नन्दिकेशप्रोक्तं शिवार्चनमहिमकथनम्
मान्योऽन्यो न शिवार्चकादिति मतिर्धन्याऽस्य सञ्जायते
पुण्यानां परिपाकतः कथमपि प्रायः स धन्योत्तमः ।
लोके दुर्लभ एव शाम्भव इति प्रामाणिकानां वचो-
वीची सञ्चरति प्रभाकरकराकारा तमोनाशिका ॥ १॥
कोऽपि प्राणिषु कालकालभजनं कर्तुं प्रवृत्तो भवेत्
तं वन्दे पुनरेव तत्पदरजःपुञ्जैर्मनोरञ्जनम् ।
कर्तुं यो यतते कृतातिसुकृतैः तत्पादुके मस्तके
कृत्वा नृत्यति कोऽपि पुण्यविभवो भावः सभावग्रियः ॥ २॥
लोके दुर्लभ एव शाम्भव इति ज्ञात्वाऽतिपुण्यार्जितैः
लब्धश्चेत् भुवि शाम्भवः स्वविभवैरभ्यर्चनीयो मुहुः ।
मोहात् तद्भजनं त्यजेद्यदि तदा स्याद्दुर्भगो दुर्भगा
तन्माता जनकोऽपि दुर्भग इति ज्ञेयोऽपि तस्य ध्रुवम् ॥ ३॥
शम्भुः शाम्भवजिह्वया रसमयं गृह्णाति नैवेद्यमि
त्यन्नं शाम्भवपुङ्गवाय विविधं देयं तदाराधनात् ।
स्यादाराधित एव तेन स महादेवोऽतितुष्टः सदा
तं पुष्णाति धनादिभिर्वितनुते तां मुक्तिकान्तामिति ॥ ४॥
किं तद्वेदशिरोविचारनिरतस्वान्तेन तीर्थोदक-
स्नानेनापि तपस्यया शिवपुरावासेन यागैरपि ।
योगैर्वा नियमेन शाम्भवपदाम्भोजार्चनं चेन्न तैः
आवृत्तैरपि कोटिशोऽपि न फलं स्वर्गापवर्गप्रदम् ॥ ५॥
शम्भुर्मे प्रभुरित्यवैति बहुभिः पुण्याब्धिभिर्भूतले
कालोन्मूलककालकालकलनाव्यासक्तशीलः खलु ।
तं कालप्रलयेऽपि पूजय महामृत्युञ्जयस्तं प्रियं
ब्रह्मानन्दमयं विधाय विविधोपायैर्मुदा वर्धते ॥ ६॥
भाग्यं तस्य तदित्यवैमि बहुधा येनार्चितः शाम्भवः
सन्तुष्टो निलयः शिवस्य सुतरामम्बासमेतस्य सः ।
तस्मादप्यधिको न कोऽपि भुवनेष्वित्यादरादन्वहं
तं दृष्ट्वा प्रणमन्ति पुण्यनिवहैः सिद्धा मुनीन्द्रा अपि ॥ ७॥
योऽयं शाम्भवपुङ्गवः स मनुजः सिद्धा मुनिः किन्नरो
गन्धर्वो न सुरोऽपि कल्पतरुरप्याढ्यो न चिन्तामणिः ।
पीयूषं सुरधेनुरम्बुनिधिरप्यद्रीश्वरो वा परं
त्वन्यः कोऽपि महानुभाव इति मे भावोऽपि भावो भवः ॥ ८॥
किञ्चान्यत् यम भावलिङ्गनिलयं मृत्युञ्जयं योऽर्चयेत्
प्रस्तौति प्रणमत्यपारविभवं कृत्वा प्रदोषे प्रगे ।
हृष्टस्तन्निलयं न याहि न भटाः सम्प्रेषणीयास्त्वया
तन्मार्गेऽपि न याहि तत्कुलगृहत्यागं कुरुष्वादरात् ॥ ९॥
मोहाद्वा भवभावलिङ्गभजनासक्तालयाध्वन्यपि
व्यासङ्गादपि वा गतिर्यदि तदा श्रीकालकालः स्वयम् ।
संहारं तव कर्तुमिच्छति ततः तन्मन्दिराध्वाध्वनां
सङ्गो मास्तु यमायमस्तु नियमस्ते जीवनेच्छा यदि ॥ १०॥
श्रीशैलात् समुपेत्य शाम्भववरः तद्भावलिङ्गार्चनं
कृत्वा तस्य नुतिं करिष्यति नुतिः सा तावदभ्यस्यताम् ।
तं तावन्मुहुरादरेण विनयात् नत्वा कृतार्थो भव
त्वामापन्न समेति तेन न भयं ते कालकालादपि ॥ ११॥
कालाद्यावधि कालकालकलनासक्तान् विभूतिप्रभा-
रुद्राक्षाभरणान् शिवार्चनरतान् शैवोत्तमानादरात् ।
दृष्ट्वा हृष्टमनाः प्रणम्य बहुधा दूरादरादादरा-
त्तत्तत्सुन्दरमन्दिराण्यपि मुहुर्नत्वा यथेष्टं वस ॥ १२॥
॥ इति शिवरहस्यान्तर्गते नन्दिकेशप्रोक्तं शिवार्चनमहिमकथनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ४२। ५६-६७॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 42. 56-67..
Proofread by Ruma Dewan