दुर्वासकृतम् शङ्कराष्टकम्
स्वधामा क्षिप्रेषुर्मग इव सुभीमो (सुभीमे) दहरग-
स्त्वधूमो ज्योतिस्त्वं महिमगत आद्यश्च भगवन् ।
अषाढं त्वामुग्रं स्थिरकरणकायेन वचसा
नुमस्स्तूमोद्धेमस्तनुगतमथैनो निवपन (निवपतु) ॥ २२॥
मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न उक्षितम् ।
मा नोऽवधीस्तनयं तं सुतं मे गावश्चाश्वान्हविषा त्वां यजामः । २३।
शम्भोऽस्मदीयविविधेषु दुरावरेषु
पापेषु निष्कृतिमतोऽप्यविनाशकेषु ।
एकद्विधात्रिचतुरेष्वपि पञ्चकेषु
त्वं शूरभूरिषुवधिः करुणार्द्रदृष्ट्या ॥ २४॥
अन्तर्ये न भजन्ति मूढमतयो ध्यानं मनीषाततं
रुद्रं त्र्यम्बकमम्बिकाबिलसितं श्रीकण्ठमीशं सदा ।
लिङ्गे कोमलबिल्वपल्लवजलैर्नार्चन्ति ये जिह्वया
त्वद्भु(भ)क्तामलशेषभुक्तिरहिता गृह्णन्ति ते वै मलम् ॥ २५॥
देवं लिङ्गवरे सदा स्थितमहो बिल्वीदलैः कोमलै-
र्नींरैर्वापि मघ(मख)क्रियासु भगवन् सोमस्य वा गह्व(ह्ल)या ।
भूर्णित्वा सवनेषु क्रोधितवपुर्भीमं मृगेन्द्रोपमं
याचे देव सदा गिरा मधुरया मा चुक्रुधश्शङ्कर ॥ २६॥
कस्त्वां दैवतसार्वभौमरहितं याचेऽद्य (च) ईशानकं
आभिस्त्वां भगवन् सदैव च नमोगीर्भिश्च रुद्रोद्यतैः ।
नक्तञ्चापि दिवा महेश पितरं हृद्गं बृहन्तं मृधं
मृष्टन्त्वामजरं सुषुम्णमपि वै रुद्राण्यया संयुतम् ॥ २७॥
राजचन्द्रकलाधरञ्च भुवनस्येशानमिन्दुप्रभं
त्वद्भक्ताः कवयो हवेम सततं त्वल्लिङ्गपूजादराः ।
त्वं शम्भुः प्रमतिः पितासि हितकृद्बन्धुस्त्वमेवासि मे
त्वं माता परमो वयस्कृदपि मे त्वज्जामयो वा वयम् ॥ २८॥
त्वां देवञ्च भजाम शङ्कर विभो त्वद्भक्तिधारारसैः ॥ २९॥
दुर्वासाष्टकमेतदेव कलितं चित्ते कुतो दुर्वसः
क्रोधो नाम भविष्यतीशभजनात्तं वै श्रियो वाञ्छिताः ।
उद्यच्चामरछत्रपङ्क्तिविलसन्मत्तेभकुम्भस्थिता
राजद्वन्दिगणस्तुतो मधुरया वाचा सदास्ते सुखी ॥ ३०॥
॥ इति शिवरहस्यान्तर्गते भवाख्ये दुर्वासःकृतं शङ्कराष्टकम् ॥
- ॥ श्रीशिवरहस्यम् । भवाख्यः द्वितीयांशः । अध्यायः २७ । २२-३०॥
- .. shrIshivarahasyam . bhavAkhyaH dvitIyAMshaH . adhyAyaH 27 . 22-30..
Proofread by Ruma Dewan