शतनाम शिवस्तोत्रम्
प्रदक्षिणनमस्कारैः पूजनीयः सदाशिवः ।
नाम्नां शतेन रुद्रोऽसौ स्तवनीयो यताविधि ॥ ७४॥
ॐ नमो रुद्राय भीमाय नीलकण्ठाय वेधसे ।
कपर्दिने सुरेशाय व्योमकेशाय वै नमः ॥ ७५॥
वृषध्वजाय सोमाय नीलकण्ठाय वै नमः ।
दिगम्बराय भर्गाय उमाकान्त कपर्दिने ॥ ७६॥
तपोमयाय व्याप्ताय शिपिविष्टाय वै नमः ।
व्यालप्रियाय व्यालाय व्यालानां पतये नमः ॥ ७७॥
महीधराय व्याघ्राय पशूनां पतये नमः ।
त्रिपुरान्तकसिंहाय शार्दूलोग्ररवाय च ॥ ७८॥
मीनाय मीननाथाय सिद्धाय परमेष्ठिने ।
कामान्तकाय बुद्धाय बुद्धीनां पतये नमः ॥ ७९॥
कपोताय विशिष्टाय शिष्टाय परमात्मने ।
वेदाय वेदबीजाय देवगुह्याय वै नमः ॥ ८०॥
दीर्घाय दीर्घदीर्घाय दीर्घार्घाय महाय च ।
नमो जगत्प्रतिष्ठाय व्योमरूपाय वै नमः ॥ ८१॥
गजासुरविनाशाय ह्यन्धकासुरभेदिने ।
नीललोहितशुक्लाय चण्डमुण्डप्रियाय च ॥ ८२॥
भक्तिप्रियाय देवाय ज्ञानज्ञानाव्ययाय च ।
महेशाय नमस्तुभ्यं महादेवहराय च ॥ ८३॥
त्रिनेत्राय त्रिवेदाय वेदाङ्गाय नमो नमः ।
अर्थाय अर्थरूपाय परमार्थाय वै नमः ॥ ८४॥
विश्वरूपाय विश्वाय विश्वनाथाय वै नमः ।
शङ्कराय च कालाय कालावयवरूपिणे ॥ ८५॥
अरूपाय च सूक्ष्माय सूक्ष्मसूक्ष्माय वै नमः ।
श्मशानवासिने तुभ्यं नमस्ते कृत्तिवाससे ॥ ८६॥
शशाङ्कशेखरायैव रुद्रविश्वाश्रयाय च ।
दुर्गाय दुर्गसाराय दुर्गावयवसाक्षिणे ॥ ८७॥
लिङ्गरूपाय लिङ्गाय लिङ्गानां पतये नमः ।
नमः प्रणवरूपाय प्रणवार्थाय वै नमः ॥ ८८॥
नमो नमः कारणकारणाय ते मृत्युञ्जयायात्मभवस्वरूपिणे ।
त्रियम्बकायासितकण्ठ भर्ग गौरिपते सकलमङ्गलहेतवे नमः ॥ ८९॥
इति श्रीस्कन्दपुराणे माहेश्वरखण्डे, केदारखण्डे, सप्तदशाध्यायान्तर्गतं
शतनाम शिवस्तोत्रं समाप्तम् ।
स्कन्दपुराण । माहेश्वरखण्ड । केदारखण्ड । अध्याय १७/७५-८९॥
skandapurANa . mAheshvarakhaNDa . kedArakhaNDa . adhyAya 17/75-89..
Proofread by PSA Easwaran