शम्भुस्तवः
श्रीगणेशाय नमः ॥
कैलासशैलनिलयात्कलिकल्मषघ्नाच्चन्द्रार्धभूषितजटाद्वटमूलवासात् ।
नम्रोत्तमाङ्गविनिवेशितहस्तपद्माच्छम्भोः परं किमपि दैवमहं न जाने ॥ १॥
नाकाधिनाथकरपल्लवसेविताङ्घ्रेर्नागास्यषण्मुखविभासितपार्श्वभागात् ।
निर्व्याजपूर्णकरुणान्निखिलामरेड्याच्छम्भोः परं किमपि दैवमहं न जाने ॥ २॥
मौइनीन्द्ररक्षणकृते जितकालगर्वात्पापाब्धिशोषणविधौ जितवाडवाग्नेः ।
माराङ्गभस्मपरिलेपनशुक्लगात्राच्छम्भोः परं किमपि देवमहं न जाने ॥ ३॥
विज्ञानमुद्रितकराच्छरदिन्दुशुभ्राद्विज्ञानदाननिरताज्जडपङ्क्तयेऽपि ।
वेदान्तगेयचरणाद्विधिविष्णुसेव्याच्छम्भोः परं किमपि दैवमहं न जाने ॥ ४॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितः श्रीशम्भुस्तवः सम्पूर्णः ॥
Proofread by PSA Easwaran