शिलादकृतं नन्दिकेश्वरोत्पत्तिस्तोत्रम्
शिलाद उवाच ।
भगवन्देवदेवेश त्रियम्बक ममाव्यय ॥ २६॥
पुत्रोऽसि जगतां यस्मात्त्राता दुःखाद्धि किं पुनः ।
रक्षको जगतां यस्मात्पिता मे पुत्र सर्वग ॥ २७॥
अयोनिज नमस्तुभ्यं जगद्योने पितामह ।
पितः पुत्र महेशान जगतां च जगद्गुरो ॥ २८॥
वत्सवत्स महाभाग पाहि मां परमेश्वर ।
त्वयाऽहं नन्दितो यस्मान्नन्दी नाम्ना सुरेश्वर ॥ २९॥
तस्मान्नन्दय मां नन्दिन्नमामि जगदीश्वरम् ।
प्रसीद पितरौ मेऽद्य रुद्रलोकं गतौ विभो ॥ ३०॥
पितामहाश्च भो नन्दिन्नवतीर्णे महेश्वरे ।
ममैव सफलं लोके जन्म वै जगतां प्रभो ॥ ३१॥
अवतीर्णे सुते नन्दीन् रक्षार्थं मह्यमीश्वर ।
तुभ्यं नमः सुरेशान नन्दीश्वर नमोऽस्तु ते ॥ ३२॥
पुत्र पाहि महाबाहो देवदेव जगद्गुरो ।
पुत्रत्वमेव नन्दीश मत्वा यत्कीर्तितं मया ॥ ३३॥
त्वया तत्क्षम्यतां वत्स स्तवस्तव्य सुरासुरैः ।
यः पठेच्छृणुयाद्वापि मम पुत्र प्रभाषितम् ॥ ३४॥
श्रावयेद्वा द्विजान् भक्त्या मया सार्धं स मोदते ।
एवं स्तुत्वा सुतं बालं प्रणम्य बहुमानतः ॥ ३५॥
मुनीश्वरांश्च सम्प्रेक्ष्य शिलादोवाच सुव्रतः ।
पश्यध्वं मुनयः सर्वे महाभाग्यं ममाव्ययः ॥ ३६॥
नन्दी यज्ञाङ्गणे देवश्चावतीर्णो यतः प्रभुः ।
मत्समः कः पुमाँल्लोके देवो वा दानवोऽपि वा ॥ ३७॥
एष नन्दी यतो जातो यज्ञभूमौ हिताय मे ॥ ३८॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे नन्दिकेश्वरोत्पत्तिर्नाम
द्विचत्वारिंशोऽध्यायः ॥ ४२॥
लिङ्गपुराण । पूर्वभाग । अध्याय ४२/२६-३७॥
lingapurANa . pUrvabhAga . adhyAya 42/26-37..
Proofread by PSA Easwaran