श्रीशङ्करापराधक्षमापनस्तोत्रम्
%१४
जय शङ्कर पार्वतीपते कृपया पाहि परेश सत्पते ।
निजमन्युमिषुं तथेषुधिं परिहायैहि हरन्भवाम्बुधिम् ॥ १॥
पशुपाय नमः पिनाकिने वृषवाहाय सुगुप्तनाकिने ।
प्रमथाधिभुवे स्वयम्भुवे परविद्याविभवेऽस्तु शम्भवे ॥ २॥
प्रवरोऽस्म्यहमीश पापिनां प्रवरस्त्वं करुणोऽसि तापिनाम् ।
दयनीय इतःपरः क्व ते वद शम्भो जगतीह सद्गते ॥ ३॥
सचराचरविश्वहेतवे प्रभवे ते श्रुतिधर्मसेतवे ।
भिषजेऽस्तु नमोऽष्टमूर्तये निजभक्तेप्सितकामपूर्तये ॥ ४॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं
श्रीशङ्करापराधक्षमापनस्तोत्रं सम्पूर्णम् ।