शङ्करस्तोत्रम् ५
(स्वागतावृत्तं)
पर्वरात्रिरमणामृतभासां(१) सर्वगर्वहर ! । निर्मलकान्ते !
पर्वतेश्वरसुताधव! शम्भो! शर्व! मामव नतं जनमार्तम् ॥ १॥
पङ्कराशिमपि पावनकीर्ते! । रङ्कराजमव मां करुणाब्धे!
(२)शङ्कराऽनतमलं तव कर्तुं कं कराब्जमनघं न सदीड्यम् ॥ २॥
पादपा(३) दिविषदां न यथा ते पादपांसुरखिलेश सुखाप्त्यै ।
सादरा तव मतिर्भजदिष्टे(४) याऽदरादवति संश्रितवर्गम् ॥ ३॥
(५)स्वर्गवास्यरिशतक्षयकर्मानर्गलप्रथितनिस्तुलशक्ते! ।
भर्ग! तेऽद्य भजतोऽपि न (६)षण्णां वर्ग एष निहतो द्विषतां मे ॥ ४॥
नेदमन्नवसनादपि कालात्ते दरव्यसनमीश! । लभन्ते ।
वेदगीतगुण! ते शिव ! दृष्टा ये दयामृतरसार्दृशात्र ॥ ५॥
व्यालदष्टमिव भेकशिशुं मां कालदष्टमव दीनमनाथं ।
भाललोचन! महेश्वर ! शम्भो! बालशीतकरशेखर! शर्व ! ॥ ६॥
सन्तु कल्पशतसञ्चितनानामन्तुकोटय(७) उमेश! । तथापि ।
जन्तुभिस्तु शरणीकरणीयस्त्वं (८)तुषाररुगिवाखिलप्तैः ॥ ७॥
कामकोपमुखशत्रुभिरुग्रैरामयैरतितराकुलचताः ।
हा महेश! किमहं वद कुर्यां नाम तेऽप्यलमयं न गृहीतुम् ॥ ८॥
देव! । या(९) मुदिह सा खलु तोयादेव यादसि महत्यपि वाल्पे ।
सेवया तव सुखं जगति त्वामेव यामि शरणं श्रुतकीर्तिः ॥ ९॥
इन्दुचूड! । गृणतां तव कीर्तिं बिन्न्दुतां भजति संसृतिसिन्धुः ।
विदुना(१०) तदिह सैव निषेव्या किं (११)दुरीश्वरगुणैर्वत गीतैः ? ॥ १०॥
दासवत्सल! । भजन्ति सुरास्त्वां वासवप्रभृतयः प्रभुमाद्यं ।
हा सहास! पदमेव न नम्रो व्यासवत्कविरपि स्वगुरुं यः ॥ ११॥
कापि नाकजनमङ्गलमूर्तिर्या पिनाकसमलङ्कृतपाणिः ।
पापिना करुणया द्रुतचित्ताप्यादृता बत मया न हृदिस्था ॥ १२॥
मूलमुग्रविपदा स्मरमक्ष्णा तूलमग्निरिव योऽदहदीशः ।
कूलमस्य महतो भवसिन्धोः शूलपाणिरभयाय ममास्तु ॥ १३॥
(१२) साहिमुग्रमपटं(१३) जटिलं त्वां सा हिमाद्रितनयेश! । यथासौ ।
भो! जडस्य मम धीस्तव पादाम्भोजमुत्कहृदयाभ्युपयाता(१४) ॥ १४॥
अस्तु नाम तव सम्पदभावो वस्तुना(१५) मम मुदीश्वर! । येन ।
तत्त्वयास्ति विधृतं खलु कण्ठे तत्त्वमाद्यमुरु मङ्गलमेकम् ॥ १५॥
अद्य हन्त कृपणः किमु कुर्यां यद्यहं तव दृशा नहि दृष्टः ।
चित्रमेतदयि! पङ्कजबन्धु मित्रमेव भवतो बहु मन्ये ॥ १६॥
योगिर्भिर्न शिव! । केवलमुग्रैर्भोगिभिः श्रितपदोऽप्यसि शम्भो !
त्वां ततोऽस्म्युपगतः शरणं तत्स्वान्ततोषद यशोर्णव! पाहि ॥ १७॥
(औपच्छन्दसिकं वृत्तं)
किमनङ्गपिशाचयुक्सदाहं न मनो भूतभयङ्करं श्मशानं ।
भवता भवतापभागशुद्धं(१६) मम वासाय हरोररीकृतं ते ॥ १८॥
(शिखरिणीवृतं)
नतोऽहं ते हन्तेश्वर ! चरणयोर्भूरिदययो-
रतः शम्भो! शं भो! वितर हर! मह्यं त्वमतुलं ।
कृतं (१७)नागो नागोत्तमवलयकैर्न भ्रमवशः
क्षमा कार्या; (१८)कार्याधव! तव कथा न क्षमिनुता? ॥ १९॥
(पृथ्वीवृत्तं)
अनाहृतमुमेश! ते (१९)श्रुतिशतस्तवैकास्पदं
(२०) पदं तदितरद्गुरु स्वहितमित्यरं सेवितम् ।
जनेन बत येन तत्सपदि तस्य कालाकुलं
किमुग्रविपदा भवेन्न जनकं पदं कम्पदम् ॥ २०॥
(२१)पुनाति न भवान्प्रभो! कमिह कीर्तितः कीर्तितः
ददाति न फलं मुदामतिशयाचितं याचितम् ।
किमास्त उत नान्तिकेऽप्यहह मेऽनया मेनया
तयेव कुधिया विभो! त्वमपमानितोऽसि ध्रुवम् ॥ २१॥
प्रसादमुपवर्णितं शिव ! तवोपमन्यावहं
शृणोम्यसकृदादरात्कविभिरुत्तमैरुत्तमम् ।
भवन्तमपि भूतपं सदयमाशुतोषं भवं
प्रभुं त्रिजगतां गुरुं शरणमागतस्त्वामतः ॥ २२॥
(द्रुतविलम्बितवृत्तं)
भव! । न तेऽवनते कठिनं मनः सुरगुरोरगुरोरिव भोगिनि ।
(२२)कुरु चिरं रुचिरं शिरसीश ! मे स्वपदमापदमाशु यदुद्धरेत् ॥ २३॥
(हरिणीवृत्तं)
वरद! करदः संसृत्यब्धौ त्वमेव निमज्जता
सदसि यदसि ख्यातः सत्यं सतामिति सर्वथा ।
भवति भवतिग्मांशौ सत्याः(२३) कथं न तमःक्षतिः
सदयपद ! यद्युक्तं तद्भोः ! कुरुष्व । नमोऽस्तु ते ॥ २४॥
(पुष्पिताग्रावृत्तं)
स्मरहर! । करुणाघन ! त्वमेकां शृणु निजभक्तमयूरसूरिकेकाम्(२४) ।
त्वमसि तमसि दिव्यदृष्टिरन्धो भ्रममिह दीन इतोऽस्मि दीनबन्धो! ॥ २५॥
इति श्रीरामनन्दनमयूरेश्वरकृतं श्रीशङ्करस्तोत्रं सम्पूर्णम् ।
श्रीशङ्करार्पणमस्तु ।
असहिष्णुनोग्र! । भवता हृदये दारिद्र्यदुःखमत्युग्रं ।
पीतमपि विषं तस्माद्भीतमतः कण्ठ एवास्ते ॥ १॥
टिप्पणि
१। पर्वरात्रिरमणः पूर्णिमाचन्द्रस्तस्यामृतभासां सर्व गर्व हरतीति तत्सम्बुद्धौ । तेभ्योऽप्यतिधवलस्तापशान्तिकरश्च ।
२। हे शङ्कर तव सदीड्यं कराब्जं के आनतं अनघं निष्पापं कर्तुमलं न इत्यन्वयः । सर्वानपि नताननघान् विदध्यादिति भावः ।
३। हे आखिलेश सर्वेश । यथा ते पादपांसुः सुखाप्त्यै भवति तथा दिविषदां पादपा अपि न इत्यन्वयः ।
४। भजतां भक्तानामिष्टे ।
५। स्वर्गवासिनामराणां शतं तस्य क्षयकर्मणि विनाशेऽनर्गलमन्याहतं प्रथिता निस्तुला शक्तिर्यस्य तादृशः तत्सम्बुद्धौ ।
६। षण्णां द्विषतां वर्गः कामादिषट्कम् ।
७। मन्तवोऽपराधास्तेषां कोटयः ।
८। तुषाररुग् धवलः त्वं हिमगिरिश्च ।
९। अल्पे वा महति वा यादसि जलजन्तौ वा मुदिह वर्तते सा खलु तोयादेव। एवं तवैव सेवया जगति सुखमिति योज्यम् ।
१०। विन्दुना प्राज्ञेन ।
११। दुष्टा ईश्वरा राजादयः ।
१२। सनागम् ।
१३। अपटं दिगम्बरम् ।
१४। उत्कमुत्कण्ठितं हृदयं यस्यास्तादृशी धीः ।
१५। येन वस्तुना मम मुत् तत् त्वया कण्ठे विधृतमित्यन्वयः ।
१६। भवस्य संसारस्य तापं दुःखं भजतीति तादृक् । अशुद्ध च मम मनो भवता वासाय नाङ्गीकृतं किमित्यन्वयः ।
१७। न आगः इति पदच्छेदः ।
१८। का आर्याधव इति पदच्छेदः । आर्या पार्वती । तव का कथा क्षमिभिर्नुता नेत्यन्वयः ।
१९। श्रुतिशतस्य यः स्तवस्तस्या मुख्यमास्पदम् ।
२०। हे उमेश ! येन जनेन ते श्रुतिशतस्तवैकास्पदं पदमनादृतं तदितरद् गुरु च स्वहितं द्रुतं सेवितं तस्य तत्स्वहितं कालेन मृत्युना व्याकुलं सत् उग्रविपदां पदं न भवत् किम् । कम्पदं पदं स्थानं न भवेत् किं इत्यन्वयः ।
२१। हे प्रभो! कीर्तितः कीर्त्या । कीर्तिवर्णनेन कीर्तितः स्तुतो भवानिह कं न पुनाति कं च याचितं मुदामतिशयेनाचितं व्याप्तं च फलं न ददाति । सर्वानपि ददात्येवेत्यर्थः । तत्फलं तवान्तिके आस्ते उत न इत्यनया कुधिया तया मेनयेव त्वं ध्रुवमपमानितोऽसीत्यन्वयः ।
२२। चिरं रुचिरं स्वपदं मे शिरसि कुर्वित्यन्वयः ।
२३। सति आः इति पदच्छेदः । तिग्मांशौ सति तमःक्षतिः कथं न भवतीत्यन्वयः । आः इति खेदे ।
२४। ``मयूरमुग्धकेकां'' इति पाठः । मुग्धा रुचिरस्वना ।
Proofread by Rajesh Thyagarajan