ऋषिगौतमप्रोक्तं शिवार्चनफलोपदेशम्

ऋषिगौतमप्रोक्तं शिवार्चनफलोपदेशम्

(शिवरहस्यान्तर्गते उग्राख्ये) अन्यानुत्पादयामास प्रथमं पार्वतीपतिः । शिवलिङ्गे कृता पूजा मोक्षाय परिकल्पते ॥ १२८॥ पञ्चाक्षरेण मन्त्रेण शिवलिङ्गे शिवार्चनम् । यः करिष्यति यत्नेन स जीवन्मुक्त उच्यते ॥ १२९॥ रुद्रमन्त्रैरविच्छिन्नमभिषेकं महेश्वरे । यः करिष्यति यत्नेन स जीवन्मुक्त उच्यते ॥ १३०॥ चन्दनागरुकस्तूरीकर्पूराणि महेश्वरे । यः प्रयच्छति यत्नेन स जीवन्मुक्त उच्यते ॥ १३१॥ कालागरुसमुद्भूतं धूप शङ्करसन्निधौ । यः प्रयच्छति यत्नेन स जीवन्मुक्त उच्यते ॥ १३२॥ दीपावलीमाज्यपूर्णां शिवलिङ्गस्य सन्निधौ । यः प्रयच्छति यत्नेन स जीवन्मुक्त उच्यते ॥ १३३॥ क्षीरान्नं गोघृतप्लुष्टं सशर्करमुमापतेः ॥ यः प्रयच्छति यत्नेन स जीवन्मुक्त उच्यते ॥ १३४॥ प्रदक्षिणनमस्कारान् शिवलिङ्गस्य सादरम् । यः करोति प्रयत्नेन स जीवन्मुक्त उच्यते ॥ १३५॥ कवले कवले भक्त्या महादेवानुकीर्तनम् । यः करोति प्रयत्नेन स जीवन्मुक्त उच्यते ॥ १३६॥ गच्छंस्तिष्ठञ्चछयानो वा महादेवानुकीर्तनम् । यः करोति प्रयत्नेन स जीवन्युक्त उच्यते ॥ १३७॥ गोक्षीरेण महादेवं योऽभिषिञ्चति सादरम् । स भुक्त्वा सकलान्भोगान् शिवलोकं गमिष्यति ॥ १३८॥ श्वेताक्षतैरपि स्वच्छैर्यः पूजयति शङ्करम् । स भुक्त्वा सकलान्भोगान् शिवलोकं गमिष्यति ॥ १३९॥ तिलाक्षतैरपि स्वच्छैर्यः पूजयति शङ्करम् । स भुक्त्वा सकलान्भोगान् शिवलोकं गमिष्यति ॥ १४०॥ घृतान्नेन गुडान्नेन यः शिवं पूजयिष्यति । स भुक्त्वा सकलान्भोगान् शिवलोकं गमिष्यति ॥ १४१॥ यो वै दुकूलवस्त्राद्यैः शम्भुं तं पूजयिष्यति । स भुक्त्वा सकलान्भोगान् शिवलोकं गमिष्यति ॥ १४२॥ यः सुवर्णेन रत्नैर्वा शङ्करं पूजयिष्यति । स भुक्त्वा सकलान्भोगान् शिवलोकं गमिष्यति ॥ १४३॥ यो महादेवभक्तानां परिचर्यां करिष्यति । स भुक्त्वा सकलान्भोगान् शिवलोकं गमिष्यति ॥ १४४॥ शरणं याति यः साम्बं मनोवाक्कायकर्मभिः । स भुक्त्वा सकलान्भोगान् शिवलोकं गमिष्यति ॥ १४५॥ ॥ इति शिवरहस्यान्तर्गते ऋषिगौतमप्रोक्तं शिवार्चनफलोपदेशं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २३। १२८-१४५॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 23 . 128-145.. Notes: Ṛṣi Gautama ऋषि गौतम delivers Upadeśa उपदेश about Devotion to Śiva शिव i.e. Śivabhakti शिवभक्ति, Mahādevānukīrtanam महादेवानुकीर्तनम्, making various offerings to Śivaliṅga शिवलिङ्ग - as alternative means of worshiping Śiva शिव; and the merits thereof, especially in terms of attaining Jīvanmukti जीवन्मुक्ति and Śivaloka शिवलोक. Proofread by Ruma Dewan
% Text title            : Rishigautamaproktam Shivarchanaphalopadesham
% File name             : shivArchanaphalopadesham.itx
% itxtitle              : shivArchanaphalopadesham (shivarahasyAntargatam)
% engtitle              : shivArchanaphalopadesham
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 23| 128-145||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org