शनिप्रदोषव्रते शिवशिवास्तुतिः
(शिवरहस्यान्तर्गते महादेवाख्ये)
- शिवपार्वतीसंवादे -
भवाय भवनाशाय महादेवाय धीमहि ।
शिवाय नीलकण्ठाय शर्वाय शशिमौलये ॥ ४३॥
उग्रायोग्राघनाशाय भीमाय भयनाशिने ।
ईशानाय नमस्तुभ्यं पशूनां पतये नमः ॥ ४४॥
यथा समस्ताभयदः पशूनां पाशमोचकः ।
तथा व्रतेन मे तुष्टः ऋणदौर्भाग्यनाशकः ॥ ४५॥
नमो गौर्यै महादेव्यै भवान्यै ते शिवे नमः ।
शिवप्रदायै शर्वाण्यै सृष्टिस्थित्यन्तहेतवे ॥ ४६॥
नमोऽस्त्वार्तिविनाशिन्यै तुभ्यं सर्वभयापहे ।
तुभ्यमानन्दरूपिण्यै नमः कमललोचने ॥ ४७॥
विद्यायै वेदमात्रे च वेदशक्तिस्वरूपिणि ।
अम्बिके ते नमो नित्यं ममास्तु वरदः शिवः ॥ ४८॥
॥ इति शिवरहस्यान्तर्गते शनिप्रदोषव्रते शिवशिवास्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः ३१ शनिप्रदोषमहिमा । ४३-४८॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 31 shanipradoShamahimA . 43-48..
Notes:
Śiva शिव advises a ŚivaŚivāStutiḥ शिवशिवास्तुतिः while describing to Pārvatī पार्वती about worshiping Him including the entire ŚivaParivāra शिवपरिवार during Trayodaśī त्रयोदशी of Mandavāra मन्दवार of ŚuklaPakśa शुक्लपक्ष and KṛṣṇaPakśa कृष्णपक्ष i.e. ŚaniPradoṣa / MandaPradoṣa शनिप्रदोष / मन्दप्रदोष.
Proofread by Ruma Dewan