ऋषि अगस्त्यप्रोक्तं शिवार्चनमहिमोपदेशम्
(शिवरहस्यान्तर्गते उग्राख्ये)
संसारसर्पदष्टानां शिपिविष्टार्चनं फलम् ।
सञ्जीविनी तदन्यत्तु नैव सञ्जीविनी ध्रुवम् ॥ ३५७॥
यः कुर्यात्कृतपापोऽपि महादेवार्चनं मुदा ।
स सर्वेभ्योऽपि पापोभ्यो मुक्तो मुक्तिं च विन्दति ॥ ३५८॥
तेषां न नरकाद्भीतिः संसारादपि सर्वथा ।
येषामस्ति महादेवे भक्तिरव्यभिचारिणी ॥ ३५९॥
शिवभक्तिः स्वयं साक्षाद्भुक्तिदा परमुक्तिदा ।
सा भक्तिर्भूरितपसा धन्यानां भवति द्विज ॥ ३६०॥
शिवार्चनात्परो धर्मो नास्ति न श्रूयतेऽपि वा ।
सत्यमेतत्पुनः सत्यं सत्यमेतन्न संशयः ॥ ३६१॥
भजनीयो महादेवो जपनीयः षडक्षरः ।
स्मरणीयः शिवानाथः पूजनीयश्च शङ्करः ॥ ३६२॥
॥ इति शिवरहस्यान्तर्गते ऋषि अगस्त्यप्रोक्तं शिवार्चनमहिमोपदेशं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २६ कुम्भघोणमहिमानुवर्णनम् । ३५७-३६२॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 26 kumbhaghoNamahimAnuvarNanam . 357-362..
Notes:
Ṛṣi Agastya ऋषि अगस्त्य; delivers Upadeśa उपदेश about merits of worshiping Śiva शिव and recommends Japa जप of Śiva Ṣaḍakṣara mantra शिव षडक्षर मन्त्र.
Proofread by Ruma Dewan