कैलासक्षेत्रे शम्भुपार्वतीविग्रहवर्णनम्
॥ हिमावन्प्रति स्कन्दप्रोक्तं कैलासक्षेत्रे शम्भुपार्वतीविग्रहवर्णनम् ॥
(शिवरहस्यान्तर्गते कैलासदर्शनम् - ४)
स्कन्द उवाच -
ततो हिमाद्रिदेवेशं कैलासामलसौधगम् ।
पार्वत्या सहितं शम्भुं दिव्यसिह्मासने स्थितम् ॥ २५.१॥
चतुर्भुजमुदाराङ्गं सर्वरत्नविभूषितम् ।
किरीटकोटिगोद्भासि चन्द्रर्धकृतशेखरम् ॥ २५.२॥
कुण्डलायितकर्णोद्यत्कुण्डलीफणिभूषणम् ।
नवरत्नाङ्गदलसत्कङ्कणाङ्गदमुद्रितम् ॥ २५.३॥
सोमधामसमानास्यं तपनानललोचनम् ।
धृतत्रिपुण्ड्ररचनातदधस्तिलकोज्ज्वलम् ॥ २५.४॥
उत्फुल्लरक्तकमलरत्नमालाधरं विभुम् ।
दिव्यचन्दनलिप्ताङ्गं दिव्यपुष्पार्चिताङ्घ्रिकम् ॥ २५.५॥
धूपितं परितो धूपैस्तगरागरुसम्भवैः ।
शुद्धाम्बरधरं सौम्यं पश्यन्तमनिशं शिवाम् ॥ २५.६॥
मणिहर्म्यच्छविप्रोद्यद्दीप्तकैलासपर्वतम् ।
वामाङ्कसन्निविष्टाम्बावदनस्मितकान्तिभिः ॥ २५.७॥
धावल्यतरनिर्यच्छ्रीदेव्यङ्ग(ङ्गे)प्रभया ततम् ।
नम्राननां महादेवीं शिवाङ्कस्थां महेश्वरीम् ॥ २५.८॥
भस्मत्रिपुण्ड्रनिटिलां कस्तुरीतिलकोज्ज्वलाम् ।
बिम्बाधरां प्रसन्नास्यललन्नासाग्रमौक्तिकाम् ॥ २५.९॥
मुकुटोद्भासिचन्द्राङ्कां कचबद्धसुमल्लिकाम् ।
तपनोडुपविभ्राजिताटङ्कयुगलश्रवाम्(श्रियम्) ॥ २५.१०॥
मणिहीराच्छपदकलसद्ग्रीवा(वां) मनोहराम् ।
कनकाङ्गदकेयूरनागबन्धविराजिताम् ॥ २५.११॥
कस्तूरीरसपाटीरचन्द्रचन्दनचर्चिताम् ।
ताम्बूलपूरितमुखीं तिर्यग्लोचनकोटितः ॥ २५.१२॥
पश्यन्ती(न्तीं) वदनाम्भोजं शम्भोः सुन्दरमेदुरम् ।
सुरम्यपादकमलं मुक्तामज्जीरशोभितम् ॥ २५.१३॥
देवीसखीभिश्च वृतं गणेन्द्रैश्च महेश्वरम् ।
मया च गणपेनापि धृतचामरवीजितम् ॥ २५.१४॥
छत्रैः पताकानिचयधारिभिर्गणपुङ्गवैः ।
जयन्ती विजयाहस्त धृतचामरवीजिता(ताम्) ॥ २५.१५॥
रम्यच्छत्रावृतमुखी(खीं) दण्डिन्यादर्शहस्तया ।
वा(बा)लया वीटिकामत्स्यपेटीविधृतया तदा ॥ २५.१६॥
मुद्रिण्या (मन्त्रिण्या) खड्गकोशोद्यत्करया सेविता शिवा ।
तण्डुहस्ते महाशूलं खङ्ग(ड्ग)कोशञ्च दण्डिना ॥ २५.१७॥
भैरवोद्भावितमहानिषङ्गवरकार्मुकैः(के) ।
कालाग्निरुद्रो मायूरव्यजनेनाप्यवीजयत् ॥ २५.१८॥
एवं गणवृतं देवं देव्या सिह्मासने स्थितम् ।
दृष्ट्वा प्रणम्य नन्दीशो गिरिं देवाय जिज्ञिपत् ॥ २५.१९॥
(दृष्ट्वा प्रणम्य नन्दीशो गिरिदेवं व्यजिज्ञपत्) ॥ २५.१९॥
प्रवेश्यतामित्या(प्रवेशयेत्यन्वशा)च्चदेवदेवो महेश्वरः ।
प्राञ्जलिस्सत्वरं गत्वा ततोऽग्रे हिमभूधरम् ॥ २५.२०॥
दृष्ट्वा(ऽऽ)यान्तं स मैनाकं दत्तहस्तञ्च नन्दिना ।
गौरीगुरुं महाशैलं जातहर्षं तदा नगम् ॥ २५.२१॥
प्रावेशयच्च सविधं शम्भोर्देव्या गणाग्रणीः ।
दृष्ट्वा देवं महादेवं स नगो हर्षनिर्भरः ॥ २५.२२॥
प्रणम्य प्राञ्जलिर्विप्रा मम मातामहोऽद्रिराट् ।
अगजापतिमाशास्यं तुष्टाव पुलकाङ्गकः ॥ २५.२३॥
॥ इति शिवरहस्यान्तर्गते भवाख्ये कैलासदर्शने हिमावन्प्रति स्कन्दप्रोक्तं कैलासक्षेत्रे शम्भुपार्वतीविग्रहवर्णनम् ॥
- ॥ श्रीशिवरहस्यम् । भवाख्यः द्वितीयांशः । अध्यायः २५ । १-२३ ॥
- .. shrIshivarahasyam . bhavAkhyaH dvitIyAMshaH . adhyAyaH 25 - . 1-23 ..
Notes
Skanda स्कन्द describes to Himāvan हिमावन् ; the Resplendent Presence of Śambhū शम्भु and Pārvatī पार्वती at Kailāsaśaila कैलासशैल (Mount Kailāsa), during his guided tour of Kailāsadarshana कैलासदर्शन.
Śloka numbering differs amongst the two referenced texts.
Proofread by Ruma Dewan