शिवार्चकप्रोक्तं मृल्लिङ्गमहिमोपदेशम्
(शिवरहस्यान्तर्गते उग्राख्ये)
शिवार्चकः (आह) -
राजन् तद्दोषशान्त्यर्थं कुरुमृल्लिङ्गपूजनम् ।
सदा करोतु यत्नेन भवत्या मृल्लिङ्गपूजनम् ॥ ६९६॥
क्षणं मृन्मयलिङ्गानां यदि कुर्यात्स पूजनम् ।
तदा स सर्वरोगेभ्यो मुच्यते नात्र संशयः ॥ ६९७॥
किमौषधैर्जपैर्होमैः किं दानैः किं ग्रहार्चनैः ।
किमन्यैरप्युपायैश्च विनामृत्युञ्जयार्चनम् ॥ ६९८॥
सद्यः सिध्यन्त्यभीष्टानां(नि) कृते मृत्युञ्जयार्चने ।
मृत्युञ्जयार्चनाऽसाध्यं न किञ्चिदपि भूपते ॥ ६९९॥
मृत्युं तरन्ति ते मर्त्या ये मृत्युञ्जयपूजकाः ।
मर्त्या मृत्युवशं यान्ति त्यक्तमृत्युञ्जयार्चनाः ॥ ७००॥
मृत्युञ्जयमनभ्य यो मृत्युं तर्तुमिच्छति ।
स मूर्ख इति विज्ञेयः सत्यं सत्यं न संशयः ॥ ७०१॥
दीर्घायुषो भविष्यन्ति कृतमृत्युञ्जयार्चनाः ।
अल्पायुषो भविष्यन्ति त्यक्तमृत्युञ्जयार्चनाः ॥ ७०२॥
मृत्युञ्जयार्चनं कार्यं मृल्लिङ्गे सर्वकामदे ।
तत्र सम्पूजितः शम्भुः प्रसीदति न संशयः ॥ ७०३॥
राजन्नायुष(ष्य)मारोग्यमैश्वर्यमतुलं बलम् ।
ज्ञान निर्वाणमप्यन्ते प्राप्यं मृल्लिङ्गपूजया ॥ ७०४॥
मृल्लिङ्गपूजनं कृत्वा विधिवद्भक्तिपूर्वकम् ।
भुक्त्वा भोगान्यथाकामं शिवं यान्ति च भूपते ॥ ७०५॥
मृल्लिङ्गार्चनमात्रेण सोमः सोमार्धशेखरः ।
सन्तुष्टः सकलाभीष्टान्दास्यत्येव ध्रुवं ध्रुवम् ॥ ७०६॥
॥ इति शिवरहस्यान्तर्गते राजाप्रति शिवार्चकप्रोक्तं मृल्लिङ्गमहिमोपदेशं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २७ मध्यार्जुनमहिमानुवर्णनम् । ६९६-७०६॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 27 madhyArjunamahimAnuvarNanam . 696-706..
Notes:
A Śivārcaka शिवार्चक delivers Upadeśa उपदेश (to Rājā राजा) about the merits of worshiping Mṛtyuñjaya Śiva मृत्युञ्जय शिव, especially through the form of Mṛnmayaliṅga/Mṛlliṅga मृन्मयलिङ्ग/मृल्लिङ्ग.
Proofread by Ruma Dewan