शङ्करकृतं शिवस्तवः
(शिवरहस्यान्तर्गते सदाशिवाख्ये)
सत्यं सत्यं नेह नानास्ति किञ्चि-
दीशावास्यं ब्रह्म सत्यं जगद्धि ।
ब्रह्मैवेदं ब्रह्म पश्चात्पुरस्तता-
देको रुद्रो न द्वितीयोऽवतस्थे ॥ २८॥
एको देवः सर्वभूतेषु गूढो-
नानाकारो भासि भावैस्त्वमात्मा ।
पूर्णापूर्णों नामरूपैर्विहीनो
विश्वातीतो विश्वरूपो महेशः ॥ २९॥
भूतं भव्यं वर्तमानं त्वयीशे सामान्यं वै देशकालादिहीनः ।
नो ते मूर्तिर्वेदवेद्यस्त्वसङ्गो सङ्गीव त्वं लिङ्गसंस्थो विभासि ॥ ३०॥
त्वद्भासा वै सोमसूर्यानलेन्द्रा
भीषोवोदेत्येष सूर्यश्च देवाः ।
त्वं वेदादौ स्वर एको महेशो
वेदान्तानां सारवाक्यार्थवेद्यः ॥ ३१॥
वैद्यो वैद्यः सर्ववेदात्मविद्यो
भिद्येद्दृष्ट्या तव हृत्तमोऽद्य ।
ओङ्कारार्थः पुरुषस्त्वं ऋतं च
सत्यज्ञानानन्दभूमासि सीमा ॥ ३२॥
बद्धो मुक्तो नासि सङ्गी स्वसङ्गः
प्राणप्राणो मनसस्त्वं मनश्च ।
त्वत्तो वाचो मनसा सन्निवृत्ता-
स्तत्वानन्दज्ञानिनो बुद्धभावाः ॥ ३३॥
त्वत्तो जातं भूतजातं महेश
त्वया जीवत्येवनमेवं विचित्रम् ।
त्वय्येवान्ते संविशत्येव विश्वं
त्वां वै को वा स्तौति तं स्तव्यमीशं ॥ ३४॥
किञ्चिज्ज्ञात्वा सर्वभास्येव बुद्ध्या
त्वामात्मानं वेद्मि देवं महेशम् ॥ ३५॥
॥ इति शिवरहस्यान्तर्गते शङ्करद्विजकृतः शिवस्तवः सम्पूर्णः ॥
- ॥ श्रीशिवरहस्यम् । सदाशिवाख्यः नवमांशः । अध्यायः १६ शङ्करप्रादुर्भावः । २८-३५॥
- .. shrIshivarahasyam . sadAshivAkhyaH navamAMshaH . adhyAyaH 16 sha~NkaraprAdurbhAvaH . 28-35..
Notes:
Śaṅkara शङ्कर; born in Śaśalagrāma Kerala (शशलग्राम, केरल), (who later came to be known as ĀdiŚaṅkarācārya आदिशङ्कराचार्य) expresses about ŚivaTattva शिवतत्त्व.
Proofread by Ruma Dewan