शेषकृतं शिवस्तोत्रम्
शेष उवाच ।
नमस्त्रैलोक्यनाथाय दक्षयज्ञविभेदिने ।
आदिकर्त्रे नमस्तुभ्यं नमस्त्रैलोक्यरूपिणे ॥ ७॥
नमः सहस्रशिरसे नमः संहारकारिणे ।
सोमसूर्याग्निरूपाय जलरूपाय ते नमः ॥ ८॥
सर्वदा सर्वरूपाय कालरूपाय ते नमः ।
पाहि शङ्कर सर्वेश पाहि सोमेश सर्वग ।
जगन्नाथ नमस्तुभ्यं देहि मे मनसेप्सितम् ॥ ९॥
इति ब्रह्मपुराणे पञ्चदशाधिकशततमाध्यायान्तर्गतं
शेषकृतं शिवस्तोत्रं समाप्तम् ।
ब्रह्मपुराण । अध्याय ११५/७-९॥
brahmapurANa . adhyAya 115/7-9..
Proofread by PSA Easwaran