रतिकृता शम्भुस्तुतिः
रतिरुवाच ।
नमामि देवं गिरिजासहायं वृषध्वजं भालविलोचनं च।
यः पाति लोकान् खलु सत्त्वयुक्तो निर्माति लोकान् रजसा गुणेन ॥ ५॥
यः स्वेच्छया संहरतेऽखिलेशो जगत् तमोविष्टतनुर्महेशः ।
यो नुः कपालं वहते जनानां भिक्षाशनः पूरयतेऽखिलार्थान् ॥ ६॥
दीनानुकम्पी भगवान् महेशो गतप्रियायाः शरणं ममास्ताम् ।
कर्तुं तथाऽकर्तुमदीनसत्त्वः शक्रोऽन्यथा कर्तुमपीह देवः ॥ ७॥
स मे विधत्तां शरणं गताया सौभाग्यमुच्चैर्मृतजीवनेन ।
नो चेदहं प्राणविसर्जनेन यशः करिष्ये विपरीतमीश ॥ ८॥
ब्रह्मोवाच ।
एवं तया स्तुतः शम्भुः प्रसन्नस्तामथाब्रवीत् ।
शम्भुरुवाच ।
वरं वृणु महाभागे कामपत्नि ! शुभानने ॥ ९॥
ददामि तुष्टः स्तोत्रेण सर्वान् कामान् हृदि स्थितान् ।
इत्थं शिववचः श्रुत्वा रतिर्हृष्टा प्रणम्य तम् ॥ १०॥
सौभाग्यकामा तं देवं निजगाद भृशातुरा ।
रतिरुवाच ।
स्वामिन् ! यदि प्रसन्नश्चेच्छृणु मे परमं वचः ॥ ११॥
रसायां दिवि भूमौ वा कान्ताः स्युः कामिनीगुणाः ।
मम लावण्यलेशो न तेषु क्वाऽपि त्रिलोचन ! ॥ १२॥
मां दृष्ट्वा मुमुचुः शक्रमुख्या वीर्यमपत्रपाः ।
ततो मे महती लज्जा जाता मे तामपाकुरु ॥ १३॥
लावण्यं च वृथा जातं विना कामेन शङ्कर ।
अयशो दहते मह्यं रतिः सा विधेवति च ॥ १४॥
भर्तुदानेन देवेश ! मां जीवय दयानिधे ! ।
एवं तया प्राथितोऽसौ शङ्करो लोकशङ्करः ॥ १५॥
उवाच श्लक्ष्णया वाचा हर्षयन् कामयोषितम् ।
शिव उवाच ।
चिन्ता मां कुरु कल्याणि ! न लज्जां कर्तुमर्हसि ॥ १६॥
स्मृतमात्रस्त्वया बाले कामः स्याद् दृष्टिगोचरः ।
मनसा चिन्तितो वापि मनोभूरिति संज्ञितः ॥ १७॥
पूरयिष्यति ते कामान् मान्या त्वं चभविष्यसि ।
विष्णोः सकाशादुत्पत्तिं रमायां प्राप्स्यते यदा ॥ १८॥
भर्ता तव जने ख्यातो नाम्ना प्रद्युम्नसंज्ञितः ।
भविष्यति महाभागे ! गच्छेदानीं निजालयम् ॥ १९॥
साऽऽगता शिववाक्येन मन्दिरं भृशसुन्दरम् ।
सस्मार तं पतिं सा तु पुरोऽनङ्गः समाययौ ॥ २०॥
ईश्वरेच्छावशात् तस्याः प्रत्यक्षं समजायत ।
इतिश्चाश्चर्ययुक्ता सा जहृषे पतिना सह ॥ २१॥
इति रतिकृता शम्भुस्तुतिः सम्पूर्णा ॥
- ॥ श्रीगणेशपुराणं उपासना (पूर्व)खण्ड । अध्याय ८८ । १.८८ ५-२१॥
- .. shrIgaNeshapurANaM upAsanA (pUrva)khaNDa . adhyAya 88 . 1.88 5-21..
Proofread by Preeti Bhandare