शक्तिपञ्चाक्षरस्तुतिः
श्रीमणिवाचककृता
(ॐ नमः शिवाय ह्रीं श्रीं ।)
ओङ्कारवर्णवरमन्दिरमध्यगाय
ओङ्कारसंस्तुतनिजामल कीर्तनाय ।
ओङ्कारमध्यसदनाश्रितपादुकाय
ओङ्कारपीठनटनाय नतोऽस्मि तुभ्यम् ॥ १॥
नानाचराचरजनान्तर संस्थिताय
नागारिवाहनदृगम्बुजपूजिताय ।
नागेन्द्रहस्तजलसिक्तजटातटाय
नन्दीकृतात्मनटनाय नतोऽस्मि तुभ्यम् ॥ २॥
मन्दानुजालिवर केलिसभाजटाय
मालाकरामलमनोगतपादुकाय ।
मन्त्रात्मकाय मलहीनद्विजार्चिताय
मन्दारभूमिनटनाय नतोऽस्मि तुभ्यम् ॥ ३॥
शिवाकृताश्वनिचयाय शिवाभिधाय
शिञ्जानलाञ्छनलसच्छुभनूपुराय ।
शिलासुमार्पणचणाय मुदङ्कराय
शिवप्रदात्मनटनाय नतोऽस्मि तुभ्यम् ॥ ४॥
वाणीशवाग्भवतुरङ्गमवाहनाय
वाणीविलासद-निजाङ्घ्रिसरोजभाजे ।
वन्दीकरामलकृतातुलपिष्टजालैः
वशीकृतात्मनटनाय नतोऽस्मि तुभ्यम् ॥ ५॥
यमानुजाजलनिमग्ननृपार्चिताय
यन्तुःशिरश्शकलभूषणभूषिताय ।
यमादियोगमृगितामलपादुकाय
यतीशचित्तनटनाय नतोऽस्मि तुभ्यम् ॥ ६॥
ह्रीङ्कारमन्त्रसुममाक्षिकनामधेयां
ह्रीङ्कारसत्वपदवीं मुनिसेव्यमानाम् ।
ह्रीङ्कारमन्त्रनुतपादसरोजयुग्मां
ह्रीङ्कारमन्त्रतनुमाकलयामि चित्ते ॥ ७॥
श्रीसङ्घदानचणचित्रचरित्रजालां
श्रीनाथमुख्यनिमिषेतर सन्नुतां ताम् ।
श्रीमत्कुलाचलसुतां शिवकामिनाम्नीं
श्रीशङ्कराङ्कनिलयां सततं नतोऽस्मि ॥ ८॥
माणिक्यवाचककृतस्तवमद्भुतं यः
पूजावसानसमये पठतीशभक्तः ।
तस्येष्टवाक्सिद्धिधनादिमार्थान्
सद्यो ददाति नितरां नटराजराजः ॥ ९॥
इति श्रीमणिवाचककृता शक्तिपञ्चाक्षरस्तुतिः समाप्ता ।
Proofread by Aruna Narayanan