिद्धिमाशु प्रयच्छन्तु आशीर्वादपरायणाः ।
नमुचिर्दैत्यराजेन्द्रः शङ्कुकर्णो महाबलः ॥ १८४॥
महानादोऽथ विख्यातो दैत्यः परमवीर्यवान् ।
हाटकेश्वरदेवस्य नित्यं पूजापरायणाः ॥ १८५॥
बलं वीर्यञ्च मे क्षिप्रं प्रयच्छन्तु महर्द्धिकाः ।
महाजृम्भो(महाजम्भो) हयग्रीवः प्रह्लादाऽव्यक्तह्लादकः ॥ १८६॥
तारकोऽग्निमुखो दैत्यः कालनेमिर्मदोत्कटः ।
एते दैत्या महात्मानः शिवसद्भावभाविताः ॥ १८७॥
पुष्टि बलं तथा वीर्यं प्रयच्छन्तु सुखोदयम् ।
विरोचनो हिरण्याक्षः सुपर्वा च सुलोमकः ॥ १८८॥
मुचुकुन्दः सुकुन्दश्च दैत्यो रैवतकस्तथा ।
भावेन च परेणाऽऽशु यजन्ते सर्वदा शिवम् ॥ १८९॥
सततञ्च गुणात्मानं पुष्टिं कुर्वन्तु मे सदा ।
दैत्यपत्न्यो महाभागा दैत्यानां कन्यकाः शुभाः ॥ १९०॥
कुमाराश्चैव दैत्यानां शान्तिं कुर्वन्तु मे सदा
आरक्तेन शरीरेण रक्तान्तायतलोचनः ॥ १९१॥
महाभोगकृताटोपः शङ्खाब्जकृतलाञ्छनः ।
अनन्तो नागराजेन्द्रः शिवपादार्चने रतः ॥ १९२॥
महापापविषं हत्वा शान्तिमाशु करोतु मे ।
सुश्वेतेन तु देहेन सुश्वेतोत्पलशेखरः ॥ १९३॥
चारुभोगकृताटोपो हारचारुविभूषणः ।
वासुकिर्नाम नागेन्द्रो रुद्रपूजापरो महान् ॥ १९४॥
महापापं विषं हत्वा शान्तिमाशु (शान्तिं आशु) करोतु मे ।
अतिपीतेन देहेन विस्फुरद्भोगसम्पदा ॥ १९५॥
तेजसाचाऽतिदीप्तेन कृतः स्वस्तिकलाञ्छनः ।
नागराट् तक्षकः श्रीमान्नागकोट्यासमन्वितः ॥ १९६॥
करोतु मे महाशान्तिं सर्वदोषविषावहः ।
अतिकृष्णेन वर्णेन स्फुटो विकटमस्तकः ॥ १९७॥
कण्ठे रेखात्रयोपेतो घोरदंष्ट्रायुधोद्यतः ।
कर्कोटको महानागो विषदर्पबलाऽन्वितः ॥ १९८॥
विषशस्त्राग्निसन्तापं हत्वा शान्तिं करोतु मे ।
पद्मवर्णेन देहेन चारुपद्मायतेक्षणः ॥ १९९॥
पञ्चबिन्दुकृताभासो ग्रीवायां शुभलक्षणः ।
ख्यातः पद्मो महानागो हरपादार्चने रतः ॥ २००॥
करोतु मे महाशान्तिं महापापं विषक्षयम् ।
पुण्डरीकनिभेनाऽपि देहेनाऽमिततेजसा ॥ २०१॥
शङ्खशूलाब्जरुचिरैर्भूषितो मूर्ध्नि सर्वदा ।
महापद्मो महानागो नित्यं पशुपतौ रतः ॥ २०२॥
विनिर्धूत(विनिहत्य) विषं घोरं शान्तिमाशु करोतु मे ।
श्यामेन देहभारेण श्रीमत्कमललोचनः ॥ २०३॥
विषदर्पबलोन्मत्तो ग्रीवायामेकरेखया ।
शङ्खपालः श्रिया दीप्तः शिवपादाब्जपूजकः ॥ २०४॥
महाविषं महापापं हत्वा शान्तिं करोतु मे ।
अतिगौरेण देहेन चन्द्रार्धकृतमस्तकः ॥ २०५॥
दीप्तभोगकृताटोपः शुभलक्षणलक्षितः ।
कुलिको नागराजेशो नित्यं हरपरायणः ॥ २०६॥
अपहृत्य विषं घोरं करोतु मम शान्तिकम् ।
अन्तरिक्षे च ये नागा ये नागाः स्वर्गसंस्थिताः ॥ २०७॥
गिरिकन्दरदुर्गेषु ये नागा भूमिसंस्थिताः ।
पाताले ये स्थिता नागाः सर्वेप्यन्ये समाहिताः ॥ २०८॥
रुद्रपादार्चने शान्ताः कुर्वन्तु मम शान्तिकम् ।
नागिन्यो नागपत्न्यश्च तथा कन्याः कुमारिकाः ॥ २०९॥
शिवभक्ताः सुमनसः शान्तिं कुर्वन्तु मे सदा ।
यदिदं नागसंस्थानं कीर्तनाच्छ्रवणादपि ॥ २१०॥
न तं सर्पा विहिंसन्ति न विषं क्रमते सदा ।
चिन्तितं सिध्यते(लभ्यते) नित्यं तथा पापपरिक्षयः ॥ २११॥
सिद्धिमाशु प्रयच्छन्ति सर्वविघ्न विवर्जिताः ।
गङ्गा पुण्या महादेवी यमुना नर्मदा नदी ॥ २१२॥
गोमती ताप्ती(तप्ती) कावेरी वरुणा देविका तथा ।
सर्वभूतपतिं देवं परमेशं महेश्वरम् ॥ २१३॥
पूजयन्ति महानद्यः शिवसद्भावभाविताः ।
शान्तिं कुर्वन्तु मे नित्यं तथा पापपरिक्षयम् ॥ २१४॥
सिद्धिमाशु प्रयच्छन्तु सर्वविघ्न विवर्जितम् ।
चन्द्रभागा महापुण्या नदी गोदावरी शुभा ॥ २१५॥
सरयूर्गण्डकी श्रेष्ठा कौशिकी च सरस्वती ।
इमा नद्यो महाभागाः शिवपादार्चने रताः ॥ २१६॥
शान्तिं कुर्वन्तु मे नित्यं शिवध्यानैकमानसाः ।
नैरञ्जना नाम नदी शोणश्चाऽपि महानदः ॥ २१७॥
मन्दाकिनी च परमा तथा सन्निहिताः शुभाः ।
इमाश्चाऽन्याश्च या नद्यः भुवि दिव्यन्तरिक्षगाः ॥ २१८॥
रुद्रार्चनपरा नद्यः कुर्वन्तु मम शान्तिकम् ।
गुह्यानि यानि तीर्थानि आसमुद्रात्सरंसि च ॥ २१९॥
कुर्वन्तु शान्तिकं तानि श्रीकण्ठाधिष्ठितानि तु ।
महावैश्रणो देवो यक्षराजो महर्द्धिकः ॥ २२०॥
यक्षकोटिपरीवारो यक्षसङ्घेन(यक्षासङ्ख्येन) संयुतः ।
महाविभवसम्पन्नो हरपादार्चने रतः ॥ २२१॥
हरध्यानैकपरमो हरपादनतोत्तमः ।
शान्तिं करोतु मे नित्यं पद्मपत्रायतेक्षणः ॥ २२२॥
मणिभद्रो महायक्षो मणिरत्नविभूषणः ।
मनोहरेण हारेण कण्ठलग्नेन राजते ॥ २२३॥
शिवध्यानरतो नित्यं शिवपदाब्ज पूजकः ।
शान्तिं करोतु मे नित्यं सर्वदोष निवारणम् ॥ २२४॥
यक्षिणीयक्षकन्याभिः परिवारितविग्रहः ।
रुद्रार्चनपरो युक्तः करोतु मम शान्तिकम् ॥ २२५॥
सुवीरो नाम यक्षेन्द्रो मणिकुण्डलभूषितः ।
भालेन हेमपट्टेन शोभनेन विराजतः ॥ २२६॥
बहुयक्षसमाकीर्णो यक्षैर्नमितविग्रहः ।
शिवपूजापरो युक्तः करोतु मम शान्तिकम् ॥ २२७॥
पञ्जिको नाम यक्षेन्द्रः कर्णिकाकटकोज्ज्वलः ।
हारेण(मुकुटेन) सुविचित्रेण केयूराभ्यां विराजितः ॥ २२८॥
यक्षसन्धैः समायुक्तो यक्षकोटिसमावृतः ।
हरार्चनपरः श्रीमान् करोतु मम शान्तिकम् ॥ २२९॥
श्रीमान्विभाण्डको यक्षो नानारत्नविभूषितः ।
चारुणा कुण्डलेन्द्रेण कर्णे नित्यं विराजितः ॥ २३०॥
यक्षो यक्षपतिर्देवो यक्षसेनापतिर्बुधः ।
हरपादार्चनरतः करोतु मम शान्तिकम् ॥ २३१॥
धृतराष्ट्रो महातेजा यक्षाधिपसमः प्रभुः ।
दिव्यपट्टांशुकच्छन्नो मणिकाञ्चनभूषितः ॥ २३२॥
शिवभक्तः शिवं ध्यात्वा शिवपूजापरायणः ।
शिवप्रसादसम्पन्नः करोतु मम शान्तिकम् ॥ २३३॥
पूर्णभद्रो महायक्षः सर्वालङ्कारभूषितः ।
रत्नप्रदीप्तपट्टेन हेमेनाऽतिपरिष्कृतः ॥ २३४॥ (var हैमेनातीव राजिते ।)
यक्षकोटिसहस्रेण परिवारेण संस्कृतः । (var परिवारित विग्रहः ।)
रुद्रप्रणामपरमो रुद्रभक्तिरतस्सदा ॥ २३५॥
रुद्रार्चनसमायुक्तः करोतु मम शान्तिकम् ।
विरूपाक्षश्च यक्षेन्द्रः श्वेतवासा महाद्युतिः ॥ २३६॥
चारुकाञ्चनमालाभिः किङ्किणीरवकान्वितः ।
भूषितश्च महाकायो वरदानैकतत्परः ॥ २३७॥
रुद्रपूजापरो नित्यं करोतु मम शान्तिकम् ।
अन्तरिक्षगता यक्षास्ते यक्षाः स्वर्गवासिनः ॥ २३८॥
गिरिकन्दरदुर्गेषु ये यक्षा भूमिवासिनः ।
पाताले ये स्थिता यक्षाः शिवेप्यन्तः समाहिताः ॥ २३९॥
नानारूपाऽऽयुधा यक्षा नानाभेषधरास्तथा ।
योगैश्वर्ययुताः सर्वे (शिवभक्ताः सुमनसः) शिवपूजासमुत्सुकाः ॥ २४०॥
शान्तिं कुर्वन्तु मे हृष्टाः शान्ताः शान्तिपरायणाः ।
यक्षिण्यो विविधाकारास्तथा यक्षकुमारिकाः ॥ २४१॥
यक्षकन्या महाभागाः शिवपूजार्चने रताः ।
शान्तिस्वस्त्ययनं क्षेमं बलं कल्याणमुत्तमम् ॥ २४२॥
सिद्धिञ्चाऽऽशु प्रयच्छन्तु नित्यमेव समाहिताः ।
मेरुर्मन्दरकैलासौ मलयो गन्धमादनः ॥ २४३॥
श्रीपर्वतो महेन्द्रश्च हेमकूटस्तथैव च ।
पर्वता सर्वतः सर्वे सर्वदा सुमहर्द्धिकाः ॥ २४४॥
शिवभक्ताः सदाकालं क्षेमं कुर्वन्तु मे सदा ।
जम्बूद्वीपः प्लक्षद्वीपः शाल्मलीकुशद्वीपकौ ॥ २४५॥
क्रौञ्चद्वीपः शाकद्वीपो गोमेदद्वीपको महान् ।
पुष्करस्तु महाद्वीप एते द्वीपा महारुचः ॥ २४६॥
रुद्रभक्तिरताः सर्वे शान्तिं कुर्वन्तु मे सदा ।
क्षारक्षीरोदकौ चैव दध्युदोऽथ घृतोदकः ॥ २४७॥
सुरोदः स्वादुदश्चैव इक्षुदकस्तथैव च ।
सप्तसमुद्रनामानः कुर्वन्तु मम शान्तिकम् ॥ २४८॥
सागराः सरितः सर्वाः सागराः सर्वतः स्थिताः ।
रुद्रपूजापरानित्यं कुर्वन्तु मम शान्तिकम् ॥ २४९॥
राक्षसाः सर्वतः सर्वे राक्षसा घोररूपिणः ।
राक्षसा ये महावीर्या राक्षसाश्च महाबलाः ॥ २५०॥
स्वर्गं जलस्थानस्था ये तु अन्तरिक्षे तु राक्षसाः ।
पाताले भूतले ये च नित्यं रुद्रपरायणाः ॥ २५१॥
शान्तिं कुर्वन्तु मे नित्यं सततं शिवभाविताः ।
भैरवं यस्य रूपं तु प्रेतभस्माऽवगुण्ठितम् ॥ २५२॥ (var प्रेमभस्माऽवगुण्ठितम्)
तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा ।
नित्यमुज्ज्वलवेषेन योगिन्योऽथ महाबलाः ॥ २५३॥
रुद्राण्यो विविधाऽऽकारा डाकिन्यश्च महर्द्धिकाः ।
रुद्रप्रणामनिरता रुद्रपूजारताः सदा ॥ २५४॥
रुद्रेकाहितचेतस्काः कुर्वन्तु मम शान्तिकम् ।
अन्तरिक्षगतायाश्च डाकिन्यः स्वर्गसंस्थिताः ॥ २५५॥
पाताले भूतले याश्च गिरिदुर्गेषु याः स्थिताः ।
तृतीयं लोचनं यस्य त्रिशूलं भस्म भासुरम् ॥ २५६॥
तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा ।
सर्वे भूता महारूपाः सर्वे भूता महोज्ज्वलाः ॥ २५७॥
सर्वे भूताः स्थिताः सौम्याः सर्वे भूता मनोजवाः ।
अन्तरिक्षे च ये भूता ये भूता दिवि संस्थिताः ॥ २५८॥
पाताले भूतले ये तु भूता भूतविधायकाः(भूतिविधायिनः) ।
खट्वाङ्गं विमलं यस्य त्रिशूलं करपल्लवे ॥ २५९॥
तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा ।
प्रेताः प्रेतगणाः सर्वे ये प्रेताः सर्वतोमुखाः ॥ २६०॥
अतिदीप्ताश्च ये प्रेता ये प्रेता रुधिराशनाः ।
अन्तरिक्षे च ये प्रेताः ये प्रेताः स्वर्गवासिनः ॥ २६१॥
पाताले भूतले प्रेता ये प्रेताः कामरूपिणः ।
स्मशाने निलयो यस्य वृषभो यस्य वाहनम् (वाहनः) ॥ २६२॥
तेजसा तस्य देवस्य शान्ति कुर्वन्तु मे सदा ।
ये पिशाचा महावीर्या ऋद्धिमन्तो महाबलाः ॥ २६३॥
नानारूपधराः सर्वे सर्वे च गुणविस्तराः ।
अन्तरिक्षे पिशाचा ये स्वर्गे ये च पिशाचकाः ॥ २६४॥
भू-पाताले पिशाचाश्च बहुरूपाः महोज्ज्वलाः ।
चन्द्रार्धं मस्तके यस्य भस्मं यस्य विभूषणम् ॥ २६५॥
तेजसा तस्य देवस्य शान्ति कुर्वन्तु मे सदा ।
अपस्मारग्रहाः सर्वे सर्वे चाऽपि ज्वरग्रहाः ॥ २६६॥
गर्भबालग्रहा ये तु नानारोगग्रहाश्च ये ।
अन्तरिक्षे ग्रहा ये तु स्वर्गे ये तु ग्रहोत्तमाः ॥ २६७॥
पाताले भूतले ये च(तु) ये ग्रहाः सर्वतोदिशि ।
कण्ठे यस्य महानीलं भूषणं यस्य पन्नगाः ॥ २६८॥
तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा ।
एते देवादयः सर्वे शिवाऽऽज्ञानुपधायिनः ॥ २६९॥
कुर्वन्तु जगतः शान्तिं शिवभक्ताश्च सर्वदा ।
जयात्मयोगसंस्थाय जय संशुद्धचेतसे ॥ २७०॥
जय दानैकशूराय जयेशाय नमोऽस्तु ते ।
जयोत्तमाय देवाय जय कल्याणदायिने(कल्याणकीर्तये) ॥ २७१॥
जय प्रकटदेहाय जय जाप्याय(जप्याय) ते नमः ।
जय लक्ष्मीनिवासाय जय कान्तिविधायिने ॥ २७२॥ (var लक्ष्मीविधानाय)
जय वाक्यविशुद्धाय अजिताय नमो नमः ।
जय त्रिशूलहस्ताय जय खट्वाङ्गधारिणे ॥ २७३॥
जय निर्जितलोकाय जय रूपाय ते नमः ।
जय कान्तार्धदेहाय जय चन्द्रार्धधारिणे ॥ २७४॥
जय देवाधिवासाय(देवाधिदेवाय) जय रुद्राय ते नमः ।
जय त्रिभुवनेशाय जय विख्यातकीर्तये (कल्याणकीर्तये) ॥ २७५॥
जयाधाराय शर्वाय जय कर्त्रे नमो नमः । (var जय सर्वावधाराय)
जय मोक्षप्रदात्रे च सृष्टिसंहारकारिणे ॥ २७६॥
जय निर्मल देहाय जय सर्वार्थकारिणे ।
जय मन्मथनाशाय ईशानाय नमो नमः ॥ २७७॥
ब्रह्मविष्ण्वीशवन्याय शिवशान्ताय ते नमः ।
जय जातविशुद्धाय सर्वव्यापिन्नमोऽस्तु ते ॥ २७८॥
इत्येवं शान्तिकाध्यायं यः पठेच्छृणुयादऽपि ।
सुधियः सुखतां यान्ति शिवलोके महीयते ॥ २७९॥
(var विधूय सर्वपापानि शिवलोके महीयते ॥)
कन्यार्थी लभते कन्यां जयकामौ जयं लभेत् ।
अर्थकामो लभेदर्थं पुत्रकामस्तु तान् बहून् ॥ २८०॥
विद्यार्थी लभते विद्यां योगार्थी योगमाप्नुयात् ।
गर्भिणी लभते पुत्रं कन्या विन्दति सत्पतिम् ॥ २८१॥
यो यान प्रार्थयते कामान् मानवः श्रवणादिह ।
तत्सर्वं शीघ्रमाप्नोति देवानां च प्रियो भवेत् ॥ २८२॥
शान्त्यध्यायं पठेद्यस्तु सङ्ग्राम प्रविशेन्नरः ।
सुनिर्जित्याऽऽहवे शत्रून् कल्याणैः परिपूर्यते ॥ २८३॥
अक्षय्यं मोदते कालमतिरस्कृतशासनः ।
व्याधिभिर्नाभिभूयेत पुत्रपौत्रैः प्रतिष्ठितः ॥ २८४॥
पाठ्यमानमिदं पुण्यं यमुद्दिश्य च पठ्यते ।
न तस्य रोगा बाधन्ते वातपित्तादिसम्भवाः ॥ २८५॥
नाऽकाले मरणं तस्य न सर्पैश्चाऽपि दंश्यते ।
न विष क्रमते देहे न जडान्धत्वमूकता ॥ २८६॥
न च सर्पभयं तस्य न चोत्पातभयं भवेत् ।
नाऽभिचारकृतैर्दोषैः लिप्यते स कदाचन ॥ २८७॥
यत्पुण्यं सर्वतीर्थानां गङ्गादीनां विशेषतः ।
तत्पुण्यं कोटिगुणितं प्राप्नोति श्रवणादिह ॥ २८८॥
यज्ञानामश्वमेधानामग्निष्टोमशतस्य च ।
(var दशानां राजसूयानां अग्निष्टोमशतस्य च ।)
श्रवणात् फलमाप्नोति कोटिकोटिगुणोत्तरम् ॥ २८९॥
अवध्यः सर्वदेवानां (सर्वभूतानां) अन्येषां च विशेषतः ।
जीवेद्वर्षशतं साग्रं सर्वव्याधिविवर्जितः ॥ २९०॥
गोघ्नश्चैव कृतघ्नश्च ब्रह्महा गुरुतल्पगः ।
शरणागतघाती च मित्रविश्वासघातकः ॥ २९१॥
दुष्टपापसमाचारो मातृहा पितृहा तथा ।
श्रवणादस्य पाठाद् वा मुच्यते सर्वपातकैः ॥ २९२॥
शान्त्यध्यायमिदं पुण्यं न देयं यस्य कस्यचित् ।
शिवभक्ताय दातव्यं शिवेन कथितं पुरा ॥ २९३॥
नित्यं खचितशक्तिश्च शक्तिव्याघात वर्जितः ।
(var नित्यं खचितचित्तः स्याच्छक्तिव्याघात वर्जितः ।)
सर्वकाम समृद्धस्तु यः पठेत दिने दिने ॥ २९४॥
॥ शिवधर्माख्ये नन्दिकेश्वरसंवादे शान्तिकाध्यायः शुभः ॥
Encoded and proofread by Gopal Upadhyay