शिवाष्टोत्तरसहस्रनामस्तोत्रम्
श्रीशिव उवाच -
साधु साधु कुमाराद्य सम्यक्पृष्टं स्वयाधुना ।
यदिदानीं त्वयापृष्टं तद्वक्ष्ये शृणु सादरम् ॥ ३३॥
एवमेव पुरा गौर्या पृष्टः काश्यामहं तदा ।
समाख्यातं मया सम्यक्सर्वेषां मोक्षसाधनम् ॥ ३४॥
दिव्यान्यनन्तनामानि सन्ति तन्मध्यगं परम ।
अष्टोत्तरसहस्रं तु नाम्नां प्रियतरं मम ॥ ३५॥
एकैकमेव तन्मध्ये नाम सर्वार्थसाधकम् ।
मयापि नाम्नां सर्वेषां फलं वक्तुं न शक्यते ॥ ३६॥
तिलाक्षतैर्बिल्वपत्रैः कमलैः कोमलैर्नवैः ।
पूजयिष्यति मां भक्तया यस्त्वेतन्नामसङ्ख्यया ॥ ३७॥
स पापेभ्यः संसृतेश्च मुच्यते नात्र संशयः ।
ततो ममान्तिकं याति पुनरावृत्तिदुर्लभम् ॥ ३८॥
एकैकेनैव नाम्ना मामर्चयित्वा दृढव्रताः ।
स्वेष्टं फलं प्राप्नुवन्ति सत्यमेवोच्यते मया ॥ ३९॥
एतन्नामावली यस्तु पठतां (पठन्मां) प्रणमेत्सदा ।
स याति मम सायुज्यं स्वेष्टं बन्धुसमन्वितः ॥ ४०॥
स्पृष्ट्वा मां लिङ्ग ममलं (मल्लिङ्ग) एतन्नामानि यः पठेत् ।
स पातकेभ्यः सर्वेभ्यः सत्यमेव प्रमुच्यते ॥ ४१॥
यस्त्वेतन्नामभिः सम्यक् त्रिकालं वत्सरावधि ।
मामर्चयति निर्दम्भः स देवेन्द्रो भविष्यति ॥ ४२॥
एतन्नामानुसन्धाननिरतः सर्वदामुना ।
मम प्रियकरस्तस्मान्निवसाम्यत्र सादरम् ॥ ४३॥
तत्पूजया पूजितोऽहं स एवाहं मतो मम ।
तस्मात्प्रियतरं स्थानमन्यन्नैव हि दृश्यते ॥ ४४॥
हिरण्यबाहुरित्यादिनाम्नां शम्भुरहं ऋषिः ।
देवताप्यहमेवात्र शक्तिगौरी मम प्रिया ॥ ४५॥
महेश एव संसेव्यः सर्वैरिति हि कीलकम् ।
धर्माद्यर्थाः फलं ज्ञेयं फलदायी सदाशिवः ॥ ४६॥
- -
श्रीगणेशाय नमः ।
ॐ हिरण्यबाहुः सेनानीर्दिक्पतिस्तरुराट् हरः । (रराट् ??)
हरिकेशः पशुपतिः महान् सस्पिञ्जरो मृडः ॥ ४७॥
विव्याधी बभ्लुशः श्रेष्ठः परमात्मा सनातनः ।
सर्वान्नराट् जगत्कर्ता पुष्टेशो नन्दिकेश्वरः ॥ ४८॥
आततायी महारुद्रः संसारास्त्रः सुरेश्वरः ।
उपवीतिरहन्त्यात्मा क्षेत्रेशो वननायकः ॥ ४९॥
रोहितः स्थपतिः सूतो वागीशो मन्त्रिरुन्नतः ।
वृक्षेशो हुतभुग्देवो भुवन्तिर्वारिवस्कृतः ॥ ५०॥
उच्चैर्घोषो घोररूपः पत्तीशः पाशमोचकः ।
ओषधीशः पञ्चवक्त्रः कृत्स्नवीतो भयानकः ॥ ५१॥
सहमानः स्वर्णरेताः वि(नि)व्याधिर्निरुपप्लवः ।
अ(आ)व्याधिनीशः ककुभो निषङ्गि(ङ्गी)स्तेनरक्षकः ॥ ५२॥
मन्त्रात्मा तस्कराध्यक्षो वञ्चकः परिवञ्चकः ।
अरण्येशः परिचरो निचेरुःस्तायुरक्षकः ॥ ५३॥
प्रकृती(न्ते)शो गिरिचरः कुलि(लु)ञ्चेशो ग्रहेष्टकः ।
भवःशर्वो नीलकण्ठः कपर्दी त्रिपुरान्तकः ॥ ५४॥
व्युप्तकेशो गिरिशयः सहस्राक्षः सहस्रपात् ।
शिपिविष्टश्चन्द्रमौलिर्ह्रस्वो मीढुष्टमोऽनघः ॥ ५५॥
वामनो व्यापकःशूली वर्षीयानजडोऽनणुः ।
उर्व्यः (ऊर्म्यः) सूर्म्यप्रियः शीभ्यः प्रथमः पावकाकृतिः ॥ ५६॥
कुचेरस्तारकस्तारोऽवस्वन्योऽनन्तविग्रहः ।
दी(द्वी)प्यः स्रोतस्य ईशानो धुर्यो गव्ययनो यमः ॥ ५७॥
पूर्वजोऽपरजो ज्येष्ठः कनिष्ठो विश्वलोचनः ।
अपगल्भ्यो(ल्भो) मध्यमौर्व्यो जघन्यो बुध्नियःप्रभु ॥ ५८॥
प्रतिसू(स)र्योऽनन्तरूपः सोभ्यो याम्योऽसुराश्रयः ।
खल्योर्वर्यो भवच्छेद्यः श्लोक्यः पथ्यो नभोऽग्रणीः ॥ ५९॥
वन्योऽवसान्यः पूतात्मा श्रवः कक्ष्यः प्रतिश्रवः ।
आशुषेणो महासेनो महावीरो महारथः ॥ ६०॥
शूरोऽतिघातको वर्मी वरूथी बिल्मिरुद्यतः ।
श्रुतसेनः श्रुतः साक्षी कवची वशकृद्धशी ॥ ६१॥
आहनन्योऽनन्यनाथो दुन्दुभ्योऽरिष्टनाशक ।
शृष्णुः प्रमृश इत्यात्मा वदान्यो वेदसम्मतः ॥ ६२॥
तीक्ष्णेषुपाणिः प्रहितः स्वायुधः शास्त्रवित्तमः ।
सुधन्वा सुप्रसन्नात्मा विश्ववक्वः सदागतिः ॥ ६३॥
स्तु(स्रु)त्यः पथ्यो विश्वबाहुः काट्यो नीप्यो शुचिस्मितः ।
सूद्यः सरस्यो वैशन्तो नाद्यः कूप्यो ऋषिर्मनुः ॥ ६४॥
सर्वो वर्ष्यो वर्षरूपः कुमारः कुशलोऽमलः ।
मेध्योऽवर्ष्योऽमोघशक्तिः विद्युत्योऽमोघविक्रमः ॥ ६५॥
दुरासदो दुराराध्यो निर्द्वन्द्वो दुःसहर्षभः ।
इन्द्रि (ईध्रियः) क्रुद्धशमनो जातुकर्णः पुरुष्टुतः ॥ ६६॥
आतप्यो वायुरजरो वात्यः कात्यायनीप्रियः ।
वास्तव्यो वास्तुपो रेण्यो (रेष्म्यो) विश्वमूर्धा वसुप्रदः ॥ ६७॥
सोमस्ताम्रोऽरुणो(णः) शम्भू (शङ्गः) रुद्रः सुखकरः सुकृत् ।
उग्रोऽनुग्रो भीमकर्मा भीमो भीमपराक्रमः ॥ ६८॥
अग्रेवधो हनीयात्मा हन्ता दूरेवधो वधः ।
शम्भुर्मयोभु(भ)वो नित्यः शङ्करः कीर्तिसागरः ॥ ६९॥
मयस्करः शिवतरः खण्डपरशुरजः शुचिः ।
तीर्थः(र्थ्यः) कूल्योऽमृताधीशः पार्योऽवार्योऽमृताकरः ॥ ७०॥
शुद्धः प्रतरणो मुख्यः शुद्ध (शूल) पाणिरलोलुपः ।
उच्च उत्तरणस्तार्यस्तार्य (र) ज्ञस्तार्यदूरगः (?) ॥ ७१॥
आतार्यः सारभूतात्मा सारग्राही दुरत्ययः ।
आलाद्यो मोक्षदः पथ्योऽनर्थहा सत्यसङ्गरः ॥ ७२॥
शष्पः फेन्यः प्रवाह्योढा सिकत्यः सैकताश्रयः ।
इरिण्यो ग्रामणिः(णीः) पुण्यः शरण्यः शुद्धशासनः ॥ ७३॥
वरेण्यो यज्ञरूपश्च यज्ञेशो यज्ञनायकः ।
यज्ञकर्ता यज्ञभोक्ता यज्ञविघ्नविनाशकः ॥ ७४॥
यज्ञकर्मफलाध्यक्षो यज्ञमूर्तिरनातुरः ।
प्रपथ्यः किंशुको मेद्यो(ध्यो) गृह्यस्तल्प्यो धनाकरः ॥ ७५॥
पुलस्त्यःक्षणयो(क्षयणो) गेह्यो गोविन्दो गीतसत्क्रियः ।
हृदद्यो(ह्रदय्यो) हृद(द्य)कृत् हृद्यो गह्वरेष्ठः प्रभाकरः ॥ ७६॥
(निवेष्टयो(ष्प्यो) नियतो यन्ता पाँसव्य) ।
निवेष्टयो (ष्प्यो) नियतो यन्ता पाँसत्यः(व्यः) प्रतापनः ॥ ७७॥
शुष्क्यो हरित्यः पूतात्मा रजस्यः सात्विकप्रियः ।
लोप्योलुप्यः (लप्यः) पर्णशद्यः पर्णपूर्णः पुरातनः ॥ ७८॥
भूतो भूतपतिर्भूयो भूधरो भूधरायुधः ।
भूतसङ्घो भूतमूर्तिर्भूति(त)हा (भूतिदो) भूतिभूषणः ॥ ७९॥
मदनो मादको माद्यो मदहा मधुरप्रियः ।
मधुर्मधुकरः क्रूरो मदनो मदनान्तकः ॥ ८०॥
निरञ्जनो निराकारो निर्लुप्तो निरुपाधिकः ।
निष्प्रपञ्चो निराकारो निरीहो निरुपद्रवः ॥ ८१॥
सत्त्वः सत्त्वगुणोपेतः सत्त्ववित् सत्त्ववित्प्रियः ।
सत्त्वनिष्ठः सत्त्वमूर्तिः सत्त्वेशः सत्त्ववित्तमः ॥ ८२॥
समस्तजगदाधारः समस्तगुणसागरः ।
समस्तदुःखविध्वंसी समस्तानन्दकारणः ॥ ८३॥
रुद्राक्षमालाभरणो रुद्राक्षप्रियवत्सलः ।
रुद्राक्षवक्षा रुद्राक्षरूपो रुद्राक्षभक्षकः ॥ ८४॥
विश्वेश्वरो वीरभद्रः सम्राट् दक्षमखान्तकः ।
विध्नेश्वरो विघ्नकर्ता गुरुर्देवशिखामणिः ॥ ८५॥
भुजगेन्द्रलसत्कण्ठो भुजङ्गाभरणप्रियः ।
भुजङ्गविलसत्कर्णो भुजङ्गवलयावृतः ॥ ८६॥
मुनिवन्द्यो मुनिश्रेष्ठो मुनिवृन्दनिषेवितः ।
मुनिहृत्पुण्डरीकस्थो मुनिसङ्घैकजीवनः ॥ ८७॥
मुनिमृग्यो वेदमृग्यो मृगहस्तो मुनीश्वरः ।
मृगेन्द्रचर्मवसनो नरसिह्मनिपातनः ॥ ८८॥
मृत्युञ्जयो मृत्युर्मृत्युरपम्मृत्युविनाशकः ।
दुष्टमृत्युरदुष्टेष्टः मृत्युहा मृत्युपूजितः ॥ ८९॥
उर्व्यो हिरण्यः परमो निधनेशो धनाधिपः ।
यजुर्मूर्तिः साममूर्तिः ऋङ्मूर्तिर्मूर्तिवर्जितः ॥ ९०॥
व्यक्तो व्यक्ततमोऽव्यक्तो व्यक्ताव्यक्तस्तमो जवी ।
लिङ्गमूर्तिरलिङ्गात्मा लिङ्गालिङ्गात्मविग्रहः ॥ ९१॥
ग्रहोऽग्रहो ग्रहाधारो ग्रहाकारो ग्रहेश्वरः ।
ग्रहकृद्ग्रहभिद्ग्राही ग्रहो ग्रहविलक्षणः ॥ ९२॥
कल्पाकारः कल्पकर्ता कल्पलक्षणतत्परः ।
कल्पो कल्पाकृतिः कल्पनाशकः कल्पकल्पकः ॥ ९३॥
परमात्मा प्रधानात्मा प्रधानपुरुषः शिवः ।
वेद्यो वैद्यो वेदवेद्यो वेदवेदान्तसंस्तुतः ॥ ९४॥
वेदवक्त्रो वेदजिह्वो विजिह्वो जिह्मनाशकः ।
कल्याणरूपः कल्याणः कल्याणगुणसंश्रयः ॥ ९५॥
भक्तकल्याणदो भक्तकामधेनुः सुराधिपः ।
पावनः पावको वामो महाकालो मदापहः ॥ ९६॥
घोरपातकदावाग्निर्दवभस्मकणप्रियः ।
अनन्तसोमसूर्याग्निमण्डलप्रतिमप्रभः ॥ ९७॥
जगदेकप्रभुःस्वामी जगद्वन्द्यो जगन्मयः ।
जगदानन्ददो जन्मजरामरणवर्जितः ॥ ९८॥
खट्वाङ्गी नीतिमान् सद्योदेवतात्मात्मसम्भवः ।
कपालमालाभरणः कपाली विष्णुवल्लभः ॥ ९९॥
कमलासनकालाग्निः कमलासनपूजितः ।
कालाधीशस्त्रिकालज्ञो दुष्टविग्रहवारकः ॥ १००॥
नाट्यकर्ता नटपरो महानाट्यविशारदः ।
विराड्रूपधरो धीरो वीरो वृषभवाहनः ॥ १०१॥
वृषाङ्को वृषभावीशो वृषात्मा वृषभध्वजः ।
महोन्नतो महावक्ष्यो(क्ष्म्यो) महावीरो महाभुजः ॥ १०२॥
महास्कन्धो महाग्रीवो महाद्वक्त्रो महच्छरः ।
(महास्कन्धो महाग्रीवो महावक्त्रो महाशिराः)
महाहनुर्महादंष्ट्रो महादोष्टो(ष्मान्) (महदोष्ठः) महोदरः ॥ १०३॥
सुन्दरभ्रुः सुनयनः सुललाटः सुग(क)न्धरः ।
सत्यवाक्यो धर्मवेत्ता सत्यज्ञः सत्यवित्तमः ॥ १०४॥
धर्मवान्धर्मनिपुणो धर्मो धर्मप्रवर्तकः ।
कृतज्ञः कृतकृत्यात्मा कृतकृत्यः कृतागमः ॥ १०५॥
कृत्यवित्कृत्यविच्छ्रेष्ठः कृतज्ञप्रियकृत्तमः ।
व्रतकृद्व्रतविच्छ्रेष्ठो व्रतविद्वान् महाव्रती ॥ १०६॥
व्रतप्रियो व्रताकारो व्रताधारो व्रतेश्वरः ।
अतिरागी वीतरागो रागहेतुर्विरागवित् ॥ १०७॥
रागघ्नो रागि(ग)शमनो रागदो रागिरागवित् ।
विद्वान् विद्वत्तमो विद्वज्जनमानससंश्रयः ॥ १०८॥
विद्वज्जनाश्रयो विद्वज्जनस्तव्यपराक्रमः ।
नीतिकृन्नीतिविन्नीतिप्रदाता नीतिवित्प्रियः ॥ १०९॥
विनीतिवत्सलो नीतिस्वरूपो नीतिसंश्रयः ।
क्रोधजित्क्रोधिलः(धनः) क्रोधिजनवित्क्रोधरूपधृक् ॥ ११०॥
क्रोधदःक्रोधहा क्रोधी(धि)जनहा क्रोधकारणः ।
गुणवान् गुणविच्छ्रेष्ठो निर्गुणो गुणवत्प्रियः ॥ १११॥
गुणाधारो गुणकारो गुणकृद्गुणनाशकः ।
वीर्यवान् वीर्यकश्रेष्ठो वीर्यविद्वीर्यसंश्रय ॥ ११२॥
वीर्याकारो वीर्यकरो वीर्यहा वीर्यवर्धकः ।
कालवित्कालकृत्कालो बलकृद्बलविद्बली ॥ ११३॥
मनोन्मनो मनोरूपो बलप्रमथनो बलः ।
विद्याप्रदाता विद्येशो विद्यामात्रैकसंश्रयः ॥ ११४॥
विद्याकारो महाविद्यो विद्याविद्यो विशारद ।
वसन्तकृद्वसन्तात्मा वसन्तेशो वसन्तदः ॥ ११५॥
ग्रीष्मात्मा ग्रीष्मकृद् ग्रीष्म(म)वर्धको ग्रीष्मनाशकः ।
प्रावृट्कृत्प्रावृडाकारः प्रीवृट्कालप्रवर्तकः ॥ ११६॥
प्रावृट्प्रवर्धकः प्रावृण्णाथः प्रावृड्विनाशकः ।
शरदात्मा शरद्धेतुः शरत्कालप्रवर्तकः ॥ ११७॥
शरन्नाथः शरत्कालनाशकः शरदाश्रयः ।
हिमस्वरूपो हिमदो हिमहा हिमनायकः ॥ ११८॥
शैशिरात्मा शैशिरेशः शैशिरर्तुप्रवर्तकः ।
प्राच्यात्मा दक्षिणाकारः प्रतीच्यात्मोत्तराकृतिः ॥ ११९॥
ऊर्ध्वादन्यदिगाकारो नानादेशैकनायकः ।
सर्वपक्षी(क्षि)मृगाकारः सर्वपक्षिमृगाधिपः ॥ १२०॥
सर्वपक्षिमृगाधारो मृगाद्युत्पत्तिकारणः ।
जीवाध्यक्षो जीवबन्धो(धुः) जीवविज्जीवरक्षकः ॥ १२१॥
जीवकृज्जीवहा जीवजीवनो जीवसंश्रयः ।
ज्योतिःस्वरूपो विश्वात्मा विश्वनाथो वियत्पति ॥ १२२॥
वज्रात्मा वज्रहस्तात्मा वज्रशो वज्रभूषितः ।
कुमारगुरुरीशानो गणाध्यक्ष गणाधिपः ॥ १२३॥
पिनाकपाणिः सूर्यात्मा सोमसूर्याग्निलोचन ।
अपायरहितः शान्तो दान्तो दमयिता दमः ॥ १२४॥
ऋषिः पुराणपुरुषः पुरुषेशः पुरन्दरः ।
अक्षोभ्यः क्षोभरहितः क्षोभदः क्षोभनाशकः ॥ १२५॥
कालाग्निरुद्र सर्वेशः शमरूपो महेश्वरः ।
प्रलयानलकृद्दिव्यः प्रलयानलनाशक ॥ १२६॥
त्र्यम्बको(त्रियम्बको)ऽरिषड्वर्गनाशको धनदप्रियः ।
सदम्भो दम्भरहितो दम्भो दम्भविनाशकः ॥ १२७॥
कुन्देन्दुशङ्खधवलो भस्मोद्धूलितविग्रहः ।
भस्मधारणहृष्टात्मा तुष्टः पुष्टोऽरिसूदनः ॥ १२८॥
स्थाणुर्दिगम्बरो भर्गो भगनेत्रभिदु(दो)द्यमः ।
त्रिकाग्निः कालकालाग्निरद्वितीयो महायशाः ॥ १२९॥
सामप्रियः सामवेत्ता सामगः सामगप्रियः ।
धीरोदात्तो महाधीरो धैर्यदो धैर्यवर्धकः ॥ १३०॥
लावण्यराशिः सर्वज्ञः सुबुद्धिर्बुद्धिमद्वरः ।
तुम्बवीणा(णः)कम्बुकण्ठः शम्बरारिनिकृन्तन ॥ १३१॥
शार्दूलचर्मवसणः पूर्णानन्दो जगत्प्रियः ।
जयप्रियो जयाध्यक्षो जयात्मा जयकारण ॥ १३२॥
जङ्गमाजङ्गमाकारी जगदुत्पत्तिकारणः ।
जगद्रक्षाकरो वश्यो जगत्प्रलयकारणः ॥ १३३॥
पूषदन्तभिदुत्कृष्टः पञ्चयज्ञप्रभञ्जकः ।
अष्टमूर्तिर्विश्वमूर्तिरतिमूर्तिरमूर्तिमान् ॥ १३४॥
कैलासशिखरावासः कैलासशिखरप्रियः ।
भक्तकैलासदः सूक्ष्मो व(म)र्मज्ञः सर्वशिक्षकः ॥ १३५॥
सोमः सोमकलाकारो महातेजा महातपाः ।
हिरण्यश्मश्रुरानन्दः स्वर्णकेश सुवर्णदृक् ॥ १३६॥
ब्रह्मा विश्वसृडुर्वीशो मोचको बन्धवर्जितः ।
स्वतन्त्रः सर्वमन्त्रात्मा द्युतिमानमितप्रभः ॥ १३७॥
पुष्कराक्षः पुण्यकीर्तिः पुण्यश्रवणकीर्तनः ।
पुण्यमूर्तिः पुण्यदाता पुण्यापुण्यफलप्रदः ॥ १३८॥
सारभूतः सारमेयो रसभूतो रसाश्रयः ।
ओङ्कारः प्रणवो नादो प्रणतार्तिप्रभञ्जनः ॥ १३९॥
निकटस्थोऽतिदूरस्थो वशी ब्रह्माण्डनायकः ।
मन्दारमूलनिलयो मन्दारकुसुमावृतः ॥ १४०॥
वृन्दारकप्रियतमो वृन्दारकवरार्चितः ।
श्रीमाननन्तकल्याणपरिपूर्णो महोदयः ॥ १४१॥
महोत्साहो विश्वभोक्ता विश्वाशापरिपूरकः ।
सुलभोऽसुलभो लभ्योऽलभ्यो लाभप्रवर्धकः ॥ १४२॥
लाभात्मा लाभदो वक्ता द्युतिमाननसूयकः ।
ब्रह्मचारी दृढाचारी देवसिह्मो धनप्रियः ॥ १४३॥
वेदपो देवदेवेशो देवदेवोत्तमोत्तमः ।
बीजराजो बीजहेतुर्बीजदो बीजवृद्धिदः ॥ १४४॥
बीजाधारी बीजरूपो निर्बीजो बीजनाशकः ।
परापरेशो वरदः पिङ्गलोऽयुग्मलोचनः ॥ १४५॥
पिङ्गलाक्षः सुरगुरुः गुरुः सुरगुरुः प्रियः ।
युगावहो युगाधीशो युगकृद्युगनाशकः ॥ १४६॥
कर्पूरगौरो गौरीशो गौरीगुरुगुहाश्रयः ।
धूर्जटिः पिङ्गलजटो जटामण्डलमण्डितः ॥ १४७॥
मनोजवो जीवहेतुरन्धकासुरसूदनः ।
लोकबन्धुः कलाधारः पाण्डुरः प्रमथाधिपः ॥ १४८॥
अव्यक्ता(क्त)लक्षणो योगी योगीशो योगपुङ्गवः ।
श्रितावासो जनावासो सुरावासः सुमण्डलः ॥ १४९॥
भववैद्यो योगिवैद्यो योगि(ग)सिद्धो हृदासनः ।
उत्तमोऽनुत्तमोऽशक्तः कालकण्ठो विषादन ॥ १५०॥
आशास्य कमनीयात्मा शुभः सुन्दरविग्रहः ।
भक्तकल्पतरुः स्तोता स्तव्यः स्तोत्रवरप्रियः ॥ १५१॥
अप्रमेयगुणाधारो वेदकृद्वेदविग्रहः ।
क्रीर्त्याधारः कीर्तिकर कीर्तिहेतुरहेतुकः ॥ १५२॥
अप्रधृष्य शान्तभद्रः कीर्तिस्तम्भो मनोमयः ।
भूशयोऽन्नमयो भोक्ता महेष्वासो महीतनुः ॥ १५३॥
विज्ञानमय आनन्दमयः प्राणमयोऽन्नदः ।
सर्वलोकमयो यष्टा धर्माधर्मप्रवर्तकः ॥ १५४॥
अनिर्विण्णो गुणग्राही सर्वधर्मप्रवर्तकः ।
दयासुधार्द्रनयनो निराशीरपरिग्रह ॥ १५५॥
परार्थवृद्धि(त्ति)र्मधुरो मधुरप्रियदर्शनः ।
मुक्तादामपरीताङ्गो निःसङ्गो मङ्गलाकरः ॥ १५६॥
सुखप्रदः सुखाकारः सुखदुःखविवर्जित ।
विशृङ्खलो जगत्कर्ता जितसर्वः पितामहः ॥ १५७॥
अनपायोऽक्षयो मुण्डी सुरूप्यो रूपवर्जितः ।
अतीन्द्रियो महामायो मायावी विगतज्वरः ॥ १५८॥
अमृत शाश्वतः शान्तो मृत्युहा मूकनाशनः ।
महाप्रेतासनासीनः पिशाचानुचरावृतः ॥ १५९॥
गौरीविलाससदनो नागानन (नगराजो) विशारदः ।
विचित्रमाल्यवसनो दिव्यचन्दनचर्चितः ॥ १६०॥
विष्णुब्रह्मादिवन्द्याङ्घ्रिः सुरासुरनमस्कृतः ।
किरीटलेढिभालेन्दुर्मणिकङ्कणभूषितः ॥ १६१॥
रत्नाङ्गदाङ्गो रत्नेशो रत्नरञ्जितपादुकः ।
नवरत्नगणोपेतकिरीटो रत्नकञ्चुकः ॥ १६२॥
नानाविधानेकरत्नलसत्कुण्डलमण्डितः ।
दिव्यरत्नगणाकीर्णकण्ठाभरणभूषितः ॥ १६३॥
गलव्यालमणिर्नासापुटभ्राजितमौक्तिकः ।
रत्नाङ्गुलीयविलसत्करशाखानखप्रभः ॥ १६४॥
रत्नभ्राजद्धेमसूत्रलसत्कटितटः पटुः ।
वामाङ्कभागविलसत्पार्वतीवीक्ष्णप्रियः ॥ १६५॥
लीलाबलम्बितवपुर्भक्तमानसमन्दिरः ।
मन्दमन्दारपुष्पौघलसद्वायुनिषेवितः ॥ १६६॥
कस्तूरीविलसद्भालो दिव्यवेषविराजितः ।
दिव्यदेहप्रभाकूटसन्दीपितदिगन्तरः ॥ १६७॥
देवासुरगरुःस्तव्यो देवासुरनमस्कृतः ।
हस्तराजत्पुण्डरीकः पुण्डरीकनिभेक्षणः ॥ १६८॥
सर्वाशास्यगुणोऽमेयः सर्वलोकेष्टभूषणः ।
सर्वेष्टदाता सर्वेष्टः स्फुरन्मङ्गलविग्रहः ॥ १६९॥
अविद्यालेशरहितो नानाविद्यैकसंश्रयः ।
मूर्तीभवत्कृपापूरो भक्तेष्टफलपूरकः ॥ १७०॥
सम्पूर्णकामः सौभाग्यनिधिः सौभाग्यदायकः ।
हितैषी हितकृत्सौम्यः परार्थैकप्रयोजनः ॥ १७१॥
शरणागतदीनार्तपरित्राणपरायणः ।
जिष्णुर्नेता वषट्कारो भ्राजिष्णुर्भोजनं हविः ॥ १७२॥
भोक्ता भोजयिता जेता जितारिर्जितमानसः ।
अक्षरः कारणं क्रुद्धःसमर (क्रुद्धसमरः) शारदप्लवः ॥ १७३॥
आज्ञापके(रे)च्छो(प्सो) गम्भीर कविर्दुःस्वप्ननाशकः ।
पञ्चब्रह्मसमुत्पत्तिः क्षेत्रज्ञः क्षेत्रपालकः ॥ १७४॥
व्योमकेशो भीमवेषो गौरीपतिरनामयः ।
भवाब्धितरणोपायो भगवान्भक्तवत्सलः ॥ १७५॥
वरो वरिष्ठो नेदिष्ठः प्रियः प्रियदवः सुधीः ।
यन्ता यविष्ठः क्षोदिष्ठो यविष्ठो यमशासकः ॥ १७६॥
हिरण्यगर्भो हेमाङ्गो हेमरूपो हिरण्यदः ।
ब्रह्मज्योतिरता(ना)वेक्ष्यश्चामुण्डाजनको रविः ॥ १७७॥
मोक्षार्थी जनसंसेव्यो मोक्षदो मोक्षनायकः ।
महाश्मशाननिलयो वेदाश्वो भूरथस्थितः ॥ १७८॥
मृगव्याधो(घ्र) चर्मधामा प्रच्छन्नः स्फटिकप्रभ ।
सर्वज्ञः परमार्थात्मा ब्रह्मानन्दाश्रयो विभुः ॥ १७९॥
महेश्वरो महादेवः परब्रह्म सदाशिवः ।
- -
एवमेतानि नामानि मुख्यानि मम शङ्करी (शाङ्करे) ॥ १८०॥
शुभदानि विचित्राणि गौर्यै प्रोक्तानि सादरम् ।
एतन्नामजपे योग्यः(याः) विप्रा देवा मुनीश्वराः ॥ १८१॥
शुचिर्भू(चिभू)ताः शिवपरा नान्ये रागादिमोहिताः ।
विभूतिभूषितवपुः शुद्धो रुद्राक्षभूषणः ॥ १८२॥
शिवलिङ्गसमीपस्थो निस्सङ्गो निर्जितासन ।
एकाग्रचित्तो नियतो वशी भूतहिते रतः ॥ १८३॥
शिवलिङ्गार्चको नित्यं शिवैकशरणः सदा ।
मम नामानि दिव्यानि यो जपेद्भक्तिपूर्वकम् ॥ १८४॥
एवमुक्तगुणोपेतः स देवैः पूजितो भवेत् ।
संसारपाशसम्बद्धजनमोक्षैकसाधनम् ॥ १८५॥
मन्नामस्मरणं नूनं तदेव सकलार्थदम् ।
मन्नामैव परं जप्यमहमेवाक्षयार्थदः ॥ १८६॥
अहमेव सदासेव्यो ध्येयो मुक्त्यर्थमादरात् ।
विभूतिवज्रकवचैर्मन्नामस्मरणार्थिभिः ॥ १८७॥
विजयः सर्वतो लभ्यो न तेषां दृश्यते भयम् ॥ १८८॥
॥ इति शिवरहस्यान्तर्गते शिवाष्टोत्तरसहस्रनामस्तोत्रं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः १ । ३३-१८८॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 1 . 33-188..
Notes:
Upon being requested by Kumāra कुमार and Gaurī गौरी; Śiva शिव reveals the choicest 1008 Names (Aṣṭottarasahasranāma अष्टोत्तरसहस्रनाम) from all of His several Names that have a benevolent effect. He describes the merits of reciting these names.
There is an extended version of the sahasarnAmastotram with variations and pUrva/uttarapIThikA.
Proofread by Ruma Dewan