शरभशान्तिस्तोत्रम्
रुद्रः शङ्कर ईश्वरः पशुपतिः स्थाणुः कपर्दी शिवो
वागीशो वृषभध्वजः स्मरहरो भक्तप्रियस्त्र्यम्बकः ।
भूतेशो जगदीश्वरश्च वृषभो मृत्युञ्जयः श्रीपतिः
योऽस्मान् कालगलोऽवतात्पुरहरः शम्भुः पिनाकी हरः ॥ १॥
यतो नृसिंहं हरसि हर इत्युच्यते बुधैः ।
यतो बिभर्षि सकलं विभज्य तनुमष्टधा ॥ २॥
अतोऽस्मान् पाहि भगवन्प्रसीद च पुनः पुनः ।
इति स्तुतो महादेवः प्रसन्नो भक्तवत्सलः ॥ ३॥
सुरानाह्लादयामास वरदानैरभीप्सितैः ।
प्रसन्नोऽस्मि स्तवेनाहमनेन विबुधेश्वराः ॥ ४॥
मयि रुद्रे महादेवे भयत्वं भक्तिमूर्जितम् ।
ममांशोऽयं नृसिंहोऽयं मयि भक्ततमस्त्विह ॥ ५॥
इमं स्तवं जपेद्यस्तु शरभेशाष्टकं नरः ।
तस्य नश्यन्ति पापानि रिपवश्च सुरोत्तमाः ॥ ६॥
नश्यन्ति सर्वरोगाणि क्षयरोगादिकानि च ।
अशेषग्रहभूतानि कृत्रिमाणि ज्वराणि च ॥ ७॥
सर्पचोराग्निशार्दूलगजपोत्रिमुखानि च ।
अन्यानि च वनस्थानि नास्ति भीतिर्न संशयः ॥ ८॥
इत्युक्त्वान्तर्दधे देवि देवान् शरभसालुवः ।
ततस्ते स्व-स्वधामानि ययुराह्लादपूर्वकम् ॥ ९॥
एतच्छरभकं स्तोत्रं मन्त्रभूतं जपेन्नरः ।
सर्वान्कामानवाप्नोति शिवलोकं च गच्छति ॥ १०॥
इति श्रीआकाशभैरवकल्पोक्तं प्रत्यक्षसिद्धिप्रदे
उमामहेश्वरसंवादे शरभशान्तिस्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran