श्री श्रीशङ्करस्तोत्रम्
सर्वेश्वरं सर्वमन्तवीर्यं विश्वार्तिनाशं गिरिशं सुरेशम् ।
गुणैर्विहीनं त्रिगुणात्मकं च नमामि तं ज्ञानदयं महेशम् ॥ १॥
वाराणसीक्षेत्र-विहारदक्षं त्रिलोकवन्द्यं हरिभक्तान्तम् ।
जगद्गुरुं संयमिनं दयालुं नमामि तं ज्ञानदयं महेशम् ॥ २॥
गङ्गोर्मिशोभं द्विजराजमौलिं शुद्धप्रदीप्तं रुचिरास्थिमालम् ।
जटाधरं भस्मविभूषिताङ्गं नमामि तं ज्ञानदयं महेशम् ॥ ३॥
कटोपिनद्घाजिनमादिदेवं हलाहलादं पितृकाननस्थम् ।
कराक्षसूत्रं वृषराजकेतं नमामि तं ज्ञानदयं महेशम् ॥ ४॥
गौरीप्रियं दक्षमखान्तमाद्यं कारुण्यपूर्णं भवभीतिनाशम् ।
पापौघनाशं स्मरविग्रहान्तं नमामि तं ज्ञानदयं महेशम् ॥ ५॥
वाणेश्वरं वह्निरवीन्दुनेत्रं भीमं मृडं शान्तगुणादिभूषम् ।
स्वयम्भुवं दूरितकालभीतिं नमामि तं ज्ञानदयं महेशम् ॥ ६॥
कैलासनाथं प्रमथाधिनाथं सुरासुरैर्चितपादयुग्मम् ।
तेजोमयं शूलपिनाकपाणिं नमामि तं ज्ञानदयं महेशम् ॥ ७॥
दुःखान्तकं सर्वसुखस्वरूपमभव्यशीलं शिवदं शिवेशम् ।
मृत्युञ्जयं मृत्युपतेः कृतान्तं नमामि तं ज्ञानदयं महेशम् ॥ ८॥
प्रसीद शम्भो ! हर ! रुद्र ! भद्र ! स्कन्दाशिवध्वंसपितः शरण्य ।
भूदेववंशप्रभवे कुबुद्धौ रामेन्द्रनाथे मयि रुद्रनाथ ! ॥ ९॥
इति श्री श्रीशङ्करस्तोत्रं सम्पूर्णम् ।
Encoded and proofread by Vani V.