श्रीशङ्करप्रपत्तिस्तोत्रम्
(शिवरहस्यान्तर्गते उग्राख्ये)
यत्पादपद्मं निगमान्तवेद्यं
यत्पादपद्मं मुनिवृन्दवन्द्यम् ।
यत्पादपद्मं विधिविष्णुमृग्यं
तत्पादपद्मं शरणं व्रजामि ॥ १७४॥
यत्पादपद्याम्बुजमादिविष्णुः
स्वनेत्रपद्मेन मनोहरेण ।
समर्चायामास तदर्चनेन
सौभाग्यमुक्ति सुलभेन लप्स्ये ॥ १७५॥
यत्पादपद्माम्बुजरेणुमिष्टं
मुकुन्दचन्द्रेन्द्र चतुर्मुखाद्याः ।
समर्चयन्त्यन्वहमादरेण
तत्पादपद्मं शरणं व्रजामि ॥ १७६॥
यन्नामसङ्कीर्तनमेकमेव
विनाशयत्याशु महाघसङ्घम् ।
तं देवमीशं शरणं व्रजामि
ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम् ॥ १७७॥
यन्नाममात्रोच्चरणेन सद्यो
धन्या भवन्त्येव हि पापिनोऽपि ।
तं देवमीशं शरणं व्रजामि
ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम् ॥ १७८॥
यन्नाम देहक्षयपूर्वकाले
स्मृतं ददात्येव हि मोक्षमेकम् ।
तं देवमीशं शरणं व्रजामि
ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम् ॥ १७९॥
यन्नामतत्त्वं न विधिर्विदेद
यन्नामतत्त्वं न विवेद विष्णुः ।
तं देवमीशं शरणं व्रजामि
ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम् ॥ १८०॥
यन्नामतत्त्वं न विवेद वेदो-
ऽप्यनन्तशाखः सकलस्वरूपः ।
तं देवमीशं शरणं व्रजामि
ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम् ॥ १८१॥
यन्नामसंसारसमुद्रमुद्रा-
विद्रावकं सर्वभयापहारि ।
तं देवमीशं शरणं व्रजामि
ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम् ॥ १८२॥
यन्नामदिव्यामृतपानसक्ता
निन्दन्ति देवानपि विष्णुमुख्यान् ।
तं देवमीशं शरणं व्रजामि
ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम् ॥ १८३॥
यन्नामपीयूषमपीय मूढा
भवन्ति संसारसमुद्रमग्नाः ।
तं देवमीशं शरणं व्रजामि
ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम् ॥ १८४॥
यन्नाम गोकोटिसहस्रकोटि-
प्रदानपुण्याधिकपुण्यपुण्यम् ।
तं देवमीशं शरणं व्रजामि
ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम् ॥ १८५॥
यन्नाम यागायुतकोटिकोटि-
सहस्रपुण्याधिकपुण्यपुण्यम् ।
तं देवमीशं शरणं व्रजामि
ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम् ॥ १८६॥
यन्नाम मत्तोन्नतदन्तिकोटि-
प्रदानपुण्याधिकपुण्यपुण्यम् ।
तं देवमीशं शरणं व्रजामि
ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम् ॥ १८७॥
यन्नाम रत्नोन्नतकोटिकोटि
तुला प्रदानाधिकपुण्यपुण्यम् ।
तं देवमीशं शरणं व्रजामि
ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम् ॥ १८८॥
यन्नाम शुभ्रोत्तमवाजिकोटि-
प्रदानपुण्याधिकपुण्यपुण्यम् ।
तं देवमीशं शरणं व्रजामि
ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम् ॥ १८९॥
यन्नाम सन्तप्तसुवर्णकोटि-
कोटिप्रदानाधिकपुण्यपुण्यम् ।
तं देवमीशं शरणं व्रजामि
ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम् ॥ १९०॥
यन्नाम कन्याजनकोटिकोटि-
प्रदानपुण्याधिकपुण्यपुण्यम् ।
तं देवमीशं शरणं व्रजामि
ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम् ॥ १९१॥
यन्नाम सस्यावृतासर्वपृथ्वी-
प्रदानपुण्याधिकपुण्यपुण्यम् ।
तं देवमीशं शरणं व्रजामि
ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम् ॥ १९२॥
॥ इति शिवरहस्यान्तर्गते श्रीशङ्करप्रपत्तिस्तोत्रं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २१। १७४-१९२॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 21 . 174-192..
Proofread by Ruma Dewan