शेषकृता हाटकेश्वरशिवस्तुतिः २
(शिवरहस्यान्तर्गते भीमाख्ये)
शेष उवाच ।
सुरवरतटिनीवृतोत्तमाङ्गं
स्फुरदुद्यद्रविसन्निभेन्दुचूडम् ।
अकपटकवचनान्तमृग्यपादं
करटित्वक्पट हाटकधूर्जटिं भजामि ॥ १४॥
वरहाटयुक्तगोवृषस्थं
शिवमाशास्यमुमासखं देवम् ।
निटिलानलदग्धकामं
कालहरं हाटक धूर्जटिं भजामि ॥ १५॥
पटुवटुमुनिभिर्निषेव्यमाणं
वटभूरुहतलकृतोटजं महेशम् ।
अघटनघटनापटुमाया-
तमसः पाटनहाटकेशमीक्षे ॥ १६॥
तटिन्निभजटाकुटीविधृतसामिसोमप्रभा-
विभासितजगत्त्रयं स्फुटकृपीटयोनीक्षणम् ।
कटस्थमगजापतिं कराटिकृत्तिभास्वत्कटिं
सुघोटककृतागमं सरभसं भजे धूर्जटिम् ॥ १७॥
आसत्यलोकावधिमौलि चैत-
त्पातालमूलं वरशाङ्गलिङ्गम् ।
श्रीहाटकेशं भजे वेदमौलि-
जालैकवेद्यं भुजगाङ्गभूषम् ॥ १८॥
॥ इति शिवरहस्यान्तर्गते शेषकृता हाटकेश्वरशिवस्तुतिः २ सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः २७ शेषकृतहाटकेशार्चनम् । १४-१८॥
- .. shrIshivarahasyam . bhImAkhyaH aShTamAMshaH . adhyAyaH 27 sheShakRRitahATakeshArchanam . 14-18..
Notes:
Śeṣa (Nāga) शेष (नाग); eulogizes Hāṭakeśvara Śiva हाटकेश्वर शिव.
Proofread by Ruma Dewan