शबरप्रगादवर्णनगीतिः
%३१
गीतिः
विभूतिभर्त्रेऽन्वहमर्पयन् चिताविभूतिमाप्त्वैकदिने स नोचिताम् ।
गात्रार्धभस्म प्रददौ धनञ्जयच्छात्रस्तदाऽभूद्वरदः पुरञ्जयः ॥ १॥
शङ्करभजनं संसृतिभञ्जनं किङ्कररञ्जनं मायातमोऽञ्जनम् ॥ ध्रु ।
भाविकजीवनं पावनपावनं आर्तपरावनं शान्तिमहावनम् ॥ १॥
मत्वा धनञ्जयभूपानुशासनं शबरोऽप्यकरोल्लिगसमर्चनम् ॥ २॥
नवचितिभूतिं शबरोऽनुदिनं भूतिवरायादददनुसवनम् ॥ ३॥
एकदिने स क्वाप्यलभन्न भस्म स ऐच्छच्छबरो निधनम् ॥ ४॥
आह तदा स्त्रीः कुरु सदनेन सहदयितार्धस्ववपुर्दहनम् ॥ ५॥
स तथा दग्ध्वा भसितेन तेन शङ्करपूजनमकरोददीनः ॥ ६॥
आह्वयदङ्गनामर्चनावसान ईशस्तुष्टोऽदर्शयदङ्गनाम् ॥ ७॥
प्रादुर्भूत्वा स्वयमीशानस्ताभ्यां प्रददौ स निजस्थानम् ॥ ८॥
यस्य न मानं तव महिमानं तमजानुदिनं स्मरामि नूनम् ॥ ९॥
श्रद्धाभक्तिर्मे न न तेऽर्चनं जाने क्षमस्वापराधमीशान ॥ १०॥
इति वासुदेवानन्दसरस्वतीयतिकृतविनतिं शृण्वीशान ॥ ११॥
इति श्रीवासुदेवानन्दसरस्वतीविरचिता शबरप्रगादवर्णनगीतिः समाप्ता ।