शङ्करप्रार्थनास्तोत्रम्
%२१
शङ्कर सुखकर गुरो परमदेव
देहि मयि ते दृश उरोरसकृदेव ।
किङ्करवरामरतरो परमदेव
पात लवमद्य गतरोष जितदेव ॥ १॥
पूर्णकरुणाञ्चितकटाक्षवरदृष्ट्या
तापशमनं कुरु ममार्य वरदृष्ट्या ।
नैव मम तिष्ठति नमःसदनुशिष्ट्या
ज्ञातमिदमर्थितमिहेदमपि दिष्ट्या ॥ २॥
कर्मभिपरपारभववारिधिनिरस्तम्
काममुखघोरमकरार्तमपशस्तम् ।
जन्ममुखवीचिभिरतस्तत उदस्तम्
त्रस्तमित उद्धर गृहाण मम हस्तम् ॥ ३॥
त्रस्तशरणार्थिकरुणोक्तमपि किं ते
न श्रुतमपीदृश उपेक्ष्य इह किं ते ।
उद्धरणमस्य करुणाकर कियत्ते-
ऽथापि न मनो द्रवति कोमलमहो ते ॥ ४॥
प्रसीद मे सागस आर्तबन्धो
कारुण्यसिन्धोऽनुपमास्तबन्धो ।
बन्धो मृषापि व्यथयत्ययं माम्
स्वप्नोपमं छिन्ध्यव सर्वतो माम् ॥ ५॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं प्रार्थनास्तोत्रं सम्पूर्णम् ।