शेषकृता हाटकेश्वरशिवस्तुतिः १

शेषकृता हाटकेश्वरशिवस्तुतिः १

(शिवरहस्यान्तर्गते भीमाख्ये) फणामणिगणव्रज प्रभवगर्भधामामृत- प्रभं वर सुहाटकेश्वरमहोरुलिङ्गोत्तमम् । सुबिल्वदलपङ्कजैः कनकचम्पकैर्मल्लिका- कदम्बकरवीरजैः सुमवरैः प्रपूज्योरगाः ॥ १३॥ लिङ्गं हाटकगर्भमण्डितमहागर्भोरुधामस्थितं दिव्योत्तुङ्गवृषाद्यरत्नशिखरद्वाराङ्कितं सुन्दरम् । प्राकारप्रकरैरपारगणनाहीनस्वमौलीलस- त्सद्रत्नच्छविभिः प्रदीपितमुमाकान्तलयेषूद्यताः ॥ १४॥ पातालगङ्गाम्बुघटीसहस्र- धारादिभिः क्षीरदधिप्रभाज्यैः । प्राज्यैर्मधुप्रभवसारघटीसहस्रैः सच्छर्कराफलरसैरपि चेक्षुनीरैः ॥ १५॥ सन्नारिकेलोदकजम्बुनीर - रम्भाफलाम्रप्रभवैश्च पनसैः । गन्धोदकैश्चन्द्र उशीरपाटला- तक्कोलकाङ्कोलसुवासितैर्जलैः ॥ १६॥ आज्यैश्च गव्यैर्वर पञ्चकाद्यै- रालिप्य लिङ्गं धवलैश्चवस्त्रैः । सद्रत्नभूषाफणिगोलकाङ्कितै रत्नैश्च निष्टप्तसुवर्णयुक्तैः ॥ १७॥ तगरागरुधूपसम्भवै- रथ गन्धैर्मणिदीपकोटिभिः । परिफुल्लसुपङ्कजार्कबिल्वै- रपि मल्लीकरवीरजाजिपुष्पैः ॥ १८॥ मरुवदमनकस्रजादिभारैः परिपूज्य प्रमथाधिपोरुलिङ्गम् । भुजगा जगतां महेशमेवं वरनैवेद्यभरैः फलैश्च भक्ष्यभोज्यैः ॥ १९॥ स्रक्ताम्बूलदुकूलवर्यविहितालङ्कारसच्चन्दना- लिप्तं लिङ्गमुमापतेः प्रियतमं नीराजयन्ति द्विज दीपानां च सहस्रकैर्वरमहाकर्पूरखण्डोत्थित- ज्वालाजालनिरस्तदिक्तमततिं ते पन्नगाः शङ्करम् ॥ २०॥ हाटककटकं महेशलिङ्गे परिसंवेष्ट्य मुदाननोत्त्थरत्नैः । स्वफणाछदि सुन्दरेशमूर्ध्नि वरिवस्याभिरहो समर्चयन्ति ॥ २१॥ स्वच्छेन्दुधामपरिमण्डल सन्निभोरु- निष्टप्तरुक्मवरदण्डसुमण्डितैश्च । सच्छत्रपङ्क्तिवरचामरकोटिकोटि- भ्राजत्पताकनिकरैर्व्यजनैरपारैः ॥ २२॥ आदर्शदर्शवरनाट्यमहोत्सवोद्यद्- ध्वानैर्जिताम्बुधिरवैर्वरदुन्दुभीनाम् । सत्काहलैर्वरमृदङ्गसुशङ्खनादैः सङ्घोष्य शङ्करमहालयमध्यमेवम् ॥ २३॥ तौर्यत्रिकैर्हरहरेति रवैर्भुजङ्गा नृत्यन्ति लिङ्गसविधे मुदिताः कृतार्थाः ॥ २४॥ श्रीरुद्रवीणायुतवाणिपाणि पद्मप्रभोत्थैर्नखरैर्नखाग्रैः । तदुक्तिरागोत्तमगानधारा नाम्नां च शम्भोश्च नयन्ति कालम् ॥ २५॥ तदङ्गणसुनीलिमाविधुतकालिनानं कुच- प्रकर्षभुजगाङ्गनाः परिलसत्कपोलश्रियः । चलद्दलनमण्डनैः प्रथितकुण्डलान्दोलनै- र्नयन्ति किल वीणया शिवमहेशगानादराः ॥ २६॥ ता नागाभरणोरुलिङ्गसदने नृत्यन्ति नागात्मजाः नागास्याः प्रसभोरुकाण्डसुमहापादा झणन्नूपुराः । पश्येशेति हरेति शङ्करमहादेवेति नित्यं सदा वीणावेणुमृदङ्गनिःस्वनलयैः सोमोरुधामाननाः ॥ २७॥ शेषोऽप्यशेषवदनैर्भुजगोरुभूष- पूषोज्ज्वलाक्षभसितोत्तमभूषिताङ्गम् । योषार्धकाय नवमाषनिकाशकण्ठं सन्तोष्य शङ्करमहो स्तुवति प्रदोषे ॥ (अस्तौत्प्रदोषसमये परितुष्टचेताः) ॥ २८॥ द्विजिह्वफणिभूषणं शशिहुताशसूर्येक्षणं सुपङ्कजदलेक्षणं प्रथितपूजया तोषणम् । गरोल्बणविशेषणं मदनकालसंहारणं कुरङ्गशिशु धारणं सुरवराद्यसत्कारणम् ॥ २९॥ ॥ इति शिवरहस्यान्तर्गते शेषकृता हाटकेश्वरशस्तुतिः १ सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः २७ शेषकृतहाटकेशार्चनम् । १३-२९॥ - .. shrIshivarahasyam . bhImAkhyaH aShTamAMshaH . adhyAyaH 27 sheShakRRitahATakeshArchanam . 13-29.. Notes: Śeṣa (Nāga) शेष (नाग); eulogizes Hāṭakeśvara Śiva हाटकेश्वर शिव. Proofread by Ruma Dewan
% Text title            : Sheshakrita Hatakeshvara Shiva Stuti 1
% File name             : sheShakRRitAhATakeshvarashivastutiH1.itx
% itxtitle              : hATakeshvarashivastutiH 1 (sheShakRitA shivarahasyAntargatA phaNAmaNigaNavraja prabhavagarbhadhAmAmRita)
% engtitle              : sheShakRitA hATakeshvarashivastutiH 1
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhImAkhyaH aShTamAMshaH | adhyAyaH 27 sheShakRitahATakeshArchanam | 13-29||
% Indexextra            : (Scan)
% Latest update         : July 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org