चित्रगुप्तकृतं शङ्कराराधनमहिमवर्णनम्

चित्रगुप्तकृतं शङ्कराराधनमहिमवर्णनम्

स्मृत्वा शङ्करमाराध्यममरप्रवरं वरम् । यो याति तस्य विजयः सुखान्यपि पदे पदे ॥ १॥ शङ्कराराधनं कार्यं गमने समुपस्थिते । तद्दूरगमने ताक्त् अदूरगम्ननेऽपि वा ॥ २॥ नानासाधनयुक्तोऽपि शङ्कराराधनं विना । तैः साधनैः फलं तावत् न प्राप्नोत्येव सर्वथा ॥ ३॥ अलं बहुविधैर्यत्नैः अलमायासकोटिभिः । अलमन्यैरुपायैर्वा कालकालार्चनं विना ॥ ४॥ साधनानां साधनत्वं सम्पादयति सत्वरम् । महेशाराधनं तेन विना तत्स्यादसाधनम् ॥ ५॥ शङ्कराराधनं मुख्यं सर्वसाधनसाधनम् । तदेव सफलं मन्ये तदन्यद्विफलं खलु ॥ ६॥ न जानन्त्येव मूढास्ते मुख्यं तु फलसाधनम् । शङ्करार्चनमेत्रेति वेदबाह्याः स्वभावतः ॥ ७॥ कस्यचिद्भूरिपुण्यस्य शिवाराधनमेव मे । फलसाधनमित्येषा प्रमा भवति भाग्यतः ॥ ८॥ शाङ्करा एव तत्त्वज्ञाः तेपामभ्युदयः सदा । शिवाराधनमात्रेण नान्यापेक्षा प्रजायते ॥ ९॥ शक्तिः कल्पतरूणां या शक्तिः सुरगवामपि । ततोऽप्यनन्तगुणिता सा शिवाराधनस्य हि ॥ १०॥ शङ्करार्चनसामर्थ्यं न कस्यापि जगत्त्रये । येन ब्रह्मत्वमाप्नोति विष्णुत्वं मुक्तिमन्ततः ॥ ११॥ शिवार्चनरसः कोऽपि भूरिपुण्यस्य जायते । स रसो दुलम्भो लोके सुधारससमः स तु ॥ १२॥ शङ्करानुग्रह्मदेव शिवाराधनधीर्भवेत् । सैव सूते फलं तावत् विमलं तदपेक्षितम् ॥ १३॥ शिवाराधनमेवैकमभीष्टफलसाधनम् । तदन्यत् साधनाभासं तेन किं जायते फलम् ॥ १४॥ पिपासोपशमो लोके कथं वा मृगतृष्णया । सा चेत् तदा तदार्तस्य जलपानादिकक्रिया ॥ १५॥ (तदा न स्यात्) शुक्तिका रजतत्त्वेन ज्ञाता किं केनचित् क्वचित् । साधयत्यतियत्नेन कामिनीकरकङ्कणम् ॥ १६॥ तस्माद्भ्रमास्पदं यावत् तावन्न फलसाधनम् । साधनत्वेन विज्ञातं फलं साधयति ध्रुवम् ॥ १७॥ प्रमितं साधनत्वेन केवलं शिवपूजनम् । तनैव सिद्धिरन्येन न सिद्धिरुपजायते ॥ १८॥ तथा सति प्रसङ्गे नाप्यनायासेन साधितम् । शिवार्चनं फलं सूते नित्यं यद्यदपेक्षितम् ॥ १९॥ अतः परं प्रयत्नोऽपि कर्तव्यः शिवपूजने । तेन तद्दर्शनोस्पन्नपापनाशो भविष्यति ॥ २०॥ महाघगिरिसङ्घातवज्रमीशानपूजनम् । तेन तत्पापविलये भयशङ्का न जायते ॥ २१॥ तावत्तापभयं भक्त्या यावन्नाराध्यते शिवः । ठदाराधनमात्रेण दग्धाः पातक्ककोटयः ॥ २२॥ महापापशरीरस्य विषं शङ्करपूजनम् । तस्य तावत्तस्य नाशः सत्वरं खलु जायते ॥ २३॥ एतस्मिन्नन्तरे तत्र कश्चिदार्तस्वरः श्रुतः । ततः परं म्लानचित्तः त्वरया स ययौ यमः ॥ २४॥ ततः परं तं विलोक्य भस्मोद्धूलितविग्रहम् । शिवलिङ्गार्चकं शुद्धं ददशे मुनिपुङ्गवम् ॥ २५॥ ॥ इति शिवरहस्यान्तर्गते चित्रगुप्तकृतं शङ्कराराधनमहिमवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः १७। २८-५२ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 17. 28-52 .. Proofread by Ruma Dewan
% Text title            : Chitraguptakritam Shankararadhana Mahimavarnanam
% File name             : shankarArAdhanamahimavarNanaMchitraguptakRRitam.itx
% itxtitle              : shaNkarArAdhanamahimavarNanaM chitraguptakRitam (shivarahasyAntargatam)
% engtitle              : shankarArAdhanamahimavarNanaM chitraguptakRitam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 17| 28-52 ||
% Indexextra            : (Scan)
% Latest update         : May 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org