उपमन्युप्रति तस्यमातया शिवाराधनोपदेशेवं शिवाशीः
यं देवा ब्रह्मविष्ण्वाद्या नैव जानन्ति तं शिवम् ।
यस्य रूपपरिज्ञानं वेदान्तैरपि दुर्लभम् ॥ २३॥
भक्त्यैव लभ्यो यो देवः पूजितः सर्वकामदः ।
तमाराध्यैव देवाश्च मुनयोऽपि महेश्वरम् ॥ २४॥
लेभिरे वाञ्छितान्येव महादेवान्महेश्वरात् ।
तस्मिन्प्रसन्ने देवेशे किमलभ्यं शरीरिणाम् ॥ २५॥
- -
पूर्वतः पातु ते शम्भुः दक्षिणे नीललोहितः ।
पश्चिमे वामदेवोऽव्यादुत्तरस्यां पिनाकधृक् ॥ ३०॥
दिवि ईशानकृत्पातु भूम्यां भूभारधृक् स्वयम् ।
विष्णुर्ब्रह्मा च रुद्रश्च वसवो मरुतस्तथा ॥ ३१॥
आदित्या अश्विनौ रुद्रा यमसूर्यानलेन्दवः ।
गन्धर्वा गरुडा यक्षाः विद्याधरवराप्सराः ॥ ३२॥
नागाः किम्पुरुषा गावो मातरो मरुदीश्वरः ।
मृगाव पक्षिणो ये च हिंसका भूतजातयः ॥ ३३॥
व्याघ्रादयो हृष्टसत्वाः पान्तु त्वां वनमध्यगम् ।
तपस्यभिरतं शम्भुः शङ्करः पातु सर्वदा ॥ ३५॥
॥ इति शिवरहस्यान्तर्गते शिवाख्ये उपमन्युप्रति तस्यमातया शिवाशीः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः ११ । २३-२५, ३०-३५॥
- .. shrIshivarahasyam . shivAkhyaH chaturthAMshaH . adhyAyaH 11 . 23-25, 30-35..
Notes: Upamanyu उपमन्यु prepares for leaving towards the forest for engaging in worship of Śiva शिव on being inspired to do so by his mother for being able to get his wish fulfilled. His mother blesses him for his protection, as he leaves.
Proofread by Ruma Dewan