शरभहृदयम्
श्रीदेव्युवाच ।
भगवन्देवदेवेश सर्वशास्त्रार्थवादक ।
ब्रूहि मे सर्वपापघ्नं किं मन्त्रमिष्टकामदम् ॥ १॥
केन पुण्यप्रभावेन शत्रूणां प्राणनाशनम् ।
सर्वपापप्रशमनं धनमायुष्यवर्धनम् ।
ब्रूहि मे कृपया शम्भो त्वत्पादकमलं नमः ॥ २॥
ईश्वर उवाच ।
शृणु वक्ष्यामि देवेशि सर्वपापहरं परम् ॥ ३॥
सर्वशत्रुहरं दिव्यं हृदयं शरभस्य च ।
सालुवं (शालुवं) सर्वरोगघ्नं हृदयं परमाद्भुतम् ॥ ४॥
गुह्याद्गुह्यतरं गुह्यं गोपनीयं प्रयत्नतः ।
पुरा नारायणः श्रीमान् क्षीराब्धौ मथनं ततः ॥ ५॥
तस्य प्रारम्भसमये हृदयं शरभस्य च ।
प्रातः कालेऽजपन्नित्यं विंशदावर्त्तिकं मुदा ॥ ६॥
एवं मासत्रयं कृत्वा प्रादुर्बभूव सालुवः (शालुवः) ।
तस्य सोदण्डवद्भूमौ प्रणम्य च पुनः पुनः ॥ ७॥
तमुत्थाप्य महातेजा मूर्ध्नयुपाघ्राय सालुवः (शालुवः) ।
सन्तुष्टः प्रत्युवाचेदं निर्विघ्नेनामृतं भवेत् ॥ ८॥
इत्युक्त्वा प्रददौ तस्मै रक्षणं सर्वविश्वकम् ।
ततो नारायणो देवः प्रणमानोऽब्रवीद्वचः ॥ ९॥
नारायण उवाच ।
देव देव महादेव पक्षिराज महाप्रभो ।
हृदयं तव देवेश तस्य को वा ऋषिर्वद ॥ १०॥
छन्दः किं बीजशक्ति च किं फलं वद मे प्रभो ।
श्री शरभेश्वर उवाच ।
शृणु वक्ष्याम्यहं विष्णो हृदयं मम सालुवम् (शालुवम्) ॥ ११॥
सर्वपापक्षयं पुण्यं सर्वशत्रुविनाशनम् ।
सर्वक्लेशविनाशं च सर्वसन्तोषकारणम् ॥ १२॥
सर्वसौभाग्यदं शान्तं सर्वमङ्गलवर्धनम् ।
ऋषिः कालाग्निरुद्रस्तु जगती छन्द ईरितम् ॥ १३॥
खं बीजं च महं देव शक्तिः स्वाहेत्युदीरितम् ।
कीलकं नम इत्याहुरिष्टार्थे विनियोगकम् ॥ १४॥
मूलन्यासादिकं कृत्वा ध्यायेच्छरभ सालुवम् (शालुवम्) ।
प्रथमं पक्षिराजं चं द्वितीयं शरभं तथा ॥ १५॥
तृतीयं सालुवं (शालुवं) प्रोक्तं चतुर्थं लोकनायकम् ।
पञ्चमं रेणुकानाथं षष्ठं कालाग्निरुद्रकम् ॥ १६॥
सप्तमं नारसिंहारिमष्टमं विश्वमोहनम् ।
श्रीं ह्रीं क्लीं नवमं चैव हुं हुं हुं दशमं तथा ॥ १७॥
क्लीं ह्रीं क्लामेकादशं च द्वादशं सर्वमन्त्रवित् ।
त्रयोदशं तु यन्त्रेशं चतुर्दशं महाबलः ॥ १८॥
पञ्चदशं पापनाशं षोडशं च करालकम् ।
सप्तदशं महारौद्रं भीममष्टादशं तथा ॥ १९॥
एकोनविंशं साम्बं च विंशं च शङ्करं तथा ।
विंशोत्तरैकं सर्वेशं द्वाविंशं पार्वतीपतिम् ॥ २०॥
त्रयोविंशं च ह्रूं ह्रूं ह्रूं चतुर्विंशमनन्तकम् ।
पञ्चविंशं वृषारूढं षडविंशं विश्वलोचनम् ॥ २१॥
त्रिलोचनं सप्तविंशमष्टाविंशं खगेन्द्रकम् ।
पं पं पं नवविंशं च त्रिंशं भुजगभूषणम् ॥ २२॥
एकत्रिंशं च लं लं लं द्वात्रिंशं पञ्चवक्त्रकम्
त्रयस्त्रिंशं च आनन्दं चतुस्त्रिंशं परात्परम् ॥ २३॥
पञ्चत्रिंशं च भं भं भं षटत्रिंशं शत्रुनाशनम् ।
सप्तत्रिंशं स्वयम्भूजं विश्वेशमष्टत्रिंशकम् (विभमष्टत्रिगुठितम्) ॥ २४॥
शूलपाणिं नवत्रिंशं चत्वारिंशं कलाधरम् ।
एकचत्वारिंशं सं सं (सं) द्विचत्वारिंश हंसकम् ॥ २५॥
एतधृदयमायुष्यं मन्त्र सर्वार्थसाधकम् ।
अनेकरत्नलंवानी जटामुकुटधारिणम् ॥ २६॥
अनेकरत्नसंयुक्तं सुवर्णाञ्चित्तमौलिनम् ।
तक्षकादिमहानागकुण्डलंद्वयशोभितम् ॥ २७॥
त्रिपञ्चनयनं पञ्चवक्त्र तुण्डधरं प्रभुम् ।
करालं भृकुटीभीमं शङ्खतुल्य कपोलकम् ॥ २८॥
कालीकलितदुर्गा च पक्षद्वयविराजितम् ।
दशायुधंधरं दीप्तं दशबाहुं त्रिलोचनम् ॥ २९॥
नीलकण्ठधरं भोगसर्पहारोपशोभितम् ।
विशालवक्षः विश्वेशं विश्वमोहनमव्ययम् ॥ ३०॥
त्रिपुरारिं त्रिशूलादिधारिणं मृगधारणम् ।
व्याघ्रचर्माम्बरधरं वाडवाग्निस्थितोदरम् ॥ ३१॥
मृत्युव्याधिस्थितोरुं चं वज्रजानुप्रदेशकम् ।
पादपङ्कजयुग्मं च तीक्ष्णवज्रनखाग्रकम् ॥ ३२॥
झणिनूपुरमञ्जीरझणत्किङ्किणिजङ्घकम् ।
वज्रतुण्डमहादीप्तं कालकालं कृपानिधिम् ॥ ३३॥
एवं ध्यात्वा च हृदयं त्रिंशदावृतिकं क्रमात् ।
नित्यं जप्त्वा सालुवेशं (शालुवेशं) हृदयं सर्वकामदम् ॥ ३४॥
सर्वपुण्यफलश्रेष्ठं सर्वशत्रुविनाशनम् ।
सर्वरोगहरं दिव्यं भजतां पापनाशनम् ॥ ३५॥
इहैव सकलान्भोगानन्ते शिवपदं व्रजेत् ।
इत्युक्त्वान्तर्दधे देवः शरभः पक्षिराजकः ॥ ३६॥
ततो नारायणो ध्यात्वा श्रुत्वा रूपं च विस्मितः ।
एतत्ते कथितं देवि हृदयं शरभस्य च ।
पठतां शृण्वतां चैव सर्वमन्त्रार्थसिद्धिदम् ॥ ३७॥
॥ इति श्री आकाशभैरवकल्पे प्रत्यक्षसिद्धिप्रदे
उमामहेश्वरसंवादे शरभहृदयम् ॥
॥ आकाशभैरवकल्पम् । अष्टसप्ततिमोऽध्यायः ॥
Proofread by Ruma Dewan