चित्रगुप्तकृतं शङ्कराराधनमहिमवर्णनम्
स्मृत्वा शङ्करमाराध्यममरप्रवरं वरम् ।
यो याति तस्य विजयः सुखान्यपि पदे पदे ॥ १॥
शङ्कराराधनं कार्यं गमने समुपस्थिते ।
तद्दूरगमने ताक्त् अदूरगम्ननेऽपि वा ॥ २॥
नानासाधनयुक्तोऽपि शङ्कराराधनं विना ।
तैः साधनैः फलं तावत् न प्राप्नोत्येव सर्वथा ॥ ३॥
अलं बहुविधैर्यत्नैः अलमायासकोटिभिः ।
अलमन्यैरुपायैर्वा कालकालार्चनं विना ॥ ४॥
साधनानां साधनत्वं सम्पादयति सत्वरम् ।
महेशाराधनं तेन विना तत्स्यादसाधनम् ॥ ५॥
शङ्कराराधनं मुख्यं सर्वसाधनसाधनम् ।
तदेव सफलं मन्ये तदन्यद्विफलं खलु ॥ ६॥
न जानन्त्येव मूढास्ते मुख्यं तु फलसाधनम् ।
शङ्करार्चनमेत्रेति वेदबाह्याः स्वभावतः ॥ ७॥
कस्यचिद्भूरिपुण्यस्य शिवाराधनमेव मे ।
फलसाधनमित्येषा प्रमा भवति भाग्यतः ॥ ८॥
शाङ्करा एव तत्त्वज्ञाः तेपामभ्युदयः सदा ।
शिवाराधनमात्रेण नान्यापेक्षा प्रजायते ॥ ९॥
शक्तिः कल्पतरूणां या शक्तिः सुरगवामपि ।
ततोऽप्यनन्तगुणिता सा शिवाराधनस्य हि ॥ १०॥
शङ्करार्चनसामर्थ्यं न कस्यापि जगत्त्रये ।
येन ब्रह्मत्वमाप्नोति विष्णुत्वं मुक्तिमन्ततः ॥ ११॥
शिवार्चनरसः कोऽपि भूरिपुण्यस्य जायते ।
स रसो दुलम्भो लोके सुधारससमः स तु ॥ १२॥
शङ्करानुग्रह्मदेव शिवाराधनधीर्भवेत् ।
सैव सूते फलं तावत् विमलं तदपेक्षितम् ॥ १३॥
शिवाराधनमेवैकमभीष्टफलसाधनम् ।
तदन्यत् साधनाभासं तेन किं जायते फलम् ॥ १४॥
पिपासोपशमो लोके कथं वा मृगतृष्णया ।
सा चेत् तदा तदार्तस्य जलपानादिकक्रिया ॥ १५॥ (तदा न स्यात्)
शुक्तिका रजतत्त्वेन ज्ञाता किं केनचित् क्वचित् ।
साधयत्यतियत्नेन कामिनीकरकङ्कणम् ॥ १६॥
तस्माद्भ्रमास्पदं यावत् तावन्न फलसाधनम् ।
साधनत्वेन विज्ञातं फलं साधयति ध्रुवम् ॥ १७॥
प्रमितं साधनत्वेन केवलं शिवपूजनम् ।
तनैव सिद्धिरन्येन न सिद्धिरुपजायते ॥ १८॥
तथा सति प्रसङ्गे नाप्यनायासेन साधितम् ।
शिवार्चनं फलं सूते नित्यं यद्यदपेक्षितम् ॥ १९॥
अतः परं प्रयत्नोऽपि कर्तव्यः शिवपूजने ।
तेन तद्दर्शनोस्पन्नपापनाशो भविष्यति ॥ २०॥
महाघगिरिसङ्घातवज्रमीशानपूजनम् ।
तेन तत्पापविलये भयशङ्का न जायते ॥ २१॥
तावत्तापभयं भक्त्या यावन्नाराध्यते शिवः ।
ठदाराधनमात्रेण दग्धाः पातक्ककोटयः ॥ २२॥
महापापशरीरस्य विषं शङ्करपूजनम् ।
तस्य तावत्तस्य नाशः सत्वरं खलु जायते ॥ २३॥
एतस्मिन्नन्तरे तत्र कश्चिदार्तस्वरः श्रुतः ।
ततः परं म्लानचित्तः त्वरया स ययौ यमः ॥ २४॥
ततः परं तं विलोक्य भस्मोद्धूलितविग्रहम् ।
शिवलिङ्गार्चकं शुद्धं ददशे मुनिपुङ्गवम् ॥ २५॥
॥ इति शिवरहस्यान्तर्गते चित्रगुप्तकृतं शङ्कराराधनमहिमवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः १७। २८-५२ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 17. 28-52 ..
Proofread by Ruma Dewan