शङ्कुकर्णकृतं शिवस्तोत्रम्
शङ्कुकर्ण उवाच ।
कपर्दिनं त्वां परतः परस्ताद्गोप्तारमेकं पुरुषं पुराणम् ।
व्रजामि योगेश्वरमीशितारमादित्यमग्निं कपिलाधिरूढम् ॥ १॥
त्वां ब्रह्मपारं हृदि सन्निविष्टं हिरण्मयं योगिनमादिमन्तम् ।
व्रजामि रुद्रं शरणं दिविस्थं महामुनिं ब्रह्ममयं पवित्रम् ॥ २॥
सहस्रपादाक्षिशिरोऽभियुक्तं सहस्रबाहुं तमसः परस्तात् ।
त्वां ब्रह्मपारं प्रणमामि शम्भुं हिरण्यगर्भाधिपतिं त्रिनेत्रम् ॥ ३॥
यतः प्रसूतिर्जगतो विनाशो येनावृतं सर्वमिदं शिवेन ।
तं ब्रह्मपारं भगवन्तमीशं प्रणम्य नित्यं शरणं प्रपद्ये ॥ ४॥
अलिङ्गमालोकविहीनरूपं स्वयम्प्रभुं चित्पतिमैकरुद्रम् ।
तं ब्रह्मपारं परमेश्वरं त्वां नमस्करिष्ये न यतोऽन्यदस्ति ॥ ५॥
यं योगिनस्त्यक्तसबीजयोगा लब्ध्वा समाधिं परमात्मभूताः ।
पश्यन्ति देवं प्रणतोऽस्मि नित्यं तं ब्रह्मपारं भवतः स्वरूपम् ॥ ६॥
न यत्र नामानि विशेषतृप्तिर्न सन्दृशे तिष्ठति यत्स्वरूपम् ।
तं ब्रह्मपारं प्रणतोऽस्मि नित्यं स्वयम्भुवं त्वां शरणं प्रपद्ये ॥ ७॥
यद्वेदवेदाभिरता विदेहं सब्रह्मविज्ञानमभेदमेकम् ।
पश्यन्त्यनेकं भवतः स्वरूपं तद्ब्रह्मपारं प्रणतोऽस्मि नित्यम् ॥ ८॥
यतः प्रधानं पुरुषः पुराणो विवर्त्तते यं प्रणमन्ति देवाः ।
नमामि तं ज्योतिषि सन्निविष्टं कालं बृहन्तं भवतः स्वरूपम् ॥ ९॥
व्रजामि नित्यं शरणं गुहेशं स्थाणुं प्रपद्ये गिरिशं पुराणम् ।
शिवं प्रपद्ये हरमिन्दुमौलिं पिनाकिनं त्वां शरणं व्रजामि ॥ १०॥
इति कूर्मपुराणे त्रयस्त्रिंशाध्यायान्तर्गतं
शङ्कुकर्णकृतं शिवस्तोत्रं समाप्तम् ।
कूर्मपुराणे पूर्वभागे ३३/३६-४५
Proofread by PSA Easwaran