शिवाराधनमहिमानुवर्णनम्

शिवाराधनमहिमानुवर्णनम्

शिवपूजनमेव केवलं सकलार्थप्रदमर्थसिद्धिभिः । तदपेक्षितमेव साधनं विविधं तावदशेषसिद्धिदम् ॥ २४.२॥ यदा शङ्कराराधनासक्तमेतन्मनः स्यात् तदा कालभीतिः कुतः स्यात् । वयं शङ्कराराधनेनैव कालं नयामो नयामो नयामो नयामः ॥ २४.११॥ इदं चेयः शङ्कराराधनेन क्षयं याति पुण्यैरगण्यैस्तदा किम् । स कालोऽपि भीतोऽतिनित्यं प्रपन्नः भवेदस्मदीयांस्तथाऽस्मान् विशिष्य ॥ २४.१२॥ महाकालकालार्चनासक्तचित्तः क्षणं वा क्षणार्धं य एव प्रबुद्धः । तमाराधयत्येव कालोऽपि नूनं स भीतस्तदीयांस्तदाराधकांश्च ॥ २४.१३॥ कः कालकालभजनानुरतो न लोके शोकापहारकरणोद्यतचित्तवृत्तिः । सर्वाघनाशक इति प्रथितः स शोकं निर्मूलयिष्यति सदाशिव एव नित्यम् ॥ २४.१४॥ महामृत्युमृत्युं महादेवमेकं समाराध्य को वा न यात्येव मुक्तिम् । जराजन्मदुःखादिसंहारहेतुः वृषाधीशकेतुर्हताम्भोजकेतुः ॥ २४.१६॥ महेश्वरकथारसः सरसमानसे केवलं सुखानि जनयत्यहो मुहुरपाररूपाण्यपि । क्षणार्धमपि शङ्करो यदि मुदा हृदम्भोजगः कदा सुखमहोदधिः किमिति न प्रबुद्धो भवेत् ॥ २४.२९॥ अपारसुखरूपतामुपगतोऽपि मुक्तो भवेत् उमापतिपदाम्बुजस्मरणलालसे मानसे । कदापि न जनिर्भवेत् न च जराऽपि मृत्युर्भवेत् इति स्मरहरं स्मर स्मर पुनः पुनः शङ्करम् ॥ २४.३०॥ शिवार्चनाकारमहाग्निदग्धमपारपापोरुपतङ्गजातम् । भवत्यवश्यं तत एव नित्यं महेश्वराराधनमेव कुर्मः ॥ २४.५५॥ शिवपूजनरूपमौषधं हृदये यस्य निविष्टमेकदा । तदपारमहाभयापहं भवतीत्येव मतिर्ममाधुना ॥ २४.५६॥ धन्यास्ते हृदि सन्ततं शिवपदाम्भोजं निधायादरात् आनन्दामृतधारयाऽपि परया गम्भीरया सेचनम् । कुर्वन्तो विरतिं न यान्ति सुकृतैरप्यन्तहीनैर्मुहुः तद्भाग्यं भुवनेषु दुर्लभतरं तद्भुक्तिमुक्तिप्रदम् ॥ २४.६०॥ निधाय हृदि शङ्करं यदि विधाय पूजां मुहुः प्रनृत्यति महेश्वर स्मरहरेति हारः परम् । तदा परमवाप्नुयात् गिरिशपादुकाराधनप्रसादमतिदुर्लभं शुभमद्भुतं सन्ततम् ॥ २४.६१॥ तिरस्करोत्येव यमं यमादिभिः विनापि तावत् सकृदादरेण । स्मृत्वा सकृद्वा शिवमादरेण प्रयाति दुःखौघमहाब्धिपारम् ॥ २४.६२॥ शिवनामसुधामुहुर्मुहुः यदि पीता सकृदेव वा तदा । सकलाघविपर्यंयो भवेदपि मुक्तिश्च भवत्यपि ध्रुवम् ॥ २४.६८॥ वारं वारं शङ्करध्यानरूपं पीयूषं चेत् पीतमत्यादरेण । पापैर्भीति नोपयात्येव सत्यं मोक्षश्रीरप्यादरेणावृता स्यात् ॥ २४.७१॥ ॥ इति शिवरहस्यान्तर्गते शिवाराधनमहिमानुवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः २४। वावृत्तश्लोकाः ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 24. vAvRRittashlokAH .. Proofread by Ruma Dewan
% Text title            : Shivaradhanamahimanuvarnanam 1
% File name             : shivArAdhanamahimAnuvarNanam1.itx
% itxtitle              : shivArAdhanamahimAnuvarNanam 1 (shivarahasyAntargatam)
% engtitle              : shivArAdhanamahimAnuvarNanam 1
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shivarahasyam | harAkhyaH tRitIyAMshaH | uttarArdham | adhyAyaH 24 | vAvRittashlokAH ||
% Indexextra            : (Scan)
% Latest update         : January 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org